________________
न्यायदीपिका ।
तव्यं । न चाक्षादिकमज्ञानविरोधि, अचेतनत्वात् । तस्मादज्ञानविरोधिनश्चेतनधर्मस्यैव करणत्वमुचितं । लोकेऽप्यंधकारविघटनाय तद्वि रोधी प्रकाश एवोपास्यते, न पुनर्घटादि, तदविरोधित्वात् ।
किंचास्वसंविदितत्वादक्षादेर्नार्थप्रमितौ साधकतमत्वं, स्वावभासनाशक्तस्य परावभासकत्वायोगात् । ज्ञानं तु स्वपरावभासकं प्रदीपादिवत्प्रतीतं । ततः स्थितं प्रमितावसाधकतमत्वादकरणमक्षादय इति । चक्षुषा प्रमीयते इत्यादिव्यवहारे पुनरुपचारः शरणं । उपचारप्रवृत्तौ च सहकारित्वं निबंधनं । न हि सहकारित्वेन तत्साधकमिदमिति करणं नाम, साधकविशेष्यस्यातिशयवतः करणत्वात् । तदुक्तं जैनेंद्रे " साधकतमं करणम् तस्मान्न लक्षणस्याक्षादावतिव्याप्तिः ।
""
अथापि धारावाहिकबुद्धिष्वतिव्याप्तिस्तासां सम्यग्ज्ञानत्वात् । न च तासामार्हतमते प्रामाण्याभ्युपगम इति । उच्यते । एकस्मिन्नेव घटे घटविषयाज्ञानविघटनार्थमाद्ये ज्ञाने प्रवृत्ते तेन घटप्रमितौ सिद्धायां पुनर्घटोऽयं घटोयमित्येवमुत्पन्नान्युत्तरोत्तरज्ञानानि खलु धारावाहिकज्ञानानि । न ह्येषां प्रमितिं प्रति साधकतमत्वं प्रथमज्ञानेनैव प्रमितेः सिद्धत्वात् । कथं तत्र लक्षणमतिव्याप्नोति तेषां गृहीतप्राहित्वात् ।
ननु घटे दृष्टे पुनरन्यव्यासंगे पश्चाद् घट एव दृष्टे पश्चात्तमं ज्ञानमप्रमाणं प्राप्नोति धारावाहिकवदिति चेन्न, दृष्टस्यापि मध्ये समारोपे सत्यदृष्टत्वात् । तदुक्तं " दृष्टोऽपि समारोपात्तादृक् " इति । एतेन निर्विकल्पके सत्तालोचनरूपे दर्शनेऽप्यतिव्याप्तिः परिहृता । तस्याव्यवसायरूपत्वेन प्रमिर्ति प्रति करणत्वाभावात् । निराकारस्य दर्शनस्य ज्ञानत्वाभावाच्च । " निराकारं दर्शनं साकारं ज्ञानं " इति प्रवचनात् । तस्मात् प्रमाणस्य सम्यग्ज्ञानमिति लक्षणं नातिव्याप्तं नाप्यव्याप्तं लक्ष्ययोः प्रत्यक्षपरोक्षयोव्र्व्याप्यवृत्तेः । नाप्यसंभवि लक्ष्यवृत्तेरबाधितत्वात् ।
किमिदं प्रमाणस्य प्रामाण्यं नाम ? प्रतिभातविषयाव्यभिचारित्वं ।