SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। वाच्यम् , निर्विशेषात्मबोधेऽपि “ इतिहासपुराणाद्यैर्वेदार्थमुपबृंहयेत् " [ ] इत्यादिना पुराणप्राकृतवाक्यश्रवणादेः प्राप्तत्वाद् वेदान्तश्रवणं नियम्यत इति दोषाभावात् । एतच्च श्रवणाद्यावृत्तं तत्त्वधीहेतुः, दृष्टार्थत्वात् , तदेवं बहुजन्मलब्धपरिपाकवशादसौ " तत्त्वमसि "[ आदिवाक्यार्थविशुद्धं प्रत्यगभिन्नं परमात्मानं साक्षात्कुरुते । न च प्रामाण्यस्योत्पत्तौ स्वतः स्वभङ्गः, श्रवणादेः प्रतिबन्धकनिवर्तकत्वात् तन्निवृत्तेश्च तुच्छत्वेनोत्पत्तावतिरिक्तानपेक्षणात् । ' तत् त्वम् ' इति पदयोः परोक्षत्वापरोक्षत्वविशिष्टचैतन्यरूपपृथगर्थवाचकयोः श्रयमाणं सामानाधिकरण्यं न तावत् सिंहो देववत्त इतिवद्गौणम् , मुख्ये संभवति तस्यान्याय्यत्वात् । नापि " मनो ब्रह्म" [ इत्यादिवदुपासनार्थम्, श्रुतहानाश्रुतकल्पनाप्रसङ्गात् । मुख्यत्वेऽपि न नीलोत्पलादिवत् सामानाधिप्रसङ्गादव, अस्य निषेधे नमर्थेऽन्वयः, तस्य नियमविध्यत्वमित्यनेनान्वयः। अत एवेत्यभिहितहेतुमेव स्पष्टयतियजेतेति । इत्थं श्रवणविधेर्न नियमविधित्वमित्युपपादनपराशङ्काप्रतिक्षेपहेतुमुपदर्शयति-निर्विशेषात्मबोधेऽपीतियद्यपि निर्विशेषात्मज्ञानत्वावच्छिन्नं प्रति प्रत्यक्षादिप्रमाणान्तरस्य प्रवृत्तिर्नास्ति तथापि इतिहासपुराणादिवाक्यश्रवणादिलक्षणप्रमाणान्तरप्राप्तेरितिहासपुराणादेरित्यादिवचनेन सद्भावात् तत्प्रतिषेधार्थ वेदान्तवाक्यश्रवणं नियम्यते, अत एव 'श्रोतव्यः श्रुतिवाक्येभ्यः' [ ] इति वचनं नियमप्रतिपादकमिति फलतावच्छेदकावच्छिन्नसाधनान्तरप्राप्तेरेव नियमविध्यङ्गत्वेन स्वर्गकामो यजेतेत्यादौ नियमविधिवप्रसङ्गदोषाभावादित्यर्थः । तत् किं निर्विशेषात्मज्ञानार्थ वेदान्तवाक्यश्रवणमेधैव कर्तव्यमुत तदावृत्तिरपेक्षितेत्यपेक्षायामाह-एतश्चेति- अनन्तरोपदिष्टस्वरूपं चेत्यर्थः । श्रवणादीत्यत्रादिपदान्मनननिदिध्यासनयोः परिग्रहः। आवृत्तं भूयोऽभ्यस्तम् । नियमविधिबोधितस्य श्रवणादेरदृष्टार्थत्ववद् दृष्टार्थत्वमपि, तेन यद्यदृष्टार्थत्वमेव स्यात् तदा सकृद्विधीयमानेनापि श्रवणादिना तत्त्वज्ञानोपयोग्यदृष्टजन तस्तद्वारा निर्विशेषात्मज्ञानं सम्भवतीति निष्प्रयोजनं श्रवणाद्यावर्तनं न विधेयं स्यात्, यदा तु दृष्टमपि तत्त्वज्ञानदृढीकरणादिकं तस्य प्रयोजनं तदा यावदभ्यस्तेन श्रवणादिना निर्विशेषात्मज्ञानं दृढं निष्पद्यते तावदभ्यसनीयं श्रवणादिकमित्यावेदनायाह- दृष्टार्थत्वादिति । तथा च पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः सानाध्ययनबलादापाततो वेदान्तवाक्यार्थज्ञानवानिह जन्मनि जन्मान्तरे वाऽनुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेक-विराग-शमादिषट्क-मुमुक्षावान् विशिष्टगुर्वनुसरणतः श्रवणमनन-निदिध्यासनवान् तत्त्वमसीत्यादिवाक्यार्थविशुद्धप्रत्यगभिन्नपरमात्मानं साक्षात्करोतीत्युपसंहरति-तदेवमिति। परिपाकश्च दाळ श्रवणादीनाम् । असौ पुरुषधुरन्धरः। ननु ब्रह्मसाक्षात्कारस्य प्रमाणात्मकस्य श्रवणादितो भावे तत्प्रामाण्यस्य श्रवणादिनिबन्धनत्वेन प्रामाण्यस्योत्पत्ती स्वतस्त्वं यद् वेदान्तिसम्मतं तद्भङ्गः स्यादित्याशङ्कय प्रतिक्षिपतिन चेति । "स्वतः स्वभङ्गः” इत्यस्य स्थाने " स्वतस्त्वभङ्गः" इति पाठो युक्तः। श्रवणादितः परमात्मसाक्षात्कारप्रतिबन्धकापगमो भवति, ततो विशुद्धं प्रमाणस्वरूपं साक्षात्कारात्मकं ज्ञानमुत्पद्यते, इति प्रतिबन्धनिवृत्तेस्तुच्छस्वरूपायाः प्रामाण्योत्पत्तौ प्रयोजकत्वेऽपि कस्यचिद् भावस्य तत्रानपेक्षणात् स्वतस्त्वं न व्याहन्यत इति निषेधहेतुमुपदर्शयतिश्रवणादेरिति । तन्निवृत्तेश्च प्रतिबन्धकनिवृत्तेश्च, स्वाश्रयज्ञानकारणातिरिक्तभावानपेक्षत्वं प्रामाण्ये स्वतस्त्वं, तच प्रामाण्यस्योत्पत्तो प्रतिबन्धकाभावापेक्षत्वेऽपि निर्वहतीसाशयः। तत्त्वमसीत्यत्र तत्-त्वंपदयोः सामानाधिकरण्यं केनापि प्रकारेणाघटमानमित्यतः शुद्धचैतन्यस्वरूपे ब्रह्मणि तयोर्जहद जहलक्षणा, तत एवाखण्डब्रह्मस्वरूपबोधजनकत्वं तत्त्वमसीति वाक्यस्येत्युपदर्शयति-तत्-त्वमिति पदयोरिति । परोक्षस्वेति- परोक्षत्वविशिष्ट चैतन्यरूपभिन्नार्थवाचकस्य तत्पदस्य अपरोक्षत्वविशिष्टचैतन्यरूपभिन्नार्थवाचकस्य स्वंपदस्य समानविभक्तिवचनकत्वलक्षणं सामानाधिकरण्यं श्रयमाणं सिंहो देवदत्त इतिवद् गौणं नेत्यर्थः । निषेधे हेतुमाह-मुख्य इति- मुख्य सामानाधिकरण्य इत्यर्थः। तस्य गौणस्य सामानाधिकरण्यस्य । सति प्रयोजने गौणमपि सामानाधिकरण्यमाश्रीयते, यथा- “ मनो ब्रह्म" [ ] इत्यत्र आरोपितब्रह्मामेदकं मन उपासीतेति, तथा आरोपितपरोक्षत्वादिविशिष्टचैतन्यलक्षणब्रह्माभेदकमपरोक्षत्वविशिष्टचैतन्य त्वंपदवाच्यमुपासीतेत्येवमुपासनार्थ गौणमपि सामानाधिकरण्यं न्याय्यमित्याशङ्का प्रतिक्षिपति-नापीति । निषेधे हेतुमाहश्रुतहानेति-श्रुतस्य सत्त्वम्पदयोः मुख्यस्य सामानाधिकरण्यस्य, यद्वा अश्रुतस्य यदुपासनलक्षणफलकस्य. गौणसामाना
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy