SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ নামায় , वानां सदात्मनैकत्वमभिपति, सर्वमेकम् , अविशेषात् । इत्य युक्त्या सत्तात्मत्वेनैकत्वमशेषार्थानां सङ्गृह्यतेऽनेन, इत्यर्थः । निराकृताशेषविशेषस्तु सत्ताद्वैताभिप्रायस्तदाभासः, प्रमाणप्रतिपन्नानन्ताशेषधर्माणां लोपात् ; इति । . तथाऽपरसङग्रहो द्रव्यत्वेनाशेषद्रव्याणामेकत्वमभिपैति । 'द्रव्यम् ' इत्युक्ते हि अतीतानागतवर्तमानकालवर्ति विवक्षिताविवक्षितपर्यायद्रवणशीलानां जीवाजीवतद्भेदप्रभेदानामेकत्वेन सङ्ग्रहः। ___ सामान्यविशेषाणां सर्वथाऽर्थान्तरत्वाभिमायो वाऽपरस महाभासः, प्रतीतिविरोधात् ; इति । ___ सङ्ग्रहगृहीतार्थानां विधिपूर्वकमवहरणं विभजनं विभेदेन मरूपणं व्यवहारः। सङ्ग्रहस्तु सर्वद्रव्याणि द्रव्यम् , इति सर्वपर्यायाश्च पर्याय, इति; सङ्ग्रह्णाति । व्यवहारस्तु तद्विभागमभिमैति, यद्रव्यम् , तद्धर्माधर्माकाशकालपुद्गलजीवादिभेदात् षोढा, इति । एवं सहभाविततक्रमभावित्वरूपं प्रर्याय विभागमपि यथासम्भवमभिप्रेति व्यवहारः। कल्पनाऽऽरोपितद्रव्यपर्यायप्रविभागमभिभौति व्यवहाराभासः, द्रव्यादिपविभागस्तु न सन् , प्रपञ्चरूपत्वात् इत्यादितदुक्तिः । ऋजु' प्राञ्जलम्-वर्तमानक्षणमात्रं सूत्रयति, इति ऋजुसूत्रः मुखक्षणः सम्प्रत्यस्ति इत्यादिः । द्रव्य त्य सतोऽप्यनपणात्, अतीतानागतयोश्च विनष्टानुत्पनत्वेन असम्भवात् । न चैवं लोकव्यवहारविलोपप्रसङ्गः, नयस्यास्यैवं विषयमात्रारूपणात, लोकव्यवहारस्तु सकलनयसमुहसाध्यः, इति । .
SR No.022483
Book TitleNayprakash Stav Vrutti
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy