SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २९६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । त्मकाः, तदाकारानुस्यूतत्वात्, सुवर्णात्मककुण्डलादिवद्' इत्यादितः शब्दब्रह्मसाम्राज्यसिद्धेः । न च प्रमाणाधीना प्रमेयव्यवस्था, प्रमाणं च चिदात्मकमेवानुभूयत इति तत्र शब्दरूपत्वासिद्धिः, निराकारस्य ज्ञानस्यार्थाप्राहकत्वेन व्यवहारेऽनाश्रयणीयत्वात्, साकारस्य च तस्य वागूरूपतां विना असम्भवात्, तदुक्तम्— वागूरूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ १ ॥ ] इति । 39 [ अत एव शब्दार्थसम्बन्धो वैयाकर्णैरभेदेनैव प्रतिपादितः, युक्तं चैतत् कथमन्यथा अदृष्टदशरथादीनामिदानीन्तानानां दशरथादिपदाच्छाब्दबोधः ? शुद्धदशरथत्वादिनोपस्थितेस्तत्रा सम्भावनीयत्वात् ग्रामा-ऽऽरामादीनां शब्दाकारेणानुस्यूतत्वादिति तदर्थः, सुवर्णात्मककुण्डलादिवदिति दृष्टान्तवचनम् अत्र यद् यदाकारानुस्यूतं तत् तदात्मकं यथा कुण्डलादिकं सुवर्णाकारानुस्यूतं सुवर्णात्मकमिति उदाहरणप्रयोगः । इत्यादितः इत्याद्यनुमानप्रयोगतः । शब्दब्रह्मसाम्राज्यसिद्धेः सर्वस्य वस्तुनः शब्दत स्वात्मकब्रह्मात्मकत्वसिद्धेः । ज्ञानभिन्नस्य सर्वस्य प्रमेयस्य ज्ञानात्मकप्रमाणेन शब्दतत्त्वात्मकत्वसिद्धेः सम्भवेऽपि ज्ञानात्मकस्य प्रमाणस्य चिदात्मकत्वेनैव स्वसंवेदन प्रत्यक्षेणानुभूयमानस्य प्रत्यक्षवावान्न शब्दत स्वात्मकत्वसिद्धिरित्याशङ्कां प्रतिक्षिपति न चेति इदं शब्दात्मकमिदं वा ज्ञानात्मकं ब्रह्मात्मकं वेत्येवं प्रमेयव्यवस्था प्रमाणाधीनैव मन्तव्या, अन्यथा सर्वस्य वस्तुनः परस्परात्मकत्वमपि वाङ्मात्रेण सिद्धयद् व्यवस्था मेवोत्सादयेदिति प्रमाणं चिदात्मकमेवानुभूयते इति तत्र चिदात्मके प्रमाणे शब्दरूपत्वासिद्धिरिति न चेत्यर्थः । निषेधे हेतुमाह - निराकारस्येतिइदमेतदात्मकमिदमेतदात्मकमिति व्यवहारस्वरूपैव प्रमेयव्यवस्था, ज्ञानमपि स्वसंवेदनं चिदात्मकमिति व्यवस्था व्यवहाररूपैव एवं च सर्वोऽपि व्यवहारः साकार ज्ञानादेवार्थग्राहकात् प्रवर्तते न त्वर्थाप्राहकान्निराकारज्ञानात् तस्य स्वसंवेदनेनाप्यननु - भूयमानस्यासिद्धत्वात्, साकारस्य च ज्ञानस्य वाग्रूपतां विनाऽसम्भवादित्यन्यथानुपपत्त्या ज्ञानस्यापि चिदात्मकस्य शब्दे - नानुस्यूतत्वाच्छब्दात्मकत्वं सिद्धिपद्धतिमुपयातीत्यर्थः । ज्ञानस्यापि शब्दरूपत्वे भर्तृहरिवचनं संवादकतयोपदर्शयति - तदुक्त मिति । वाग्रूपतेति चेत् यदि, अवबोधस्य ज्ञानस्य वाग्रूपता शब्दरूपता, शाश्वती सर्वकालिकी स्वाभाविकी, व्युत्क्रामेत् न भवेत्, ताँति शेषः, प्रकाशः अवबोधः, न प्रकाशेत स्वसंवेदनेन नानुभूयेत, हि यतः, सा वाग्रूपता, प्रत्यवमर्शिनी ज्ञानस्वरूपनिश्चयकारिणी, शब्देन ज्ञानस्वरूपोल्लेखमन्तरेण किंस्वरूपं ज्ञानमित्येवावधारयितुं न शक्यत इत्यर्थः । अत एव जगतः शब्दात्मकत्वादेव । शब्दार्थसम्बन्धः शब्दस्यार्थेन समं सम्बन्धः, “वैयाकर्णैः" इत्यस्य स्थाने “ वैयाकरणैः” इति पाठो युक्तः, अभेदेनैव तादात्म्येनैव शब्दार्थयोर्वाच्यवाचकभाव सम्बन्धस्तयोस्तादात्म्या - देव भवतीत्येवं वैयाकरणैः प्रतिपादितः प्रदर्शितः । शब्दार्थयोस्तादात्म्यसम्बन्धस्य युक्त्युपेततां भावयति युकं चैतदिति - वैयाकरणैः शब्दार्थयोस्तादात्म्य सम्बन्ध प्रतिपादनं युक्तमित्यर्थः । कथमित्यस्य शाब्दबोध इत्यनेनान्वयः । अन्यथा शब्दार्थयोस्तादात्म्य सम्बन्धाभावे । अदृष्टदशरथादीनामिति न दृष्टा दशरथादयो यैस्तेऽदृष्टदशरथादयस्तेषामित्यर्थः । दशरथादिसमानकालीना अपि दूरदेशाद्यवस्थानादिना कतिपये अदृष्टदशरथादयः सम्भवन्ति तथाऽपि येषां कथञ्चिदपि न दशरथादिदर्शनं सम्भवति तेषां सुगम व गतिनिमित्तमुक्तम् इदानीन्तनानामिति ऐदंयुगीनानां प्रमातॄणामित्यर्थः । दशरथादिपदात् कथमिदानीन्तनानां शाब्दबोधो न भवेच्छन्दार्थयोस्तादात्म्य सम्बन्धाभावे इत्यपेक्षायामाह - शुद्धेति - अन्यधर्मानवच्छिन्नेत्यर्थः तेन मेयत्वधर्मावच्छिन्नदशरथत्वादिनोपस्थितिसम्भवेऽपि न क्षतिः । तत्र अदृष्टदशरथादिष्विदानीन्तनेषु । शुद्धदशरथत्वादिनोपस्थितेस्तत्र कथमसम्भावनीयत्वमित्याकाङ्क्षायामाह - तथेति - शुद्धदशरथत्वादिनेत्यर्थः । 66 'पूर्वक " इत्यस्य स्थाने " पूर्व" इति पाठो युक्तः येषां निरवच्छिन्नदशरथत्वादिप्रकारक दर्शनात्मानुभवो नास्ति तेषां दशरथादिपदं निरवच्छिन्नदशरथत्वादिविशिष्टे शक्तमिति शक्तिप्रहो न सम्भवति, शक्त्यनुभवाभावे शक्तिस्मरणमपि न सम्भवति, अनुभवस्य स्मरणं प्रति कारणत्वात् तथाविधशक्तिग्रहाभावे दशरथादिपदान्निरवच्छिन्न दशरथादिप्रका रकस्मरणं न सम्भवति, तत् प्रति संस्कारद्वारा कारणस्य निरवच्छिन्नदशरथत्वादिप्रकार कानुभवस्य निरवच्छिन्नदशरथत्वादिविशिष्टे दशरथादिपदशक्तिप्रहस्य चाभावादिति नेदानीन्तनामामदृष्टदशरथादीनां दशरथादिपदान्निरवच्छिन्नदशरथत्वादिप्रकारकशाब्दबोधस्य सम्भवः, शब्दाऽर्थयोस्तादात्म्य सम्बन्धाभावे इत्यर्थः । यद्यपीदानीन्तनानामपि दशरथादिपदं प्रमेयविशिष्ठे 66
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy