SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्या समतो गयोपदेशः । तेनानुपायवादः षष्ठं मिथ्यात्वस्थानम्, मोक्षोपायवादश्च सम्यक्त्वस्थानमिति सुव्यवस्थितम् । नन्वेते षडपि पक्षप्रतिपक्षाः स्याद्वादलान्छिताः सुनया एव, तन्निरपेक्षाश्च दुर्नया एवेत्येकेषु मिथ्यात्वस्थानम् , अपरेषु च सम्यक्त्वस्थानकमिति को विशेष इत्यत आह- मार्गेत्यादि, नास्तित्ववादे गुरुशिष्य. क्रियाऽक्रियाफलादिव्यवहारविलोपान्मार्गत्यागः, अस्तित्ववादे चोक्तव्यवहारप्रामाण्याश्वासेन तत्प्रवेश इत्येताभ्यां हेतुभ्यां फलतस्तत्त्वं सम्यक्त्वमिथ्यासाधनकत्वमिष्यते ॥ २४ ॥ अ[न]भिनिविष्टं प्रत्येतदुक्तम् , एकान्ताभिनिवेशे तु जात्या सर्वेषां तुल्यत्वमेवेत्याह स्वरूपतस्तु सर्वेऽपि, स्युर्मिथोऽनिश्रिता नयाः । मिथ्यात्वमिति को भेदो, नास्तित्वास्तित्वनिर्मितः ॥ १२५ ॥ नयामृत-स्वरूपस्त्विति०- स्पष्टः, मिथोऽनिश्रिता इति- स्याद्वादमुद्रया परस्पराकाङ्क्षारहिता इत्यर्थः ॥ १२५ ॥ ननु नास्तिकास्तिकव्यवहारप्रयोजकतयैवैतेषां भेदो भविष्यतीत्यत आह- . धयंशे नास्तिको ह्येको, बार्हस्पत्यः प्रकीर्तितः। धमाशे नास्तिका ज्ञेयाः, सर्वेऽपि परतीर्थिकाः ॥ १२६ ॥ चर्येण तपसा श्रद्धया वा केवलं परवञ्चनकुतूहली यावजीवमात्मानमवसादयति, कथं वैनं प्रेक्षापूर्वकारिणोऽप्यनुविदध्युः, केन . वा चिह्वेनायमीदृशस्त्वया लोकोत्तरप्रज्ञेन प्रतारक इति निर्णीतः ? न तावतो दुःखराशेः प्रतारणसुखं गरीयः, यतः पाखण्डाभिमतेष्वप्येवं दृश्यत इति चेत् ? न-हेतुदर्शनादर्शनाभ्यां विशेषात् , अनादौ चैवम्भूतेऽनुष्ठाने प्रतार्यमाणे प्रकारान्तरमाश्रित्यापि बहुवित्तव्ययायासोपदेशमात्रेण प्रतारणा स्यात्, न त्वनुष्ठानागोचरेण कर्मणा, प्रमाणविरोधमन्तरेण पाखण्डित्वप्रसिद्धिरपि न स्यात् " इति उपसंहरति - तेनेति- मोक्षोपायव्यवस्थापनेनेत्यर्थः । मार्गत्याग-प्रवेशाभ्यामित्याधुत्तरार्द्ध व्याख्यातुमवतारयति- नन्विति । एते त्रयोविंशत्युत्तरशततमपद्योक्ता आत्मा नास्तीत्यादिपक्षाः, चतुर्विंशत्युत्तरशततमपद्यपूर्वार्धोपदिष्टाऽस्त्यात्मेत्यादयः पूर्वपक्षविरुद्धपक्षाः । षडपि प्रत्येकं षडपि, तेन समुदितास्ते द्वादश पक्षा इति बोध्यम् । स्याद्वादलाञ्छिताः स्यान्नास्त्यात्मा, स्यान्न नित्य आत्मा, स्यान्न कर्ताऽऽत्मा, स्यान्न भोक्ताऽऽत्मा, स्यान्न मोक्षः स्यान्न मोक्षोपाय इत्येवं षट् पक्षाः स्याद्वादलाञ्छितस्वरूपाः, स्यादस्त्यात्मा, स्यानित्य आत्मा, स्यादात्मा कर्ता, स्याद् भोक्ताऽऽत्मा, स्यादस्ति मुक्तिः, स्यादस्ति मुक्त्युपाय इत्येवं षट् पक्षाः स्याद्वादलाञ्छितस्वरूपाश्च । तन्निरपेक्षाश्च स्यावादनिरपेक्षाः पुनः । एकेषु नास्त्यात्मेत्यादिषट्सु पक्षेषु । अपरेषु च अस्त्यात्मेत्यादिषट्सु तत्प्रतिपक्षपक्षेषु पुनः। को विशेषः न कोऽपि विशेषो दृश्यत इत्याक्षेपः । गुरुशिष्येति- यदि नास्त्यात्मा तर्हि को गुरुः ? कश्च शिष्यः ? इति गुरुशिष्यात्मनोरभावादात्मनिष्ठयोरध्यापकत्वादिरुपगुरुत्वा-ऽध्ये नृत्वादिलक्षणशिष्यत्वयोरप्यभाव इत्ययं गुरुरयं च शिष्य इत्येवं गुरु-शिष्यादिव्यवहारस्य विलोपः, आत्मनश्चाभावे के प्रति विहिता क्रिया निषिद्धा च क्रिया भवेदित्यस्येयं विहिता क्रियेति इयं चास्य निषिद्धा क्रियेति क्रियाऽक्रियादिव्यवहारस्य विलोपः, विहित-निषिद्धक्रिययोरभावे अनया क्रियया तत्कर्तुरात्मनः स्वर्गादिकमिष्टफलमुपजायते, अनया क्रियया पुनरनिष्टं नरकाद्यनिष्टफलं भवतीत्येवं फलव्यवहारस्य विलोपः, आदिपदादयमात्मा बद्धोऽयमात्मा मुक्त इत्यादिव्यवहारस्योपग्रहः, इत्येवं निरुकव्यवहारविलोपान्मार्गत्याग इत्यर्थः । तत्प्रवेशः मार्गप्रवेशः । एताभ्यां मार्गत्याग-मार्गप्रवेशाभ्याम् ।। १२४ ॥ पञ्चविंशत्युत्तरशततमपद्यमवतारयति- अनभिनिविष्टमिति- अनाग्रहशालिनं प्रतीत्यर्थः। एतत् मिथ्यात्वस्थानसम्यक्त्वस्थानविभजनम् । विवृणोति- स्वरूपतस्त्वितीति । स्पष्टत्वात् प्रत्येकपदव्याख्यानं नात्र कर्तव्यतामञ्चतीत्याह- स्पष्ट इति । मिथोऽनिश्रिता इत्यस्य विवरणं- स्थाद्वादमुद्रया परस्पराऽऽकावारहिता इति ॥ १२५ ॥
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy