SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीऩरणिभ्यां समलङ्कृतो नयोपदेश! | इति स्मृतिरप्युपपद्यते । अथाऽव्याप्यवृत्तिनीलादिकल्पने गौरवम, तथाहि - अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वमस्मिन् पक्षे वाच्यम्, अन्यथा पीतावयवावच्छेदेन नीलोत्पत्तिप्रसङ्गात् न च नीलस्य स्वाश्रयावच्छेदेन नीलजनकत्वस्वाभाव्यादेव न तदापत्तिः, विनैतादृशप्रतिबध्यप्रतिबन्धकभावं तथास्वाभाव्या निर्वाहात् । ननु समवायेन नीलं जायत एव पीतावयवावच्छेदेनेत्यत्र चापादकाभाव इति चेत् ? न - समवायस्येवावच्छेदकताया अपि कारणनियम्यत्वात्, एवं च नीलादौ नीलेतररूपादीनाम्, नीलेतररूपादौ वा नीलादीनां प्रतिबन्धकत्वे विनिगमकाभावः, मम तु नीलेतररूपादौ नीलादीनां न प्रतिबन्धकत्वम्, नील- पीतारब्धे नीरूपत्वप्रसङ्गस्य बाधकत्वादिति चेत् ? मैवम् - ममापि नीलत्वादिकमेव प्रतिबध्यतावच्छेदकम्, न तु नीलेतररूपत्वादि गौरसमावेशप्रतिपादिका तदैवोपपद्येत यद्येकस्मिन्नानाव्याप्यवृत्तिरूपाभ्युपगमः स्यादिति । प्राचीनमतानुयायी शङ्कते - अथेति । अवयविनि अव्याप्यवृत्तिरूपं तदेव स्याद् यद्यवयवे अवच्छेदकतासम्बन्धेन तदुत्पद्येत तद् यदि सर्वावयवेषूत्पद्येत तदा व्याप्यवृत्त्येव स्यान्नाव्याप्यवृतीत्यतः समवायेनावयविन्यव्याप्यवृत्तिनीलमुत्पद्यमानमवच्छेदकतया स्त्रैवायवे उत्पद्यते यत्र समवायेन नीलरूपमस्ति, यत्र तु समवायेन नीलेतररूपादीनि सन्ति तत्रावच्छेदकतया तन्नोत्पद्यत इत्येतदर्थं समवायेन नीलेतररूपादिकमवच्छेदकतया नीलं प्रति प्रतिबन्धकं वाच्यमिति गौरवमित्याह - तथाहीति । 'नीलादिकम्' इत्यत्रादिपदात् पीतादेरुपग्रहः । 'नीलेतर रूपादीनाम्' इत्यत्रादिपदात् पीतेतररूपादेः परिग्रहः । अस्मिन् पक्षे एकस्मिन्नवयविन्यव्याप्यवृत्तिनानारूपाभ्युपगन्तृपक्षे । अन्यथा अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वानभ्युपगमे । नन्ववयवगतं नोलमवयविगतनीलं प्रति कारणम्, तस्य चायमेव स्वभावः यदुत - स्वाश्रयावच्छेदेनैव नीलमुपजनयति इति न पीतावयवावच्छेदेन नीलोत्पत्तिप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति - न चेति । न तदापत्तिः न पीतावयवावच्छेदेन नीलोत्लत्त्यापत्तिः । निषेधे हेतुमाह - विनेति । एतादृशेति- अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वमित्येवस्वरूपेत्यर्थः । तथास्वाभाव्येति - नीलस्य स्वाश्रयावच्छेदेन नीलजननस्वा भाव्येत्यर्थः । उक्तःशङ्कायां नवीनानुयायी समाधानमाशङ्कते - नन्विति समवायेनावयविनि जायमानं नीलं पीतावयवा - वच्छेदेनापि जायत इत्यापादनमापदिकाभावान्न सम्भवतीत्यर्थः । यथा समवायेन नीलं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलं कारणमिति कार्यकारणभावबलादेवावयविनि नीलसमवायस्य सम्भवस्तथैवावयविगतनीलस्यावच्छेदकता नीलावयव एव न पीतावयवादावित्यत्रापि किञ्चित् कारणं वाच्यमेव तादृशकारणबल देवावच्छेदकताया नियमनसम्भवादित्याशयेनोक्तसमाधानाशङ्कां प्रतिक्षिपति नेति । एवं च अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वस्य नव्यमते आवश्यकत्वे च । नीलादाविति यथाऽवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलतररूपादीनां प्रतिबन्धकत्वं तथाऽवच्छेदकता सम्बन्धेन नीलेतररूपादिकं प्रति समवायसम्बन्धेन नीलादीनां प्रतिबन्धकत्वमपि विनिगमकाभावान्नव्यमते प्रसज्येतेत्यर्थः । मम त्विति प्राचीनमते तु यथा समवायेन नीलादिकं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलेतररूपादीनां प्रतिबन्धकत्वमिति नानारूपवदवयवारब्धेऽवयविनि नीलरूपाद्यसम्भवाच्चित्रं रूपं सिद्धयति, तथा समवायेन नीलेतररूपादौ स्वसमवायिसमवेतत्वसम्बन्धेन नीलादीनां प्रतिबन्धकत्वमिति न सम्भवति, तथा सति नीलपीताद्यवयवा धे यथा न नीलपीतादिरूपं तथा चित्ररूपस्यापि नीलेतररूपत्वादिलक्षणप्रतिबध्यतावच्छेदकधर्माक्रान्तत्वेन न स्यात् तत्र सम्भव इति नीरूपमेव तदवयविस्वरूपमिति तत्प्रत्यक्षमपि न भवेदिति विनिगमकस्य भावान्नीलादिकं प्रत्येव नीलेतररूपादीनां प्रतिबन्धकत्वम्, न तु नीलेतररूपादिकं प्रति नीलादीनां प्रतिबन्धकत्वमित्यर्थः । उक्तप्राचीन मतानुयायिशङ्कां नवीनमतानुयायिनः प्रतिक्षिपन्ति - मैवमिति । ममापि नवीनमतानुयायिनोऽपि । नीलत्वादिकमेवेति- अवच्छेदकतासम्ब न्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलेतररूपादीनामेव प्रतिबन्धकत्वम्, न त्ववच्छेदकतासम्बधेन नीलेतररूपादिकं प्रति समवायसम्बन्धेन नीलादीनां प्रतिबन्धकत्वम्, नीलेतररूपत्वस्य प्रतिबध्यतावच्छेदकत्वकल्पनापेक्षया नीलत्वस्य प्रतिबध्यतावच्छेदकत्वे लाघवादिति गौरवरूपबाधकबलान्न नीलेतररूपत्वं प्रतिबध्यतावच्छेदकमिति विनिगमकस्य वक्तुं शक्यत्वादित्यर्थः । ननु अवच्छेदकतासम्बन्धेन नीलं प्रति समवायसम्बन्धेन नीलतररूपत्वेन प्रतिबन्धकत्वे नीलतररूपत्वं प्रतिबन्धकतावच्छेदकम्, अवच्छेदकतासम्बन्धेन नीलेतररूपत्वावच्छिन्नं प्रति समवायसम्बन्धेन नीलत्वेन प्रतिबन्धकत्वे नीलत्वं प्रतिबन्धकतावच्छेदकमिति नीलेतररूपत्वापेक्षया नीलत्वं लघुभूतमिति तदेव प्रतिबन्धकतावच्छेदकं भवितुमर्हतीत्यत्रापि दीयतां ६२
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy