SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १४ श्रीहेमचन्द्राचार्यग्रन्थावली. तथा रूढेः सद्भावात् । अयं तु शकनक्रियापरिणतिक्षणे एव शक्रव्यपदेशमभिमैति, न पूजनाभिषेचनक्षणे, अतिप्रसङ्गात् । गमनक्रियापरिणतिक्षणे एव गोव्यपदेशमाभिति, न स्थितिक्षणेऽपि, अतिप्रसङ्गात् , एवं सर्वत्रापि इति । . ____ अथ श्री वादिदेवमूरिरचितग्रन्थेषु शब्दसमभिरूढएवंभूतनयानामेवं निरूपणं दृश्यते । तथाहि-कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः। यथा-बभूव भवति भविष्यति सुमेरुः • इत्यादि । तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः, यथा बभूव भवति भविष्यति सुमेरुः इत्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति, भिन्न कालशब्दखात् , तादृसिद्धान्यशब्दवत् , इति । पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन समभिरूढः, इन्दनादिन्द्रः,शकनाच्छक्रः,पुर्दारणात्पुरन्दरः; इत्यादि । पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः; यथा-इन्द्रः, शक्रः, पुरन्दरः, इत्यादयः शब्दा भिन्नाभिघेया एव भिन्नशब्दत्वात् , करिकुरङ्गतुरङ्गवत् इत्यादि । - शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थ वाच्यलेनाभ्युपगच्छन्नेवम्भूतः । यथा-इन्दनमनुभवनिन्द्रः, शकनक्रियापरिणतः शक्रः, पूर्दारणे प्रवृत्तः पुरन्दरः, इत्युच्यते । क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तदाभासः। यथा-विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम्, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् । इत्यादिदेवसूरिकृत ग्रन्थः ॥ पूर्वकृतनिरूपणाच्चैतनिरूपणस्यैतेषां त्रयाणामपि नयानां नयाभासयुक्तवस्य पार्थक्येन दर्शनाद्विशेषः। ..
SR No.022483
Book TitleNayprakash Stav Vrutti
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy