SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ॥ शास्त्रविशारद - जैनाचार्य श्रीविजयधर्मसूरिगुरुभ्यो नमः ॥ महावीरपूजाऽ परनाम न्यायकुसुमाञ्जलिप्रकरणम् यस्य स्वर्गपदादनल्पविभवाच्युत्वैयुषो भारते श्रीमत्क्षत्रियकुण्डनामनगरे सिद्धार्थराजालये । . देवी श्री त्रिशलोदरे त्रिभुवनानन्द्यासनोत्कम्पतः श्रीजन्मक्षण आकृषद्धरिगणं तं वीरदेवं श्रये ॥ १ ॥ पादाङ्गुष्ठनिपीडनात् सुरगिरेः कम्पेन लोकोत्तरं यस्य स्थान विलोक्य देवपतिनाऽप्युत्पन्नमात्रस्य यः । दत्तां वीर इति प्रकृष्टमुदया साश्वर्यमाख्यां व्यधा दन्वर्थी सकलान्तरारिदलनात् तं वीरदेवं यजे ॥ २ ॥ पित्रोः प्रेम परं विबुध्य निजके गर्भस्थलेऽभ्यग्रहीद् दीक्षां विरहे तदापि सदने ज्येष्ठस्य चात्याग्रहात् । स्थित्वाऽब्दद्वयमोज्य राज्यविभवं भूत्वा महासंयमी यो विश्वस्य मुदं परामजनयत् तं वीरदेवं भजे ॥ ३॥ गोपालाद्युपसर्गदुःखमसकृद् देवात् पुनः सङ्गमाद् घोरा घोरमुपद्रवं विषहिता त्रैलोक्यवीरः क्ष्मी ।
SR No.022479
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNavlaji Vardhaji Shah
Publication Year1914
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy