SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३१० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ज्ञानादिनिवृत्त्या भेदभ्रमनिवृतिप्रसङ्गादिति चेत् ? उच्यते- सोपाधिकभ्रमनिवृत्तावुपाधिनिवृत्तेः पुष्कल. कारणत्वान्न ततो भेदभ्रमनिवृत्तिः । मुखान्तरोत्पत्तिपक्षे तु सोपाधिकत्वमेव नास्ति, उपाधिर्हि उप समीपे स्थित्वा स्वकीयं धर्ममन्यत्रादधातीत्युच्यते, नहि मुखान्तराध्यासे उपाधिरस्ति रजताध्यासवत् , भेदाध्यासे दर्पणस्योपाधित्वं संभवति, अतः सत्यपि प्रत्यभिज्ञाने यावदुपाधि भेदाध्यासानुवृत्तिर्युक्ता, तस्मान्मुखमधिष्ठानं तत्र भेदोऽध्यस्यते । एवं चाज्ञानादौ प्रतिबिम्बे सत्यपि नाभासान्तरम् , मानाभावात् । सादृश्यापत्तिस्त्वज्ञानाध्यासेन परिच्छिन्नत्वापत्त्याहङ्काराध्यासापेक्षिता भविष्यति, तस्माना. भासवादो ज्यायानिति विवरणाचार्याभिप्रायः। अज्ञानोपहितं बिम्बचैतन्यमीश्वरः, अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा, अज्ञानानुपहितं शुद्धविशेषणम् । समाधत्ते- उच्यते इति । सोपाधिकेति- आदर्शरूपोपाधिसन्निधाने सत्येष मुखे भेदभ्रम इति सोऽयं मुखे भेदभ्रमः सोपाधिकस्तनिवृत्ती सान्निध्यसम्बन्धेन दर्पणरूपोपाधिनिवृत्तेः। पुष्कलकारणत्वाद असाधारणकारणत्वादिति सान्निध्यसम्बन्धेन दर्पणाभावादेव मुखे भेदभ्रमनिवृत्तिः, ततोऽभेदावगाहिप्रत्यक्षप्रत्यभिज्ञानतोऽभेदाज्ञाननिवृत्तितो न नैव, भेदभ्रमनिवृत्तिरित्यर्थः। यश्च दर्पणरूपाधिष्ठान एव मुखान्तरोत्पत्तिमभ्युपैति तन्मते दर्पणे मुखान्तरभ्रमस्य सोपाधिकत्वं नास्ति, यो हि सन्निहिते वस्तुनि स्वधर्ममादधाति स उपाधिर्भवति, दर्पणे मुखाध्यासे तु दर्पणधर्मस्य न मुखे आधानम् , यथा शुक्तौ रजताध्यासे न शुक्तिधर्मस्य रजत आधानमिति शुक्तौ रजतभ्रमो न सोपाधिकस्तथा दर्पणे मुखान्तरभ्रमोऽपि सोपाधिको न भवेत्, मुखरूपाधिष्ठाने भेदाध्यासे तु दर्पणस्य मुखभिन्नत्वाद् भेदो दर्पणधर्मस्तस्य सन्निहिते मुखेऽध्यास इति मुखे भेदभ्रमः सोपाधिक इति तन्निवृत्तिः सान्निध्यसम्बन्धेन दर्पणनिवृत्तित एवेति यावद् दर्पणरूपोपाधिसान्निध्यं तावन्मुख भेदभ्रमोऽनुवर्ततेऽभेदावगाहिप्रत्यक्षप्रत्यभिज्ञाने सत्यपीत्युपपादयति-मुखान्तरोत्पत्तिपक्षे त्विति । दर्पणे मुखान्तरभ्रमे सोपाधिकत्वनिषेधे हेतुमुपदर्शयति- उपाधि-ति । उपाधिरित्यस्य उच्यते इत्यनेन सम्बन्धः । उपाधिपदे उपशब्द आधिशब्दश्च वर्तते, तदर्थयोरावेदनपुरस्सरं तद्वयुत्पत्तिमुपदर्शयति- उप समीप इतियो ह्यन्यपदार्थस्य समीपे स्थित्वाऽन्यपदार्थे स्वकीयं धर्ममादधाति स उपाधिरिति गीयते, यथा जपाकुसुमं स्फटिकस्य समीप स्थित्वा स्वकीयं रक्तत्वधर्म स्फटिके आदधातीति जपाकुसुममुपाधिः, तत्सन्निधानात् स्फटिके रक्तत्वभ्रमः सोपाधिक इति । शुक्तौ रजताध्यासे यथा कोऽप्युपाधिर्नास्तीति शुक्को रजतभ्रमो न सोपाधिकस्तथा दर्पणे मुखान्तराध्यासे कोऽप्युपाधिर्नास्तीति दर्पणे मुखान्तरभ्रमोपगमे तस्य सोपाधिकत्वं न स्यादित्यर्थः । भेदाध्यास इति- मुखेऽधिष्ठाने भेदस्याध्यास इत्यर्थः । दर्पणस्योपाधित्वं सम्भवति दर्पणं मुखस्य समीपे स्थित्वा स्वकीयं धर्म भेदरूपं मुखे आदधातीत्येवमुपाधिपदव्युत्पत्तिनिमित्तं दर्पणेऽस्तीति । अतः दर्पणे उपाधित्वस्य सम्भवतः। सत्यपि प्रत्यभिज्ञाने ग्रीवास्थमेवेदं मुखमित्यभेदावगाहिप्रत्यक्षप्रत्यभिज्ञाने सत्यपि । यावदुपाधि दर्पणरूपोपाधिसन्निधानं यावत् । अध्यासानुवृत्तिर्युक्ता मुखे भेदाभ्यासस्यानुवर्तनं युज्यते, सोपाधिकभ्रमनिवृत्तिकारणस्योपाधिनिवृत्तेरभावेन भ्रमनिवृत्तेरभावादित्यर्थः। उपसंहरतितस्मादिति । तत्र मुखे। प्रकृतं विवरणाचार्यमतमधिकरोति- एवं चेति- दर्पणे मुखान्तरोत्पत्तिप्रतिक्षेपे व्यवस्थिते वैत्यर्थः। अज्ञानादौ अनादिभूताज्ञानादौ । प्रतिबिम्बे सत्यपि चैतन्यप्रतिबिम्बे सत्यपि । नाभासान्तरम् अज्ञाने चैतन्याभासान्तरं नैव । तत्र हेतु:-मानाभावादिति । चैतन्ये जडत्वेनाहङ्कारसादृश्यापन्नेऽहङ्काराध्यासः सम्भवति नान्यथेत्येतदर्थमनादिभूताज्ञाने चैतन्याभासः, तत्त दात्म्यापत्त्या चैतन्यस्य जडत्वेन सादृश्यं यदिष्टं तचैतन्य एवाज्ञानाध्यासेनाज्ञानतादात्म्यापत्त्या परिच्छिन्नत्वेन सम्भवतीत्याह- सादृश्यापत्तिस्त्विति-अस्य भविष्यतीत्यनेनान्वयः । अज्ञानाध्यासेन चैतन्येऽज्ञानाध्यासेन । परिच्छिन्नत्वापत्त्या अज्ञानाभासस्य परिच्छिन्नत्वेन तत्तादात्म्याचैतन्यस्यापि परिच्छिन्नत्वापत्तिस्तया। उपसंहरति-तस्मादिति । विवरणाचार्यसिद्धान्तमुपदानकेषु वेदान्तिसिद्धान्तेषु प्रधानं दृष्टिसृष्टिवादसिद्धान्तमुपदर्शयितुं तदभिप्रेतं जीवेश्वरविभागमुपदर्शयति- अज्ञानोपहितमिति- उपाधेः प्रतिबिम्बपक्षपातित्वादुपाधिकार्य प्रतिबिम्बे भवति न तु बिम्बे इति
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy