________________
नयामृततरङ्गिणी-तरहिणीतरणिभ्यां
पदेशः ।
एव निक्षेपात् साधूनामनादरणीयत्वमित्यपि युक्तम् , चतुर्धा विभागस्य द्रव्य भावभाषायामेवोपदेशात् , तत्र च परिमणितमिश्रभाषाभेददशकानन्तर्भावादेव नयभाषायां दोषाभावात् , श्रुतभावभाषायाश्च तृतीयभाषायामेवानधिकृतत्वात् , चारित्रभावभाषायामाद्यन्तयोर्भाषयोरधिकृतत्वेऽप्यायुक्ततया चतसृणामपि भाषणे आराधकत्वाविरोधस्य प्रज्ञापनादावुक्तत्वात् । किश्च, प्रतीत्यसत्यालक्षणमत्र स्फुटमेव किं नोनी. यते ?, न च सप्तभङ्गात्मकवाक्यस्यैव प्रतीत्यसत्यात्वम् , अपेक्षात्मकबोधजनकवाक्यत्वस्यैव तल्लक्षणत्वात् , अन्यथैकत्रापेक्षया हूस्व-दीर्घादि लौकिकवचनस्यालक्ष्यत्वापत्तेः । न च सत्या सर्वत्राऽलौकिक्येव लक्ष्या, जनपदसत्यादिभेदानुपसङ्ग्रहापत्तेः । ननु तथाप्युत्सर्गतोऽनादरणीयत्वादेव नय-दुर्नयभाषयोर. विशेषः, तथा चोक्तं वादिना"सीसमइविप्फारणमेत्तत्थोऽयं को समुल्लावो। इहरा कहामुहं चेव गस्थि एवं ससमयंमि" ॥
-[सम्मतितृतीयकाण्डे गाथा-२५ ] इति चेत्, न-शिष्यमतिविष्फारकत्वं हि नयवाक्यस्य प्रमाणात्मकमहावाक्यजन्यशाब्दबोधजनकावान्तरवाक्यार्थज्ञानजनकत्वम् , तदनुकूलाकाङ्क्षोत्थापकत्वं वा, तेन तस्यादरणीयत्वस्यैव सिद्धेः, तदुक्कं वादिनैव___ "पुरिसज्जायं तु पडुच्च जाणओ पण्णविज्ज अन्नयरं। परिकम्मणानिमित्तं वाहेही सो विसेसं पि" |त्ति,
-[सम्मतिप्रथमकाण्डे गाथा-५४ ]
तत्र च द्रव्य-भावभाषायां च । तृतीयभाषायां सत्यामृषाभाषायाम् | आद्यन्तयोः सत्याभाषाऽनुभयस्वभावभाषयोः । आयुक्ततया अत्यन्तोपयोगवत्तया। चतसृणामपि सत्यादिचतुष्प्रकाराणामपि भाषाणाम् । अपि च प्रतीत्यसत्यारूपैव नयभाषा, तस्या भाषणं युक्तमेव साधूनामित्याह- किश्चेति । अत्र नयभाषायाम् , प्रतीत्यसत्या नाम किञ्चिदपेक्षया सत्या, सा नयभाषाऽपि 'अपेक्षावचनं नयः' इति वचनात् प्रतीत्यसत्यात्वं तस्याः सुप्रतिपदम् । सप्तभङ्गीवाक्यस्यैव प्रतीत्यसत्यात्वम् , न नयवाक्यस्येत्याशङ्कय प्रतिक्षिपति-न चेति । निषेधे हेतुमाह- अपेक्षात्मकेति- अपेक्षात्मको यो बोधस्तजनकवाक्यत्वस्यैव प्रतीत्यसत्या लक्षणत्वादित्यर्थः । अन्यथा अपक्षात्मकबोधजनकवाक्यत्वस्य प्रतीत्यसत्यालक्षणत्वमनभ्युपगम्य सप्तमहात्मकवाक्यत्वस्यैव प्रतीत्यसत्यालक्षणत्वस्याभ्युपगमे । एकत्रेति- एकत्रैव निम्बादिवृक्षे आम्रवृक्षापेक्षया इस्वोऽयमिति बिल्ववृक्षापेक्षया दीर्घोऽयमिति लौकिकवचनस्य सप्तभङ्गानात्मकत्वेन प्रतीत्यसत्यालक्षणलक्ष्यत्वं न स्यादित्यर्थः । अलौकिक्येव भाषा सत्यालक्षणलक्ष्या सर्वत्र, न लौकिकीत्याशङ्कय प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-जनपदेति- जनपदसत्यादिभेदा लौकिकवाक्यानामेवेति तत्सङ्ग्रहोऽलौकिक्या एव लक्ष्यत्वे न स्यादित्यर्थः । ननु भवतु प्रतीत्यसत्यात्वं नयवाक्यस्य तथापि दुर्नयवाक्यवन्नयवाक्यस्याप्युत्सर्गतोऽनादरणीयत्वात् तयोर विशेषः, प्रमाणवाक्यस्यैव च सप्तभङ्गात्मकस्योत्सर्गत आदरणीयत्वमित्याशङ्कते-नन्विति । उक्कार्थे सम्मतिसंवादमाह-तथा चोक्तमिति । सीसमह० इति- “शिष्यमतिविस्फारण. मात्रार्थोऽयं कृतः समुल्लापः । इतरथा कथामुखमेव नास्त्येतत् स्वसमये" ॥ इति संस्कृतम् । नयवाक्यस्य शिष्यमतिविस्फारकत्वे तत एवादरणीयत्वमपि तस्य सिद्धयतीति समाधत्ते-नेति । प्रमाणेति-प्रमाणात्मकमहावाक्येन जन्यस्य शाब्दबोधस्य जनकं यदवान्तरवाक्यार्थज्ञानं तजनकत्वम्, वा अथवा तादृशवाक्यार्थानुकूलाकाङ्क्षोत्थापकत्वं यतो नयवाक्यस्य शिष्यमतिविस्फारकत्वं तेन हेतुना नयवाक्यस्यादरणीयत्वस्यैव सिद्धेः, नयवाक्यं विनाऽवान्तरवाक्यार्थज्ञानं न स्यात्, तदन्तरेण च प्रमाणात्मकमहावाक्यशाब्दबोध एव न भवेदिति प्रमाणवाक्यस्यादरणीयत्वे तजन्यज्ञानजनकज्ञानजनकत्वेन नयवाक्यमप्यादरणीयमित्याशयः । उक्तार्थेऽपि सम्मतिसंवादमाह-तदुक्तमिति । वादिनैव श्रीसिद्धसेनदिवाकरेणैव । "पुरिसज्जायं तु०" इति- "पुरुषजातं तु प्रतीत्य ज्ञायकः प्रज्ञापयेदन्यतरत् । परिकर्मणानिमित्तं वदेद्धि स विशेषमपि "॥ इति संस्कृतम् । यथा च नयवाक्यं कञ्चित् प्रतिपाद्यं पुरुषमधिकृत्य प्रवर्तते तथा प्रमाणवाक्यमपि कश्चित् पुरुषविशेषमेवोद्दिश्य प्रवर्तते, ततश्च कारणिकत्वे द्वयोः समाने यथा स्वकाले प्रमाणवाक्यस्यौत्सर्गिकत्वं तथा स्वकाले नय