SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ प्रथमस्तबकेप्रथमेऽष्टौ श्लोका मगलरूपाः, मुक्तिद्वैविध्यकथनम्, जीवन्मुक्तिप्रदर्शनम् , सर्वज्ञसिद्धिः, केवलिनो भवस्थस्य कवलाहारसिद्धिः, स्त्रीमोक्षसिद्धिश्चेति ॥१॥ द्वितीयस्तबकेजगत्कर्तृत्वखण्डनम् , शून्यवादि-बौद्ध-सांख्य-मायावादिनां प्रतिक्षेपः, जीवस्य सिद्धिः, कर्मणः पौगलिकत्वसिद्धिः, जीवस्य व्यापकत्ववादसंहारः, कौटस्थ्यतिरस्कारः, शब्दस्याऽऽकाशगुणत्वनिराकारः, शब्दस्याऽभिव्यङ्ग्यत्वाभिमानधिक्कारः, शब्दस्याऽर्थवाचकत्वसाधनेन सौगतमतपराकारः, स्फोटवादाऽधरीकारः, तमसो द्रव्यत्वरूपेण सत्कारश्चेति ॥२॥ तृतीयस्तबकेसर्वदर्शनाभिमतप्रमाणभेदपरिज्ञप्तिः, जैनदर्शनाभिमतप्रमाणतस्वविवेचनम्, नय-सप्तभङ्गी-स्थाद्वादतत्त्वोपदर्शनम्, षड्द्रव्यीनिर्देशः, दर्शनान्तराणामेकनयप्रभवत्वस्य जैनशासनस्य सर्वनयात्मकत्वस्य चावेदनं चेति ॥ ३॥ चतुर्थस्तबकेहिंसागर्दा, वेदस्य पौरुषेयत्वसिद्धिः, यज्ञादौ विहिता हिंसा हिंसा भवतीतिप्रदर्शनम्, द्रुमार्चन-पितृतर्पण-गोवन्द्यता-अग्निहोमादिविचारः, देव-गुरु-धर्मलक्षणतत्त्वत्रयपरिचायनम् , नाम-स्थापनाद्रव्य-भावैः परमेश्वरस्य पूजाविधिः, मूर्तिपूजासिद्धिश्चेति ॥४॥ ___ पञ्चमस्तबकेमोक्षमार्गप्रकाशः, नवतत्त्वीसलक्षणनिर्देशः, जीवविचारः, जीवस्याऽऽनन्त्यप्रदर्शनम्, मुक्तानां पुनर्भवावतारव्यपाकारः, साधु
SR No.022479
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNavlaji Vardhaji Shah
Publication Year1914
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy