________________
CHAR
मदरशन
ICROMAMMARN पतस-
(४१६
SARAN
सिद्धस्तव
હવે શાસ્ત્રકાર, સિદ્ધાણં. (ઈતિ ૮ - ૯ - ૧૦ - ૧૧ અધિકારો) અને વૈયાવચ્ચગરાણ કહી અન્નત્ય કહી ૧ નવકારનો કાઉસગ્ગ પારીને શાસન દેવદેવીના સ્મરણ સંબંધી ચોથી થોયને કહેવારૂપ ૧૨મો અઘિકાર આ પ્રમાણે ૮-૧૨ સુધી અધિકારોને દર્શાવતા પહેલાં સવિવેચન સિદ્ધાણ. સૂત્રની વ્યાખ્યા ४३ छ ;
पुनरनुष्ठानपरम्पराफलभूतेभ्यस्तथा भावेन तत्क्रियाप्रयोजकेभ्यश्च सिद्धेभ्यो नमस्करणायेदं पठति पठन्ति वा, “सिद्धाणं बुद्धाणं, पारगयाणं परंपरगयाणं । लोयग्गमुवगयाणं, नमो सया सब सिद्धाणं ॥ १ ॥ अस्य व्याख्या-सितं मातमेषामिति सिद्धाः निर्दग्धानेकभवकर्मेन्धना इत्यर्थः, तेभ्यो नम इति योगः, ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यथोक्तम्'कम्मे सिप्पे य विज्जा य, मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय ॥ १ ॥” इत्यादि, अतः कादिसिद्धव्यपोहायाह-"बुद्धेभ्यः" अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, सर्वज्ञसर्वदर्शिस्वभावबोधरूपा इत्यर्थः, एतेभ्यः, एते च संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैश्चिदिष्यन्ते 'न संसारे न निर्वाणे, स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥ १ ॥' इति वचनात्,
एतनिरासायाह- पारगतेभ्यः' पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगताः, तथाभव्यत्वाक्षिप्तसकलप्रयोजनसमाप्त्या निरवशेषकर्त्तव्यशक्तिविप्रमुक्ता इति यदुक्तं भवति, एतेभ्यः एते च यदृच्छावादिभिः कैश्चिदक्रमसिद्धत्वेनाऽपि गीयन्ते, यथोक्तं"नैकादिसङ्ख्याक्रमतो, वित्तप्राप्तिर्नियोगतः । दरिद्रराज्याप्तिसमा तद्वन्मुक्तिः क्वचिन्न किम् ? ॥ १ ॥"
इत्येतद्व्यपोहायाह-'परम्परगतेभ्यः' परम्परया-ज्ञानदर्शनचारित्ररूपया मिथ्यादृष्टिसास्वादनसम्यग्मिथ्यादृष्टिअविरतसम्यग्दृष्टिविरताविरतप्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिबादरसूक्ष्मोपशान्तक्षीणमोहसयोग्ययोगिगुणस्थानभेदभिन्नया गताः परम्परगता एतेभ्यः, एतेऽपि कैश्चिदनियतदेशा अभ्युपगम्यन्ते, 'यत्र क्लेशक्षयस्तत्र, विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह, तदभावान जातुचित् ॥ १ ॥ इति वचनात्,
एतन्निराचिकीर्षयाह-'लोकाग्रमुपगतेभ्यः' लोकाग्रं ईषत्याग्भाराख्यं तदुप-सामीप्येन निरवशेषकर्मविच्युत्या तदपराभिन्न प्रदेशतया गताः-उपगताः, उक्तं च 'जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नोत्रमणाबाहं, चिट्ठति सुही सुहं पत्ता ॥ १ ॥' तेभ्यः, आह-कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकान्तं यावद्गति भवति, भावे वा सर्वदैव कस्मान्न भवतीति अत्रोच्यते, पूविशवशाद्दण्डादिचक्रभ्रमणवत् समयमेवैकमविरूद्धेति न दोष इति, एतेभ्यः,
एवं भूतेभ्यः किमित्याह-'नमः सदा सर्वसिद्धेभ्यः' नम इति क्रियापदं, 'सदा' सर्वकालं, प्रशस्तभावपूरणमेतदयथार्थमपि फलवचित्राभिग्रहभाववदित्याचार्याः,
wooMMONOMMONS
रसूरि म.सा.
જગજરાતી અનુવાદ