SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ गगनं एकत्वादजीव:, तथायमपि, कथमिति चेच्छृणु, एकत्वं सजीवत्वं च तावन्न क्वचिद् द्रष्टं एकत्वं चात्र सजातीयाऽभाव: स च गगनादौ विद्यते, तस्माद्यथा जीवत्वे सति एकत्वं गगने विद्यते, तथात्रापि, तथा च प्रयोग: - ईश्वरोऽनात्मा एकत्वाद् गगनवत्। अथेश्वरस्य स्ववशत्वं निराकरोति । अथेत्यानंतर्यार्थ चेदीश्वरः स्ववशोऽस्ति परनिरपेक्षोऽस्तीत्यर्थः, तदा तत्तत्प्राणिगणोपार्जिततत्कर्मजन्यसुखदुःखप्रदाताऽसौ कथमंगीक्रियते, येन हि प्राक्तनं यादृशमदृष्टमर्जितं ताद्दशाद्रष्टानुसारी परमेश्वरस्तस्य तजनितं सुखं दु:खं वा ददातीति भवन्मतरहस्यवेदिनः। तथा च प्राणिगणोपार्जितकर्मवशत्वेनास्य स्ववशत्वं कुत इति, अथेशस्य स्ववशत्वं यदि स्यात् तदा समग्रं लोकं कथं नासौ सुखिनं करोति, कथमिति चेच्छृणु, लोकं किल सृजन्नसौ कारुणिको अकारुणिको वा, चेदकारुणिकस्तदास्य देवत्वमेव व्याहतं, म्लेच्छवन्निष्ठुरहृदयत्वात्तस्येति, कारुणिकश्चेत्तदा स्ववशत्वे सति कारुणिक: सन् कथं न समग्रं लोकं सुखिनं करोति, कारुणिकत्वविशिष्टस्ववशत्ववतस्तथास्वभावत्वादिति वृत्तार्थः॥ १२॥ ॥ मूलम्॥चेत्सर्वगत्वं हि हरस्य मन्यसे - ऽविज्ञानविज्ञानविभक्त आत्मा॥ मान्यस्तदीयोऽथ समग्रगत्वे, ज्ञानस्य तत्त्वं विजहाति तत्पुनः।१३। . ॥ टीका ॥ -अथ हरस्य विभुत्वं निषिध्यते, चेत् हरस्य शंभोश्चेत्त्वं सर्वगत्वं विभुत्वं मन्यसे तदा तदीय आत्मा ईश्वरात्मा अविज्ञानविज्ञानविभक्तो मान्यः, भावार्थस्त्वयं - यदीश्वरो व्यापकस्तदा तद्गतं ज्ञानं व्यापकमव्यापकं वा, चेद्व्यापकं तर्हि सिद्धांतबाध:, चेदव्यापकं तदैकस्मिन्नीश्वरात्मखंडे ज्ञानं, अपरस्मिन्नात्मखंडेऽज्ञानं, तथा चाऽविज्ञानविज्ञानाभ्यां विभक्त आत्मा तदीय इति। अथेश्वरस्य व्यापकत्वेन तद्गतं ज्ञानमपि व्यापकमेव ब्रूमः, अस्मत्सिद्धांतं वयमेव विज्ञो न भवंत इति चेत्तर्हि स र १०nworor
SR No.022480
Book TitleNaywad Ane Yukti Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani, Hemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy