SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३४१ निषेधाधिकारशून्यः संस्कारमात्रात् सदाचारः प्रारब्धक्षयं प्रतीक्षमाणो जीवन् मुक्त इत्युच्यते, अस्य प्रारब्धक्षये सशक्तिकनिरवशेषाज्ञाननिवृत्तौ परममुक्तिः । ननु केयमज्ञाननिवृत्तिः ? न सती, नाप्यसती, नापि सदसती, ज्ञानजन्यत्वाद्वैतप्रसङ्गोद्देश्यत्वविरोधेभ्यश्च, अस्तु त_निर्वचनीया जन्यत्वात् , तदुक्तम्" जन्यत्वमेव जन्यस्य मायिकत्वसमर्थकम् " [ ] इति, मैवम्- अनिर्वचनीयस्य ज्ञाननिवय॑त्वनियमेन निवृत्तिपरम्पराप्रसङ्गात् , सदद्वैतव्याकोपमङ्गीकृत्य तस्या असत्त्वाद् विधानेऽपि विना प्रमाणमद्वैतसङ्कोच एव दूषणम् , पञ्चमप्रकाराश्रयणं त्वत्यन्ताप्रसिद्धम् । अस्तु तर्हि चैतन्यात्मि चेति-प्रारब्धकर्मतत्कार्यव्यतिरिकाखिलाज्ञानप्रभवप्रपञ्चनिवृत्त्यवस्थायां पुरुषधुरन्धरः प्रारब्धकर्मफलं भुजानः सन् , सकलसंसारमज्ञानकार्य बाधितमपि किञ्चित्कालमनुवर्तत इति बाधितानुवृत्त्या पश्यन् सन् , स्वात्मन्येव रमत इति स्वात्मारामः विधि-निषेधाधिकारशून्यः- विहितकर्मकरणे तत्फलकामलक्षणरागः पुरुषस्य विशेषणत्वादधिकारः, निषिद्धकर्मानाचरणे निषिद्धकर्मफलद्वेषोऽधिकारिविशेषणत्वादधिकारः, अथवा निषिद्धकर्माचरणे निषिद्धकर्मफलकामोऽधिकारिविशेषणत्वादधिकारस्तदुभयशून्यः, यथा चक्रभ्रमणकारणापगमेऽपि कश्चित् कालं पूर्वोत्पन्नवेगाख्यसंस्कारविशेषवशाचक्रं भ्रमति एवं संस्कारमात्रात् सम्यकर्मा नुष्ठानपरो भवतीति सदाचारः, प्रारब्धक्षयं- प्रारब्धकर्मविनाशम् , प्रतोक्षत इति प्रतीक्षमाणः, जीवन्मुक्त इत्येवमुच्यतेकथ्यत इत्यर्थः। जीवन्मुक्त्यनन्तरं परममुक्तिरस्य भवतीत्युपदर्शयति- अस्येति- अस्य परममुक्तिरित्यनेनान्वयः। सशक्तिकेति- आवरणशक्ति-विक्षपेशक्तिसमन्वितेत्यर्थः। निरवशेषेति- अशेष कार्यकारणात्मकेत्यर्थः । परममतिरित्यनन्तरं भवतीति शेषः । नन्वज्ञाननिवृत्तौ सत्यां परममुक्तिरुपपादिता, परमज्ञाननिवृत्तिरेव विकल्पजर्जरितेति शङ्कतेनन्विति । "शानजन्यत्वा" इत्यस्य स्थाने “ज्ञानजन्यत्व" इति पाठो युक्तः, अज्ञाननिवृत्तेः सत्यत्वाभ्युपगमे तस्याः सर्वदा सत्त्वं सर्वदा मुक्त्यापत्तिभयान्नास्त्येवाभ्युपगम्यमिति कादाचित्क्यास्तस्या ज्ञानजन्यत्वमुपेयं स्यात् , तथा च द्वैतप्रसाः तस्या असत्यत्वाभ्युपगमे न सा कदाचिद् भवतीयज्ञानमेव सर्वदाऽवतिष्ठित इत्यज्ञाननिवृत्तौ मुक्तिर्भवतीति यदुद्देश्यं तद्भावलक्षणोद्देश्यत्वस्य विरोधः, अज्ञाननिवृत्तः सदसदुभयरूपत्वे विरोधः स्पष्ट एव, सत्यत्वाऽसत्यत्वयोः परस्परनिषेधरूपयोरेकत्रासम्भवात् , वस्तुतः "उद्देश्यत्व" इत्यस्य स्थाने "उद्देश्यासिद्धि" इति पाठः सम्यकु, तथा च विरोधस्य द्विधाऽऽश्रयणं कर्तव्यं न भवतीति बोध्यम् । ननु सत्यत्वाऽसत्यत्वाभ्यां वक्तुमशक्यत्वादज्ञाननिवृत्तिरनिर्वर्तनीयैवास्त्विति शङ्कासमाधानमाशङ्कते- अस्त्विति- उक्ताशङ्कास्वारस्याज्ज्ञानजन्यत्वस्य तत्रेष्टत्वेन तत्र ज्ञानजन्यत्वप्रसङ्गस्येष्टापादनरूपतयाऽदूषणत्वमिति पूर्व ज्ञानजन्यत्वेति स्थाने ज्ञानाजन्यत्वेति पाठ एव भवितुमर्हति, सतीति विकल्पे सत्त्वं सर्वदा सत्त्वमेव विवक्षितं द्वैतप्रसङ्गश्च पृथगेव दूषणमिति बोध्यम् । अत्र यजन्यं तदनिर्वचनीयमिति व्याप्तिबलादेवाज्ञाननिवृत्तेर्जन्यत्वलक्षणहेतुबलादनिर्वचनीयत्वं साध्यतेऽतस्तादृशव्याप्तौ प्राचीनवचनसंवादमाह-तदुक्तमिति-मायिकत्वम्अनिर्वचनीयत्वं तस्य समर्थकं- साधकमिति मायिकत्वसमर्थकमित्यस्यार्थः । निरुतसमाधानाशङ्को प्रतिक्षिपति-मैवमिति । भनिवर्चनीयस्येति- यदनिर्वचनीयं तज्ज्ञाननिर्वत्यमिति नियमेन " अज्ञाननिवृत्तिर्ज्ञाननिवर्त्या अनिर्वचनीयत्वाद् ," इत्यनुमानतोऽज्ञाननिवृत्तिनिवृत्तिसिद्धौ ‘अज्ञाननिवृत्तिर्ज्ञाननिवाऽनिर्वचनीयत्वाद्' इत्यनुमानात् तस्या अप्येवं निवृत्तिरेवं तस्या अपीत्येवं निवृत्तिपरम्परालक्षणानवस्थानप्रसङ्गादित्यर्थः। न च सत्येवाज्ञाननिवृत्तिः, तस्या असत्त्वाद्, अज्ञानतत्कार्यस्यानिर्वचनीयस्य विधावपि न तस्य सत्त्वं किन्तु ब्रह्मण एव सत्त्वमित्यद्वैतस्य ममाभ्युपगतस्य सदद्वैतरूपत्वमेवेत्येवं सदद्वैतवादो न व्याहन्यते सद्वैताभावादिति यद्युच्यते, तदाऽद्वैतस्य सदद्वैतरूपत्वेन सङ्कोचो निष्प्रमाणको दूषणमेवेत्याहसदद्वैतव्याकोपमङ्गीकृत्येति- सदद्वैताव्याकोपमङ्गीकृत्येति पाठो युक्तः, सदद्वैतव्याकोपः सदद्वैतव्याघातो मा भवत्वित्येवमङ्गीकृत्येत्यर्थः । तस्याः अज्ञाननिवृत्तेः । विधानेऽपि अनिर्वचनीयाज्ञान-तत्कार्ययोनिवृत्त्यभावाद् विधानेऽपि अनिवेचनीयतया विध्यभ्युपगमेऽपि । विना प्रमाणमिति- एकमेवाद्वितीयं ब्रह्म नेह नानाऽस्ति किश्चनेत्याद्याः श्रुतयोऽद्वैत एव प्रमाणं न सदद्वैत इति प्रमाणमन्तरेणेत्यर्थः। अद्वैतसङ्कोच इति- अद्वैतपदस्य सदद्वैतपरत्वमित्यर्थः । यद्यत्र सङ्कोचे प्रमाणं स्यात् तदा प्रामाणिकसकोचो न दूषणम् , यथा- पदार्थः पदार्थेनान्वेति न तु पदार्थंकदेशेनेत्यत्र व्युत्पत्ती सम्पन्नो व्रीहिरित्यत्रैकवचनविभक्यात्मकपदार्थस्यैकत्वस्य व्रीहिपदार्थतावच्छेदके व्रीहित्वेऽन्वयस्य व्रीहावेकत्वान्वये तत्र सम्पत्तेर्बहुत्व
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy