SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ वैशेषिक ! त्वया यत: पूर्वादिदशप्रत्यत्या जायते सा दिक्, गगनाद्भिन्नेति निगद्यते, तच्चाऽनुपपन्नं, दशप्रत्ययानां गगनादेव जायमानत्वादिति दर्शयति, नभः प्रदेशश्रेणिषु आकाशप्रदेशश्रेणिषु आदित्यस्य भानोरुदयवशात् पूर्वादिको व्यवहारो व्यवहृतिर्जायते, अयमर्थ: - येषु नभः प्रदेशेषु सूर्य उदेति ते नभ: प्रदेशाः पूर्वदिक्त्वव्यवहारजनकास्त एव नभ:प्रदेशा: पूर्वदिगित्युच्यते, शेषासु नवस्वप्यनयैव रीत्या योज्यं, तत: कारणात् व्योम्नो दिक् न भिन्ना, व्योमप्रदेशानामेव दिक्त्वादिति वृत्तार्थ: ॥२४॥ ॥ मूलम् ॥ आत्मा महापरिमाणा धिकरणं न संभवी ॥ असाधारणसामान्य - वत्त्वेऽनेकत्वतः सति ॥ २५ ॥ ॥ टीका ॥ - अथात्मन: परमतसिद्धं महापरिमाणाधिकरणत्वं निषेधयति । आत्मा म० । हे वैशेषिक ! आत्मा महापरिमाणाधिकरणं न संभवी, यथा गगनं महापरिमाणाधिकरणं संभवति न तथात्मा संभवति, कुत इत्याह असाधारणसामान्यवत्वे सत्यनेकत्वत: अनेकत्वादित्यर्थः । अनेकत्वादित्युक्ते सत्तादिसामान्येषु व्यभिचार:, उक्तं - सामान्यवत्वे सति तथा चाकाशकालादिषु व्यभिचार:, नत्वाकाशादीनामनेकत्वं, कुतस्तेषामेकत्वादितिचेन्न । घटाद्युपाधिभेदात्तेषामनेकत्वमिति तेषु व्यभिचारस्तन्निरासायाऽसाधारणसामान्यवत्त्वं अत सतीति तेषु असाधारणसामान्यमाकाशत्वकालत्वादिकं न संभवति, तच्च भवताऽपि सामान्यत्वेन नांगीकृतमिति, द्रष्टांतश्चात्र घट एव, घटे ह्येतादृशहेतुसाध्ययोः प्रवर्त्तमानात्, एवमनेकयुक्तय आत्मनो विभुत्वनिषेधिकास्संति, ताश्चातीवग्रंथगौरवभयान्नोच्यंत इति वृत्तार्थः॥ २५ ॥ - 504 100000१७ DICICICI
SR No.022480
Book TitleNaywad Ane Yukti Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani, Hemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy