SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। भावः-अभाव ज्ञानेऽपि न सर्वत्र प्रतियोगिज्ञानापेक्षा, प्रतियोगिज्ञानं विनाऽपीदन्त्व प्रमेयत्वादिनाऽभावभानस्य सार्वजनीनत्वात् , घटाभावत्वादिना घटाभावादिज्ञाने घटज्ञानाद्यपेक्षाध्रौव्यात् तेन रूपेणैव तेषां सप्रतियोगिकत्वं ग्रहीष्यते तर्हि नास्तित्वाभावत्वादिनाऽस्तित्वादीनां तेन रूपेण तथात्वे तुल्यम् , 'अभावाsभावः प्रतियोग्येव' इति परेषामपि मूलसिद्धान्तात् , संयोगादावेव विशेषणतात्वकल्पनया निर्वाहेण 'नास्ति' इति प्रतीतिबलादतिरिक्त एव स इति नव्यमतस्य नियुक्तिकत्वात् । तस्मात् , स्वरूपतो भावाऽभावयोरपि निष्प्रतियोगिकत्वम् , विशिष्टतया तु द्वयोरपि सप्रतियोगिकत्वमिति स्याद्वाद एव श्रेयान् । अथ निष्प्रतियोगिकाभावपक्षे प्रतियोगिज्ञानस्याभावप्रत्ययाहेतुत्वे विना प्रतियोगिज्ञानं 'न' इत्याकारकप्रत्ययापत्तिः । न चाभावस्याऽपीदन्त्वेन ग्रहादापादकाभावः, प्रथममभावा-ऽभावत्वयोनिर्विकल्पके ' अभावः' इत्याकारकप्रत्यक्षापत्तेर्दुरित्वात् । इन्द्रियस्य चक्षुस्त्वगादिभेदभिन्नत्वेन महागौरवम् । न च पृथक् प्रतियोगिधीभावार्थमुपदर्शयति- अयं भाव इति- नियमेनाभावज्ञानमपि न प्रतियोगिज्ञानापेक्षम् , इदन्त्व-प्रमेयत्वादिनाऽभावज्ञानस्य प्रतियोगिज्ञानमन्तरेणैव भावात् , किन्त्वस्तित्वाभावत्वादिरूपेणैव तज्ज्ञानं प्रतियोगिज्ञानसापेक्षमित्येतावता तत्प्रतिपादकवचनस्य यथा सापेक्षवाक्यत्वं तथाऽस्तित्वादिनाऽस्तित्वादिज्ञानस्यास्तित्वाभावादिज्ञानमन्तरेण भावेऽपि नास्तित्वाभावत्वादिना तजज्ञानस्य नियमतो नास्त्विादिज्ञाने सत्येव भावाद् तद्रूपेण तत्प्रतिपादकवचनस्य सापेक्षवाक्यत्वं स्यादेवेत्युपपाद्य दर्शयतिअभावज्ञानेऽपीति । तेन रूपेणैव घटाभावत्वादिरूपेणैव । तेषां घटाभावादीनाम् । तेन रूपेण नास्तित्वाभावत्वादिरूपेण । तथात्वे सप्रतियोगिकत्वे । परेषामपि नैयायिकानामपि । मूलसिद्धान्तात् प्राचीननैयायिकसिद्धान्तात् , अत एव "अभावविरहात्मत्वं वस्तुनः प्रतियोगिता" । [ कुसुमाञ्जलिस्तबक०, श्लो० ] इति नैयायिकप्रकाण्डोदयनाचार्यवचनं सङ्गच्छते । ननु घटादिर्भावः संयोगादिना वर्तते, घटाभावाभावादिश्च विशेणषतया वर्तते, अभावस्य सामान्येन विशेषणतासम्बन्धस्य स्वारसिकत्वात् , तथा च विभिन्नसम्बन्धेन वर्तमानयोर्भावाऽभावयोः कथमेकतेत्यत आहसंयोगादावेवेति- विशेषणतासम्बन्धेन घटाभावाभावादिवर्तत इत्यत्र न नो विद्वेषः किन्तु विशेषणतात्वं संयोगादावेव कल्प्यत इति विशेषणतात्वेन संयोगादेरेव संसर्गत्वम् , तथा च घटादियथा संयोगादिना वर्तते तथा घटाभावाभावादिरपीत्येतावतैव विशेषणतासम्बन्धेन घटाभावाभावादिकं घटादिस्वरूपमुपादाय 'घटाभावो नास्ति' इति प्रतीतेर्निर्वाहेण भावो घटः 'अस्ति' इत्येवं प्रतीयते, घटाभावाभावः 'घटाभावो नास्ति' इत्येवं प्रतीयत इति 'नास्ति' इति प्रतीतिबलाद् घटाभावाभावादिर्घटादिरूपभावाद् भिन्न एवेति नव्यनैयायिकमतस्य नियुक्तिकत्वादित्यर्थः । उपसंहरति-तस्मादिति । विशिष्टतया तु घटात्वाद्यवच्छिन्नप्रतियोगिताकत्वविशिष्टाभावरूपतया घटाभावत्वाद्यवच्छिन्नप्रतियोगिताकत्वविशिष्टाभावरूपतया च । द्वयोरपि भावाभावोभयोरपि । ननु भावाऽभावयोरुभयोरपि सप्रतियोगिकत्वं निष्प्रतियोगिकत्वं चेति स्याद्वादे अभावो निष्प्रतियोगिक इति पक्षे अभावज्ञान प्रतियोगिज्ञानं न हेतुरिति प्रतियोगिज्ञानं विनाऽपि 'न' इत्याकारकमभावज्ञानं स्यादिति शङ्कते- अथेति । ननु प्रतियोगिज्ञानं विनाऽपीदन्त्वेनाभावज्ञानं भवत्येव, तथा च 'इदम्' इत्येवमभावज्ञानस्यापादनमिष्टापत्तिरूपत्वान्न दोषावहम् , 'न' इत्याकारकप्रत्ययापादनं तु यत् क्रियते तदापादकाभावान्न सम्भवतीत्याशङ्कय प्रतिक्षिपतिन चेति । आपादकाभावः 'न' इत्याकारकप्रत्ययापत्तेः कारणाभावः, तथा च प्रतियोगिज्ञानासत्त्वे आपादकाभावादेव 'न' इत्याकारकप्रत्ययापादनं न सम्भवतीति शङ्कार्थः । निषेधहेतुमुपदर्शयति-प्रथममिति- आपादकाभावात् प्रतियोगिज्ञानाऽसद्भावे 'न' इत्याकारकाभावप्रत्ययापत्तिर्मा भवतु, परन्तु प्रथममभावाऽभावत्वयोनिर्विकल्पकज्ञाने सति तद्रूपविशेषणज्ञानात्मकापादकबलाद् ‘अभावः' इत्याकारकप्रत्यक्षापत्तेर्दुरित्वादित्यर्थः । ननु चक्षुरादोन्द्रियमप्यभावप्रत्यक्षं प्रति कारणम् , तच्च प्रतियोगिविशेषिताभावप्रत्यक्षकारणमेव, तत्र च प्रतियोगिज्ञानमपि सहकारीति प्रतियोगिविनाकृतम् 'अभावः' इत्याकारकप्रत्यक्षं नापादयितुं शक्यत इत्यत आह- इन्द्रियस्य चेति- अत्र 'इन्द्रियस्य विशिष्याभावप्रत्यक्षकारणत्वे च चक्षुस्त्वगादिभेदभिन्नत्वेन महागौरवम्' इति पाठो युक्तः । अभावज्ञाने प्रतियोगिज्ञानस्य पृथक्कारणत्वेऽपि प्रतियोगिज्ञानसत्त्वे तद्बलाद् 'न' इत्याकारकमभावप्रत्यक्षं स्यादित्याशङ्कां प्रतिक्षिपति-न चेति । प्रतियोगिज्ञानस्य ज्ञानलक्षण
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy