SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ wed नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । २६९ इतीयं प्रायिकी व्याप्तिरभियुक्तैर्निरूप्यते । यत्तत्पदाभ्यां व्याप्तिश्चानुयोगद्वारनिश्चिता ॥ ८९ ॥ नयामृत-अप्रज्ञाप्येति, इतीयमिति । एतेषां-नामादीनां चतुर्णा निक्षेपाणाम् , अप्रज्ञाप्ये वस्तुनि, अभिधाया-नाम्नोऽप्रयोगात् , जीव द्रव्ययोश्च जीवत्वेन द्रव्यत्वेन च भूत-भविष्यत्पर्यायभावेन तत्कारणत्वाभावाद् द्रव्यनिक्षेपस्यायोगात् , न चाव्यापित्वमाशङ्कनीयम् , कुतः ? तव्यभिचारस्थानभेदस्य निवेशात् , इति-हेतोः, इयं-यद् यद् वस्तु तत् तन्निक्षेपचतुष्टयवद् इत्याकारा व्याप्तिः प्रायिकी, अभियुक्तैः-पण्डितैर्निरूप्यते, व्याप्यतावच्छेदकेऽप्रज्ञाप्यजीवद्रव्यादिभेदनिवेशात् , ननु यदि सामान्यतो व्याप्तेहिकं प्रमाणं स्यात् तदा तत्रायं सङ्कोचः कर्तुं शोभते तदेव तु किमित्याशङ्कायामाह-व्याप्तिश्च, यत्तत्पदाभ्यामनुयोगद्वारसूत्रादेव निश्चिता ।। " जत्थ य जं जाणिज्जा निरकेवे णिरवसेसं । जत्थ वि य न जाणिज्जा चउक्कयं णिरिकवं तत्थ ॥” [ अनुयोगद्वारे सू० १ ] इति । तत् सर्वनिक्षेपाणां सर्वव्यापकत्वम् , अस्य व्यवस्थापयतीत्यनेनान्वयः। व्यभिचारशङ्काम् अप्रज्ञाप्यादिवस्तुनि नामादिनिक्षेपामावतो यत्र वस्तुत्वं तत्र निक्षेपचतुष्टयवत्त्वमिति नियमाभावशङ्कायाम् । उन्नीय उद्भाव्य । विवृणोति-अप्रज्ञाप्येतीतिप्रथमपद्यप्रतीकधारणम्, इतीयमितीति-द्वितीयपद्यप्रतीकधारणम् । एतेषामित्यस्य विवरणम्-नामादीनां चतर्णा निक्षेपाणामिति । अप्रज्ञाप्ये विशिष्य प्रतिपादकवचनाभावाद् वचनेन ज्ञापयितुमशक्ये । वस्तुनीत्युक्त्या यद्वक्तुमशक्य तच्छशशृङ्गवदनुपाख्यत्वाद् वस्त्वेव न भवतीत्यभिमानस्य व्यवच्छेदः, दधि-दुग्ध-गुड-सिता-शर्करादीनामन्योऽन्यविलक्षणमाधुर्यस्य प्रमात्रानुभूयमानस्य वस्तुनोऽपि विशिष्य वचनेन प्रतिपादयितुमशक्यत्वात् , अभिधाया अयोगोऽप्रयोग एव, यन्नाम तत् प्रयुज्यत एव इत्याशयेन नाम्नोऽयोगादिति वक्तव्ये नाम्नोऽप्रयोगादित्युक्तम् । जीव-द्रव्ययोश्चेत्यादि व्याख्यानप्रन्थस्वारस्यान्मूले "अप्रज्ञाप्याभिधाद्रव्यजीवद्रव्याद्ययोगतः" इत्यस्य स्थाने 'अप्रज्ञाप्याभिधाजीवद्रव्यद्रव्याद्ययोगतः" इति पाठो भवितुमर्हति । " भूतभविष्यत्पर्यायभावेन" इत्यस्य स्थाने " भूत-भविष्यत्पर्यायाभावन" इति पाठो युक्तः, जीवस्य जीवत्वेन भूतस्य भाविनो वा पर्यायस्याभावेन द्रव्यस्य द्रव्यत्वेन भूतस्य भाविनो वा पर्यायस्याभावेन चेत्यर्थः, नहि जीवस्य जीवलक्षणः पर्यायो भूतो भावी वा, नवा द्रव्यस्य द्रव्यलक्षणः पर्यायो भूतो भावी वेति। तत्कारणत्वाभावात् जीवात्मक-द्रव्यात्मकपर्यायकारणत्वाभावात् । द्रव्यनिक्षेपस्यायोगादिति-जीवो जीवस्य कारणं यदि भवेत् तदा जीवकारणीभूतो जीवो द्रव्यजीवो भवेत् , जीवश्चानादिनिधनत्वात् कार्यमेव न भवतीति न तं प्रति जीवस्य कारणत्वमिति जीवात्मकवस्तुनि द्रव्यजीव इत्येवंरूपस्य द्रव्यनिक्षेपस्याभावात् , एवं द्रव्यं प्रति द्रव्यं यदि कारणं स्यात् तदा द्रव्यकारणीभूतं द्रव्यं द्रव्यद्रव्यं भवेत् , द्रव्यं च ध्रौव्यखभावत्वात् कार्यमेव न भवतीति न तत् प्रति द्रव्यस्य कारणत्वमिति द्रव्यात्मकवस्तुनि द्रव्यद्रव्यमित्येवंरूपस्य द्रव्यनिक्षेपस्याभावादित्यर्थः, एतच्चाव्यापित्वमित्यत्रान्वेति । अव्यापित्वं निक्षेपचतुष्टयस्य वस्तुत्वाव्यापकत्वम् , न चाशनीयमित्यन्वयः । पृच्छति-कुत इति- कुतोऽव्यापित्वं नाशङ्कनीयमित्यर्थः। उत्तरयति-तद्वयभिचारस्थानभेदस्य निवेशादिति-यत्र यत्र वस्तुत्वं तत्र निक्षेपचतुष्टयवत्त्वमिति नियमे व्यभिचारस्थानमप्रज्ञापनीयादि तद्भेदस्य निवेशात् , अप्रज्ञापनीयादिभिन्नत्वे सति वस्तुत्वे यत्र तत्र निक्षेपचतुष्टयवत्त्वमित्येव हि नियमः, तत्र न व्यभिचार इत्यर्थः॥ इतीयमित्यत्रेतिशब्दो हेतुपर इत्याशयेनाह-इति हेतोरिति । इयमित्यस्य विवरणं-यद् यद् वस्तु तत् तद् निक्षेपचतुष्टयवदित्याकारेति । व्याप्तिर्नियमः। प्रायिकी सम्भावितार्थस्वभावा । अभियुक्तैरित्यस्य विवरणपण्डितैरिति । कथं निरूप्यते ? इत्याकाङ्घानिवर्तकं यत्तद्भेदनिवेशत इति, तस्यैव हेतोः स्पष्टीकरणं-व्याप्यताबच्छेदकेऽप्रज्ञाप्यजीवद्रव्यादिभेदनिवेशादिति-तथा च किश्चिद्विशेषप्रदानेन सोचमानीता व्याप्तिः प्रकृते प्रायिकी
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy