SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २७४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। अथ नाम-भावनिक्षेपसाङ्कर्यपरिहारायेन्द्रपदसङ्केतविशेषविषयत्वमेव नामेन्द्रत्वं निर्वक्तव्यम् , तच्च सादृश्येतरसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं स्थापना इत्यावृत्यामेवेति तन्नाम्ना तत्सङ्ग्रहा इत्याशङ्कायामह नामातिरिक्तो नामेन्द्रो, लक्ष्य इन्द्रपदस्य हि । तस्य मुखार्थसादृश्ये, वैसादृश्ये च नाग्रहः ॥ ९५॥ नयामृत-नामेति । इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव हि नामेन्द्रपदार्थस्य घटकलक्षणायां सादृश्ये वैसाहश्ये वा निमित्त नाग्रहः कर्तव्यो, गौण्यतिरिक्तलक्षणाया असङ्ग्रहापत्तेः, तथा च लाघवात् तच्च इन्द्रपदसङ्केतविषयत्वलक्षणं नामेन्द्रत्वं च । नाम-स्थापनासाधारणमेव नाम-स्थापनोभयवृत्त्येव, गोपालदारके इन्द्रपदसङ्केतकरणाद् यथा गोपालदारको नामेन्द्रस्तथेन्द्रप्रतिकृतौ इन्द्रपदसङ्केतकरणात् साऽपि नामेन्द्र इत्यर्थः ॥ ९४ ॥ पञ्चोत्तरनवतितमपद्यमवतारयति- अथेति । यदीन्द्रपदसङ्केतविषयत्वमेव नामेन्द्रत्वं तर्हि इन्द्रपदसङ्केतविषयत्वं यथा गोपालदारके इन्द्रप्रतिकृतौ च वर्तते तथा भावेन्द्रेऽपि वर्तत इति भावेन्द्रोऽपि गीर्वाणपतिर्नामेन्द्र एव स्यादिति सङ्ग्रहनये भावनिक्षेपस्याप्यतिरिकस्योच्छेदः स्यादतो नाम-भावनिक्षेपसाङ्कर्यपरिहाराय भावनिक्षेपस्य नामनिक्षेपेऽन्तर्भावो सा भवत्वित्येतदर्थम् । इन्द्रपदसङ्केतविशेषविषयत्वमेवेत्येवकारेण सामान्यत इन्द्रपदसङ्केतविषयत्वस्य नामेन्द्र त्वरूपताव्यवच्छेदः । किमिन्द्रपदसङ्केतविशेषविषयत्वं यद् भावेन्द्रे न वर्तत इत्यपेक्षायामाह- तच्चेति- इन्द्रपदसङ्केतविशेषविषयत्वं पुनरित्यर्थः । सादृश्येतरेति- सादृश्यभिन्नो यः सम्बन्धस्तन्निमित्तिका येन्द्रपदस्य लक्षणा तद्विषयत्वम्, लक्षणा यदि सङ्केतविशेषरूपा तदैव तस्याः सविषयकत्वात् तद्विषयकत्वं लक्ष्यार्थे सम्भवति, तस्याश्च सादृश्येतरसम्बन्धनिमित्तिकत्वमप्युपपद्यतेतराम्, इन्द्रपदसङ्केतविशेषविषयत्वरूपताऽपि तद्विषयत्वस्य सङ्गच्छते, इन्द्रपदशक्यसम्बन्धरूपा तु परदर्शनसम्मतेन्द्रपदलक्षणा नात्र सम्मता, तस्याः सादृश्येतरसम्बन्धरूपायाः स्वस्य स्वनिमित्तकत्वाभावेन सादृश्येतरसम्बन्धनिमित्तकत्वाभावात् सविषयकत्वाभावेन तद्विषयत्वस्य लक्ष्यार्थेऽसम्भवात् , अत एव तद्विषयत्वस्येन्द्रपदसङ्केतविषयत्वरूपताऽपि न सम्भवतीति बोध्यम्, । “स्थापना इत्यावृत्त्यामेवेति तन्नाम्ना तत्सङ्गहा" इत्यस्य स्थाने " स्थापनाव्यावृत्तमेवेति नाम्ना तदसङ्ग्रहः" इति पाठो युक्तः, यद्यपीन्द्रपदस्य सङ्केतविशेष आधुनिको भावेन्द्रेऽभावेऽपीन्द्रप्रतिकृतौ सम्भवति, तथापि स भावेन्द्रलक्षणेन्द्रपदमुख्यार्थेन समं य इन्द्रप्रतिकृतौ सादृश्यलक्षणसम्बन्धस्तन्निमित्तक एव न तु सादृश्येतरसम्बन्धनिमित्तक इति सादृश्येतरसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वमिन्द्रस्थापनायां न वर्तत इतीन्द्रस्थापनाव्यावृत्तमेवेत्यतस्याद्धेतोमिनिक्षेपेण तदसङ्ग्रहः- स्थापनाया असङ्कह इत्याशङ्कायां प्रतिविधानमाहेत्यर्थः । विवृणोति-नामेति । “इन्द्रपदस्य लक्ष्यो नामातिरिक एव हि नामेन्द्रपदार्थस्य घटकलक्षणायां सादृश्ये” इत्यस्य स्थाने “इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव नामेन्द्रः," हिः- एवार्थे, तस्य- नामेन्द्रपदार्थस्य, घटकलक्षणायां मुख्यार्थसादृश्य- शक्यार्थसादृश्ये" इति पाठो युक्तः, इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव नामेन्द्र इति मूलस्यान्वयमात्रोपदर्शनम् , अर्थस्य स्पष्ट. स्वान्न कथनम् , मूले एक्शब्दस्याभावात् तस्यान्वये कथं सन्निवेश इत्यपेक्षायामाह-हिः- एवार्थे इति- हिशब्दो मूलस्थ एवशब्दस्यार्थे वर्तते, तस्य नामातिरिक इत्यनेनान्वयमभिसन्धायोक्तान्वयो दर्शित इत्याशयः, तस्येत्यस्य विवरणंनामेन्द्रपदार्थस्येति, घटकलक्षणायामिति पूरणं, तथा च नामेन्द्रपदार्थ इन्द्रपदलक्षणाविषयस्तस्य घटकीभूता या लक्षणा तस्यामित्यर्थः, मुख्यार्थसादृश्ये इत्यस्य विवरणं- शक्यार्थसादृश्ये इति, एवं च नामेन्द्रपदार्थघटकलक्षणायां निमित्त मुख्यार्थसादृश्ये मुख्यार्थवैदृश्ये वा आग्रहो न कर्तव्य इत्यर्थः, कर्तव्य इति पूरणालभ्यते, तथा च इन्द्रपदलक्षणाविषयत्वमेव नामेन्द्रत्वं न तु सादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं वैसादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं वा नामेन्द्रत्वमित्यर्थः । कुतो मुख्यार्थसादृश्ये वैसादृश्ये वा निमित्ते आग्रहो न विधेय इत्याकाङ्क्षायामाह-गौण्यतिरिक्तेति"गौण्यतिरिक्तलक्षणाया असहापत्तेः" इत्यस्य स्थाने "गौण्यतिरिक्तलक्षणाया गौणीलक्षणाया वा असङ्ग्रहापत्तेः" इति पाठः समीचीनः, यदि नामेन्द्रपदार्थघटकलक्षणायां मुख्यार्थसादृश्यनिमित्तकत्वं विशेषणतया प्रविशति, एवं च सति मुख्यार्थसादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं स्यात् तदानीं गौण्यतिरिक्तलक्षणाया असङ्ग्रहापत्तः,
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy