SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । गगनादिव्यावृत्तमस्त्विति चेत् ? न- कादाचित्कत्वस्यावधिनियतत्वात् । सन्यवधयो न त्वपेक्ष्यन्त इति चेत् ? न- नियतपश्चाद्धावित्वस्यैवापेक्षार्थत्वात् , अन्यथा गर्दभाद् धूम इत्यपि प्रतीयेत । तन्निय. तत्वेऽपि तद्गतोपकाराजनकस्य कथं तद्धेतुजनकत्वमिति चेत् ? उपकारो हि कार्यमिति तद्गतकार्यहेतुत्वस्य तद्धेतुत्वेऽतन्त्रत्वात् , अन्यथोपकारहेतुत्वाय उपकारेऽप्युपकारान्तरस्वीकारे अनवस्थापत्तेः, तर्हि घटादिनियतत्वं कपालादेरेव न तन्त्वादाविति कुत इति चेत् ? स्वभावादेवेति गृहाण, अथ तथापि ग्राहकाभावात् तदसिद्धिः, न च धूमादौ वतयादेरन्वय-व्यतिरेकानुविधायित्वज्ञानसचिवं वहयादिप्रत्यक्षमेव हेतुहेतुमद्भावनाहकम्, धूममात्रेऽन्वय-व्यतिरेकज्ञानासम्भवात् , यत्किश्चिद्धमे रास तच्चावधिनियतत्वात् सहेतुकत्वव्याप्तमेवेति हेतुं विना न तस्य गगनादिव्यावृत्तत्वमिति समाधत्ते- नेति । समाधानामिसन्धिमजानानः परः शङ्कते- सन्त्ववधय इति । न त्वपेक्ष्यन्त इति - कार्येणावधयो नापेक्ष्यन्ते. कार्यस्य नावध्यपेक्ष्यत्वमित्यर्थः। तदपेक्षत्वं तदनन्तरभावित्वमेव, तच्च कार्यस्यावध्यवहितोत्तरक्षणभाविनोऽप्यस्तीति कथं नावध्यपेक्ष्यत्वं कार्यस्येति समाधत्ते- नेति। नियतपश्चाद्धावित्वस्यैव नियमत उतरकालोत्पत्तिकत्वस्यैव । अन्यथा नियतपश्चाद्भावित्वस्यापेक्षार्थत्वाभावे । गर्दभादिति- सामान्यतो वह्वेः पश्चाद्भावित्वस्येव गर्दभात् पश्चाद्भावित्वस्यापि धूमे सत्त्वमिति धूमः स्वोत्पत्ती वहिमिव गर्दभमप्यवधीकुर्यात् , तथा च वहेधूम इत्येवं यथा प्रतीयते तथा गर्दभाद् धूम इत्यपि प्रतीयतेत्यर्थः । ननु वढेधूमनियतत्वेऽपि धूमगतोपकाराजनकत्वान्न तजनकत्वमित्याशङ्कते- तन्नियतत्वेऽपीति- अवधीनां कार्यनियतत्वेऽपीत्यर्थः। “तद्धेतुजनकत्व" इत्यस्य स्थाने " तज्जनकत्व" इति पाठो युक्तः । समाधत्ते- उपकार इति । हि यतः । कार्यगतोपकारः कार्यगतकार्यमेव, एवं च कार्यगतकार्यजनकस्य कार्यजनकत्वमिति स्यात् , तच्च न युक्त कार्यगतकार्यजनकत्वस्य कार्यजनकत्वेऽप्रयोजकत्वादित्यर्थः। अन्यथा तद्गतोपकारलक्षणकार्यजनकत्वस्य तज्जनकत्वाप्रयोजकत्वाभ्युपगमे। उपकारहेतुत्वाय कार्यगतोपकारहेतुत्वार्थम् । उपकारेऽपि उपकारात्मककार्येऽपि, उपकारात्मककार्यजनकत्वं तदैव भवेद् यद्युपकारात्मककार्यगतोपकारजनकत्वं स्याद्, एवमुपकारात्मक कार्यगतोपकारात्मककार्यजनकत्वमप्युपकारात्मककार्यगतोपकारात्मककार्यगतोपकारजनकत्वं स्यादित्येवमनवस्थाप्रसङ्गादित्यर्थः । ननु कार्यगतोपकाराजनकस्यापि कार्यनियतत्वाभ्युपगमे घटादिगतोपकाराजनकस्य कपालादेर्घटादिनियतत्वं भवति न तन्वादेरित्यत्र किं नियामकम् ? नियामकाभावे तु तन्वादेरपि घटादिनियतत्वं प्रसज्यतेत्याशयेन पृच्छति-तीति । कपालादेरेवायं स्वभावो यदुत-स घटादिनियतो भवति न तन्वादेरित्युत्तरयति-स्वभावादेवेति । इति गृहाण इति जानीहि । नन्वेवं कपालत्वेन कपालस्य घटं प्रति कारणत्वं घटत्वेन घटस्य कपालकार्यत्वमित्युपगतं भवेत् , एवं धूमत्वेन वह्नित्वेन धूमवह्नयोः कार्यकारणभाव इति, तच्च न सम्भवतिकार्यकारणभावग्राहकप्रमाणाभावेन कार्यकारणभावस्यैवासिद्धरित्याशङ्कते- अथेति । तथापि स्वभावान्नियतत्वसम्भवेऽपि । ग्राहकाभावात् कार्यकारणभावप्राहकप्रमाणाभावात् , तदसिद्धिः कार्यकारणभावासिद्धिः । वह्निसत्त्वे धूमसत्त्वं वड्यभावे धूमाभाव इत्येवं वह्निधूमयोर्यावन्वय-व्यतिरेको तत्सहकृतं वयादिप्रत्यक्षमेव वह्नि-धूमयोः कार्यकारणभावप्राहकं प्रमाणमित्याशङ्कय प्रतिक्षिपति-न चेति । धूमादाविति-धूमादौ यद् वह्नयाद्यन्वयानुविधाय्यन्वयित्वं यच्च वयादिव्यतिरेकानुविधायिव्यतिरेकित्वं तदुभयज्ञानसहकृतमेव वह्वयादिप्रत्यक्षमेव कार्यकारणभावग्राहकमित्यर्थः । निषेधे हेतुमाह- धूममात्र इति- देशान्तरधूमे वह्वयन्वयाविधाय्यन्वयित्वस्य वह्निव्यतिरेकानुविधायिव्यतिरेकित्वस्य च ज्ञानासम्भवेन धूममात्रे सर्वस्मिन् धूमेऽर्थाद् धूमत्वावच्छिन्ने वह्वयन्वय-व्यतिरेकानुविधाय्यन्वय-व्यतिरेकज्ञानासम्भवान्न तत्सचिवं वह्नयादिप्रत्यक्ष कार्यकारणभावग्राहकमित्यर्थः । यदि च यत्किञ्चिद्भूमे वयन्वय-व्यतिरेकित्वज्ञानसहकृतं वह्नयादिप्रत्यक्षं वह्निधूमयोः कार्यकारणभावस्य प्राहकमुपेयते तदा यत्किञ्चिद्भूमे रासभाद्यन्वय-व्यतिरेकानुविधाय्यन्वय व्यतिरेकित्वज्ञानमप्यस्तीति तत्सचिवं रासभादिप्रत्यक्षमपि धूमरासमाद्योः कार्यकारणभावग्राहकं भवेदिति धूमं प्रति रासभादेरपि कारणत्वं प्रसज्येतेति प्रतिक्षेपहेतुमुपदर्शयति-यत्किश्चिद्धम इति । तथाज्ञानात् अन्वय व्यतिरेकानुविधाय्यन्वय-व्यतिरेकज्ञानात् । ननु क्वचिद् रासभादिकमन्तरेणापि धूमोत्पत्तिदृश्यत इति व्यतिरेकव्यभिचारज्ञानान्न धूम-रासभाद्योः कार्यकारणभावग्रह इत्याशङ्कते- रास
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy