SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । गौरवात्, अन्यथासिद्धिचतुष्टयराहित्यगर्भत्वेन तत्र लाघत्रमिति दृष्टिदाने च विधिप्रत्य [य] मात्रार्थीsपीष्टानुकूलत्वमात्रमेव स्यादिति यागादेरप्यपूर्वेणान्यथासिद्धिः कर्मणां न तत्रज्ञाने नवा तद्द्वारा मुक्तौ हेतुत्वमित्युक्तम्, तदपि न युक्तम्, प्रतिबन्धकत्वस्य विशिष्य विश्रामेण तदभावत्वेन कार्यमात्रेऽनुगतहेतुताया अयोगात्, प्रतिबन्धक विशेष निवृत्तिहेतुतायाश्च कर्मकारणतामहोत्तरकल्पनीयत्वेन तदन्यथासिध्यनापादकत्वात्, किश्च प्रतिबन्धकनिवृत्त्यान्यथासिद्धत्वेन कर्मणोऽहेतुत्वोक्तौ तत्त्वज्ञानस्य सुतरां तथात्वं स्यात्, नह्युत्पन्नकेवलज्ञाना अपि भवोपग्राहि कर्मचतुष्टयं प्रतिबन्धकनिवर्तयित्वा सद्य एव मुक्तिमासादयन्ति इति मुक्तिप्रबन्धककर्म निवर्तकत्वेन तत्त्वज्ञानस्य कुतो नान्यथासिद्धिः । अथ कर्मणो कर्मणो वा प्रशंसापरं न त्वेकमेव कारणमन्यन्न कारणमित्येतत् परमित्याह एकपुरस्कारेणेति । इति एवं व्यवस्थितौ । नेत्यस्य अर्थ इत्यनेनान्वयः । कर्मकारणताबोधकवचने कर्मणो मुक्ति प्रति कारणत्वबोधकं यद् वचनं तस्मिन् । अनुकूलत्वमात्रं निःश्रेयस प्रागभावव्याप्य प्रागभावप्रतियोगित्वरूग्मोक्षानुकूलत्वमात्रम् अत्र मात्रपदे नान्यथासिद्धिशून्यत्वे सति मोक्षप्रागभावव्याप्य प्रागभावप्रतियोगित्वरूपमोक्ष कारणत्वस्य व्यवच्छेदः । निषेत्रे हेतुमाह- कारण ताशक्तपदस्येति । ननु यत् कार्यं प्रति यस्य येन धर्मेण कारणत्वं स धर्मः प्रथमोऽन्यथासिद्ध:, यस्य यत् कार्यं प्रति स्वातन्त्र्येणान्वयव्यतिरेकौ न गृह्येते किन्तु तत्कार्यकारणमादायैवान्वयव्यतिरेकौ गृह्येते स तत् कार्यं प्रति द्वितीयोऽन्यथासिद्ध: यस्य यत्कार्यकारणभिन्नं प्रति पूर्ववर्तित्वं गृहीत्वैव यत् कार्यं प्रति पूर्ववर्तित्वं गृह्यते स तत् कार्यं प्रति तृतीयोऽन्यथासिद्धः यस्य यत्कार्यकारणं प्रति पूर्ववर्तित्वं गृहीत्वैव यत् कार्य प्रति पूर्ववर्तित्वं गृह्यते स तत् कार्यं प्रति चतुर्थोऽन्यथासिद्धः, अवश्यक्लृप्तनियतपूर्ववर्तिभिन्नञ्च पञ्चमोऽन्यथासिद्ध इत्येवंलक्षणलक्षिताऽन्यथासिद्धपञ्चकभिन्नत्वे सति नियतपूर्ववर्तित्वरूपकारणत्वापेक्षया पञ्चमान्यथासिद्धभिन्नत्वत्वा घटित मन्यथासिद्ध चतुष्टय भिन्नत्वे सति नियतपूर्ववर्तित्वरूपानुकूलत्वं लघुभूतमिति तत्परत्वमेव कर्मकारणतावोधकवचने युकमित्यत आह- अन्यथासिद्धिचतुष्टय राहित्यगर्भत्वेनेति । तत्र अनुकूलत्वे । लाघवं कारणत्वापेक्षया लाघवम् । इति दृष्टिदाने च एवं पर्यालोचने च । स्वर्गकामो दर्श- पूर्णमासाभ्यां यजेतेत्यादिवचनेऽपि विध्यर्थत्वमिष्टसाधनत्वापेक्षया लघुभूते इष्टानुकूलत्वे एव भवेदिति यागादेरप्यपूर्वेणान्यथासिद्धिः स्यादतो लघुभूतमप्यनुकूलत्वं परित्यज्य कारणत्वमेवार्थ इति कर्मणो निःश्रेयसकारणत्वं तत्प्रतिपादकागमवचनात् सिद्धयतीत्याह - विधिप्रत्ययेति - यथा च कार्यमात्रं प्रति प्रतिबन्धकाभावत्वेन प्रतिबन्धका भावस्य कारणत्वमिति प्रतिबन्धकाभावविषया क्लृप्तकारणताकेन निःश्रेयसप्रतिबन्धक दुरितध्वंसेन कर्मणोऽसिद्धिस्तथा कार्यमात्रं प्रत्यदृष्टत्वेनादृष्टस्य कारणत्वमिति क्लृप्तकारणतांकेनापूर्वेण यागादिकारणतानुपजीवनेनैव कलितेन यागादेरन्यथासिद्धिरित्यस्य वक्तुं शक्यत्वादित्यर्थः । अन्यदपि तत्त्वज्ञानं प्रति तद्द्वारा मुक्ति प्रति च कर्मणां कारणत्वाभावावेदकं वचनं पूर्वमुक्तं तदपि न युक्तमित्याह- यदपीति कर्मणां न तत्त्वज्ञाने हेतुत्वं तद्द्वारा मुक्तौ न हेतुत्वमित्यर्थः । तद्द्द्वारा तत्त्वज्ञानद्वारा । युक्तत्वाभावे हेतुमाह- प्रतिबन्धकत्वस्येति- एतत्कार्यं प्रतीदं प्रतिबन्धकमेतच्चाभुक्तं प्रति प्रतिबन्धकमित्थं विशेषरूपणं प्रतिबध्य- प्रतिबन्धकभावस्य विश्रामेण कार्यत्वावच्छिन्नं प्रति सामान्यतः प्रतिबन्धकाभावत्वेन कारणत्वस्याभावादित्यर्थः । प्रतिबन्धकविशेषनिवृत्यैव तन्निवृत्तित्वलक्षणविशेषधर्मेण मुक्ति प्रति कारणतया क्लृप्तया कर्मणामन्यथासिद्धिरस्त्वित्यत आह- प्रतिबन्धकविशेषेति कर्मणां मुक्तिं प्रति कारणत्वस्य ग्रहे कर्म. कारणत्वप्रतिपादकवचनेन जाते सति चिरध्वस्तानां कर्मणां स्वतो मुक्त्यव्यवहितपूर्ववर्तित्वस्याभावे स्वव्यापारवत्त्वसम्बन्धेन मुक्त्यव्यवहितपूर्ववर्तित्वादेव कारणत्वं भवेन्नान्यथेत्येवं मुक्तिं प्रति कारणत्वान्यथानुपपत्त्यां कर्मकारणत्वप्रहोत्तरकालं प्रतिबन्धकविशेषनिवृत्तेर्मुक्ति प्रति कारणत्वस्य कल्पनीयत्वेन तस्य कर्मान्यथासिद्धचनापादकत्वादित्यर्थः । अपि च प्रतिबन्धक निवृत्त्याऽन्यथासिद्धत्वेन कर्मणां मुक्तिं प्रति कारणत्वाभावे तत्त्वज्ञानस्यापि प्रतिबन्धकनिवृत्त्याऽन्यथासिद्धत्वेन मुक्ति प्रति कारणत्वं न स्यादित्याह- किञ्चेति । तथात्वं स्यात् मुक्ति प्रत्यकारणत्वं भवेत् । तत्त्वज्ञानस्यापि प्रबन्धकनिवृत्तिद्वारेव मुक्ति प्रति कारणत्वं नान्यथेत्यतः प्रतिबन्धकनिवृत्त्या तस्याप्यन्यथासिद्धत्वं वक्तुं शक्यमेवेत्याह- नहीति - अस्य — आसादयन्ति ' इत्यनेनान्वयः । ननु तत्त्वज्ञानस्य कर्मनिवृत्तिद्वारा मोक्षं प्रति कारणत्वेऽभ्युपगम्यमाने सत्येव कर्मनिवृत्त्या ४१०
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy