SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः। वाचकश्च ध्वनि न्यथा इत्यपि मिथ्या ॥ ३५॥ विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धेः ॥३६॥ एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्मा भ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् ॥ ३७॥ विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तनङ्गीनामेव संभवात् ॥ ३८॥ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् ॥ ३९ ॥ तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् ॥ तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात् ॥ ४१ ॥ तस्याऽपिसप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ॥४२॥ इयंसप्तनङ्गी प्रतिनङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥४३॥ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥ ४४ ॥
SR No.022482
Book TitlePramannay Tattvalkalankar
Original Sutra AuthorN/A
Author
PublisherUnknown
Publication Year
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy