________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
३१३
सति मोक्षः, शुकादीनां मोक्षश्रवणं चार्थवाद इत्यायुधम् । ननु वस्तुनि विकल्पासंभवात् कथं परस्परविरुद्धमतप्रामाण्यम् , तस्मात् किमत्र हेयं किमुपादेयमिति चेत् ? क एवमाह वस्तुनि विकल्पो न । ४. ३. २३.] इत्यादिना सुषुप्तौ सकलकार्यप्रपञ्चलयश्रवणात् । न च "सुषुप्तौ हिता नाम नाड्यः" [ ] इति नाडीसत्त्वप्रतिपादकवाक्यविरोधः, केन क्रमेण सुषुप्तौ भवतीत्यपेक्षायां “हिता नाम नाड्यो हृदयात् पुरीततमभि प्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते" [ को. त. ४. १९. 1 इत्यादिना सुषुप्यव्यवहितकाले क्रमोक्तये नाडीसत्त्वं प्रतिपाद्यते, न तु सुषुप्तिकालेऽपि, वाक्यान्तरविरोधात् , प्राक् सत्त्वमात्रेण च क्रमाभिधानपर्याप्तः । ननु " यत्रैष एतत्सुप्तोऽभूत् " [बृ० २१. १६.] इति यच्छब्देन सुप्ताधारत्वेनोक्तस्य ब्रह्मण एवास्मादात्मन इत्यनेन परामर्शात् तत्कर्तृकैव प्राणादिसृष्टिने तु सुप्तोत्थितजीवकर्तृका, अन्यथाऽन्यूर्णनाभादेस्तन्तुविस्फुलिङ्गादिजननोतिरत्रापि वाक्ये सर्वलोकदृष्टयुक्तिश्चालीकार्था स्यात् , नहि दृष्टिसृष्टिपक्षेऽग्न्यूर्णनाभादेस्तन्त्वादिजनकत्वं सर्वलोकसृष्टिर्वाऽस्तीति चेत् ? न- यत्रेत्यस्य कालपरत्वेन यच्छब्देन ब्रह्मणो निर्देशाभावात् । न च यत्रेयस्य ब्रह्मरूपाधिकरणपरत्वं कालपरत्वं वेत्यत्र विनिगमनाविरहः, अनन्तरवाक्ये केष तदाभूदित्यत्र क-तदेति पदद्वयोपादानस्यैव विनिगमकत्वात् , यत्रेत्यनेन निर्देशे केति प्रश्नानुपपत्तेः, कालानिर्देशे च तदेति प्रतिनिर्देशानुपपत्तेः, भाष्यकारादिभिश्च स्थूलाधिकारिणं प्रति तथाव्याख्यानात् , ऊर्णनाभादेस्तन्त्वादिजन्योत्पत्तिस्तु लौकिकभ्रमसिद्धकार्यकारणभावप्रसिद्धिमनुरुध्य, सर्वलोकादिसृष्टिश्च तत्तदृष्टिव्यक्तिमभिप्रेत्य, यदा यत् पश्यति तत्समकालं तत् सृजतीत्यत्र तात्पर्यात् । न चाविद्यासहकृतजीवकारणकत्वे जगद्वैचित्र्यानुपपत्तिः, जगदुपादानस्याज्ञानस्य विचित्र शक्तिकत्वात् , उपपत्त्यन्तरं चात्र सिद्धान्तबिन्दुकल्पलतिकादावभिहितम् . वासिष्ठ वार्तिकामृतादावाकरे स्पष्टमेवोतं- यथा " अविद्यायोनयो भावाः सर्वेऽमी बुद्धदा इव । क्षणमुद्भूय गच्छन्ति ज्ञानकजलधौ लयम् ॥१॥" [
] इत्यादि, तस्माद् ब्रह्मातिरिक्तं द्वैतजातं ज्ञानज्ञेयरूपमाविद्यकमेवेति प्रातीतिकत्वं सर्वस्येति सिद्धम् , "रज्जु-सर्पादिवद् विश्वं नाज्ञातं सदिति स्थितम् । प्रबुद्धदृष्टिसृष्टित्वात् सुषुप्तौ च लयश्रुतेः ॥१॥" [ ] इति।
दृष्टिसृष्टिवादे वादान्तरतो विशेषमुपदर्शयति-अस्मॅिश्व पक्षे इति । "जीव एवेश्वरज्ञान" इत्यस्य स्थाने 'जीव एवेश्वराज्ञान' इति पाठो युक्तः, ईश्वरविषयकं यदज्ञानं जीवस्य तद्वशात् - तत्सहकाराजीव एव जगत उपादानकारणं निमित्तकारणं चेत्यर्थः । वादान्तरे कस्यचित् प्रातीतिकं सत्त्वं कस्यचिद् व्यावहारिक सत्त्वं ब्रह्मव्यतिरिक्तस्य, दृष्टिसृष्टिवादे तु ब्रह्मव्यतिरिक्तस्य सर्वस्य प्रातीति कसत्त्वमेवेत्याह-दृश्यं चेति । दृष्टिसृष्टिवादे यद्येक एव जीवस्तदा जीवभेद उपलभ्यमानः कथमुपपद्यतामित्यपेक्षायामाह-देहभेदादिति- वस्तुतो जीव एक एव, देहभेदात् तद्भेदोपलम्भस्तु भ्रमरूपत्वान्न जीवभेदसाधने प्रभुरित्यर्थः । अस्मिन् मते एकस्य जीवस्यात्मसाक्षात्कारे सति मोक्षो यदा भविष्यति तदेव स मोक्षः सर्वजीवमोक्षात्मकः, न त्विदानी पर्यन्तं कस्यापि मुक्तिरुपजाता, शुकादीनां मोक्षप्रतिपादनमर्थवादमात्रमुपदर्शयतिएकस्यैवेति - अस्य मोक्ष इत्यनेन सम्बन्धः, स्वेन कल्पितो यो गुरुः शास्त्रादिश्च, तदुपबृंहितस्तदुपष्टम्भेन जनितो यः स्वस्यैव ब्रह्मस्वरूपस्य श्रवण-मननादिः, आदिपदान्निदिध्यासनापरिग्रहः, तस्य दायाद्- भूयो भूयोऽभ्यासादात्मसाक्षाकारे-परब्रह्मात्मकस्वसाक्षात्कारे सति एकस्यैव जीवस्य मोक्षो भवति, एवकारेण जीवान्तरस्याभावान्न मोक्ष इत्यावेदितम् । नन्वेवं यद्येक एव जीवोऽतस्तस्यैव मोक्षस्तर्हि शुक-वामनादीनां शास्त्रे मोक्षप्रतिपादनं विरुद्धयत इत्यत आह-शुकादीनामिति । अर्थवादः प्रशंसामात्रम् । तदेवं ब्रह्माद्वैतवादे वेदान्ते जीवेश्वरविभागव्यवस्था अवान्तरमतभेदनिबन्धना बहुधोपदर्शिता, वस्तुनि विकल्पासम्भवात् तत्र कश्चिदेक एव प्रकारो युज्यते, अन्ये प्रकारास्तु कल्पनामात्रनिबन्धना न प्रमाणवीथीमवतरन्ति, योऽप्येकप्रकारो वस्तुभूतः सोऽपि विरुद्धपक्षसमाहारान्तर्गतोऽनिर्धारितस्वरूप एव, न चैतेषां परस्परविरुद्धप्रकाराणां प्रामाण्यमात्मसात्कर्तुं शक्यमतः कस्यात्रोपादानं कस्य परित्यागो वा न्याय्य इति सन्दिहानस्तटस्थः शङ्कते- नन्विति । तस्मात् प्रकारभेदकल्पनालक्षणविकल्पासम्भवप्रयुक्तवस्तुविषयकपरस्परविरुद्धमतप्रामाण्याभावात् । अत्र दर्शितमतेषु । कि हेयं किं मतं नोपादेयम्, किमुपादेयं किं मतं स्वीकरणीयम् । उत्तरयति-क एवमाहेति - वस्तुनि विकल्पो न संभवतीत्येवं क आहेति, काक्का न कोऽप्येवं कथयतीति। ततः किं वस्तुनि विकल्पः सम्भवतीत्यपेक्षायामाह-स्थाणुबैतिएकस्मिन्नपि वस्तुनि 'अयं स्थाणुर्वा स्यादयं पुरुषो वा भवेदयं किमु राक्षसः' इत्यादिविकल्पानां प्रवृत्तेदर्शनादित्यर्थः ।
४०