SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । चार्वाका दिपक्षनिरासश्चातिभूयानिति लतादित एव तदनुगमो विधेयः । " अकस्माद् भवति इत्यनुपायवादिमते चात्यन्तोपयुक्तत्वात् किञ्चिद् विचार्यते, अकस्मादिति किंशब्दस्य हेतुपरतया हेत्वभावे भवनपरम् ? उत " अ-मा-नो-ना प्रतिषेघे " इति स्मरणान्निषेधार्थकस्य 'अ' शब्दस्य क्रियासम्बन्धसम्भवाद् भवनाभावपरम् ? किंवा किंशब्दस्य स्वभिन्नपरतयाऽलीकभिन्नपरतया वा स्वहेतुकत्वपरम्, अली कहेतुकत्वपरं वा ? अथवा अकस्मादिति स्वभावादित्यर्थे रूढतया स्वभावादेव कादाचित्कमित्यर्थ के ? एतेषु पचषु नैकोऽपि प्रकारो युक्तः, नियतावधिकार्यदर्शनात् अनियतावधित्वे निरवधित्वे वा कादाचित्कत्वस्वभावव्याकोपापातात्, तत्स्वाभाव्ये च सहेतुकत्वस्यावश्यत्वात्, तदुक्तमुदयनेन - "" हेतु-भूति निषेधो न स्वा ऽनुपाख्याविधिर्न च । स्वभाववर्णना नैवमुपाधेर्नियतत्वतः ॥ इति [ न्यायकुसुमाञ्जलिकारिका - ५ ] ३६४ 66 " अस्ति जीवस्तथा नित्यः कर्ता भोक्ता स पुण्य-पापयोः । अस्ति ध्रुवं निर्वाणं तस्योपायश्च षट् स्थानानि ॥ १ ॥” इति संस्कृतम् । चावकादिमतात्मकानि षड् मिथ्यात्वस्थानकान्यस्मन्निर्मितलतादिप्रन्थ एव खण्डितानीति तत एव तेषां खण्डनयुक्तयोऽवसेयाः, प्रन्थगौरवभयान्नात्र तेषां खण्डनं क्रियत इत्युपदिशति- चार्वाका दिपक्षनिरासश्चेति । तदनुगमः चार्वाकादिपक्षनिरासानुगमः । नियतिवादिमत खण्डनस्यात्रापि कर्तव्यत्वावश्यकत्वमावेदयति- अकस्मादिति । अकस्मादिति किंशब्दस्य अकस्मादित्येतद्घटककिंशब्दस्य । हेतुपरतया हेत्वात्मकार्थप्रतिपादकत्वेन, भवतीति च भवनार्थकम्, तथ अकस्माद् भवतीति वाक्यं हेत्वभावे भवनपरं हेत्वभावे सति भवतीत्यर्थकम् । अकस्मादित्यस्य न कस्मादकस्मादित्येवं न समासत्वम्, किन्तु निषेधार्थकोऽशब्दः समासानन्तर्गत एव, तस्य भवतीति क्रियाशब्देनैव साकाङ्क्षत्वमित्यकस्माद् भवति कस्मादपि न भवतीत्यर्थकमिति सर्वथा भवनप्रतिषेध इति द्वितीयविकल्पमुपदर्शयति- उतेति - अथवेत्यर्थः । अकस्मादित्यत्र किंशब्दः स्वभिन्नपरस्तेन सह नमः समासे अकस्मादित्यनेन स्वभिन्नभिन्नादिति लभ्यते, स्वभिन्नभिन्नं च स्वमेव भवतीति स्वहेतुकभवनपरमकस्माद् भवतीति । यदि च किंशब्दोऽलीकभिन्नपरस्तदाऽली कभिन्नभिन्नादित्य कस्मादित्यस्यार्थः, अलीकभिन्नभिन्नं चालीकमेवेत्यलीकाद् भवतीत्येवं पर्यवसितादकस्माद् भवतीत्यलीक हे तुकभवनमकस्माद् भवतीति तदाहकिं वेति । यदा च लम्बकर्णादिशब्दवदव्युत्पन्न एवायम कस्मादिति शब्दः स्वभावादित्यर्थे वर्तते तदा स्वभावात् कादाचित्कं भवनमित्यर्थकमकस्माद् भवतीत्याह- अथवेति । " मित्यर्थ के ” इत्यस्य स्थाने " मित्यर्थकम् " इति पाठो युक्तः । एतेषु अनन्तरमुपदर्शितेषु । कथं न युक्त इत्यपेक्षायामाह - नियतावधिकार्यदर्शनादिति - नियतोऽवधिर्यस्य स नियतावधिरेवम्भूतस्य कार्यस्य दर्शनादित्यर्थः, वह्नेरव्यवहितपूर्ववर्तिनः सत्त्व एव धूमोत्पादेन धूमस्य वह्निर्नियतोऽवधिदृश्यत एव य एव च नियतः पूर्वावधिः स एव कारणमिति न स्वं स्वस्य नियतं पूर्ववर्ति, नवा स्वभावादिकं तथा । सहेतुककार्यभवने व्यवस्थित तस्य निर्हेतुकत्वं सर्वथा निषेधश्च न सङ्गतिमञ्चतीत्यकस्माद् भवतीत्यस्य पश्चापि प्रकारा अयुक्ता एवत्याशयः । नन्वनियतावधित्वं निरवधित्वमेव वा कार्यस्यास्तु तथा च नियतावधिकत्वासिद्धया न कार्यस्य सहेतुकत्वसिद्धिरित्यत आह- अनियतावधित्व इति- अनियतावधित्वे धूमो यथा वह्निमवधिं कृत्वोत्पद्यते तथा हिभिन्नमपि कमप्यवधिं कृत्वोत्पद्येतेति न वह्निसद्भावानन्तरमेव धूमस्योत्पत्तिः, किन्तु वह्निसद्भावतः प्राक् तत्वहितोतरकालेऽपि च यं कमप्यवधिं कृत्वा धूमो भवन्न कादाचित्कः स्यादिति तस्य कादाचित्कत्वस्वभावो व्याहन्येत एवं निरवधित्वेऽपि ये ये निरवधय आकाशादयो न ते कादाचित्कत्वत्वभावा इति निरवधिर्धूमोऽपि कादाचित्कत्वस्वभावो न भवेदित्येवं कादाचित्कत्वस्वभावव्याकोपान्नियतावधित्वे ततः सहेतुकत्वं स्वीकर्तव्यमेवेत्यर्थः । एतदेवाह - तत्स्वाभाव्ये चेति - कार्यस्य नियतावधिकत्वस्वाभाव्ये चेत्यर्थः । उक्तार्थे उदयनाचार्यवचनसंवादमाह - तदुक्तमुदयनेनेति । हेस्वितिअकस्माद् भवतीत्यनेनाहेतुतो भवतीत्यर्थाश्रयणाद्धेतुनिषेधो न, अकस्मादित्यत्राकारस्य भवतीतिक्रिया सम्बन्धाश्रयणाद् भवनप्रतिषेघो न, हेतुतो यद् भवनं तत्प्रतिषेधो न, अकस्मादित्यस्यो कदिशा स्वस्मादित्यर्थ करणात् स्वविधिः- स्वस्मादेव स्वमुत्पद्यत
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy