SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २३२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । शब्दानां- शब्द-समभिरूढवम्भूताख्यानां त्रयाणां नयानाम, मते सः- प्रस्थकः, ब-कर्तृगतात् भावाद् नातिरिच्यते- न भिद्यते, ज्ञश्च कर्ता च झ-कर्तारौ, ज्ञ-कोंर्गतो ज्ञ कर्तृगतस्तस्मादिति समासः, प्रस्थकाकारजगतात् प्रस्थककर्तृगताद् वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं ते न सहन्ते, निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वायोगाद् बाह्यप्रस्थकस्याप्यनुपलम्भकाले असत्त्वेनोपयोगानतिरेकाश्रयणादन्ततो झानाऽद्वैतनयपर्यवसानाद् वा । न च ज्ञाना-ऽज्ञानात्मकत्वोभयनयविषयसमावेशविरोधात् प्रत्येकमन. यत्वमाशङ्कनीयम् , तादात्म्ये नोभयरूपासमावेशेऽपि विषयत्व-तादात्म्याभ्यां तदुमयसमावेशात् ; ' विषय. स्वमपि कथञ्चित्तादात्म्यम्' इति तु नयान्तराकृतम् , यदाश्रयेण " अर्था-ऽभिधान-प्रत्ययास्तुल्यनामघेयाः" इति प्राचीनैर्गीयत दिक् ।। ६६ ॥ शब्दनयत्रयमन्तव्योपदर्शकमुत्तरार्ध विवृणोति-शब्दानामिति- अस्य विवरणम् - शब्द-समभिरूढवम्भूताख्याना प्रयाणां नयानामिति, 'मते' इति पूरणम् , स इत्यस्य विवरणम्-प्रस्थक इति । नातिरिच्यते इत्यस्य विवरणम्-न भिद्यत इति । शकर्तृगतादित्यत्र समासः कीदृश इत्याकालायामाह-शश्च कर्ता च श-कारावितिअयमितरेतरयोगद्वन्द्वः, ज्ञ-कत्रोतो ज्ञकर्तृगत इति तत्पुरुषः, तथा च द्वन्द्वगर्भस्तत्पुरुषसमासोऽत्रेत्याशयः । एवं सति उत्तरार्द्धस्य यः पर्यवसितोऽर्थस्तमुपदर्शयति-प्रस्थकाकारक्षगतादिति। भावादित्यस्यार्थकथनम्-प्रस्थकोपयोगादिति। ते शब्द-समभिरूढेवम्भूतारूपास्त्रयः शब्दनयाः। न सहन्ते नाभ्युपमच्छन्ति । कथं न सहन्ते ? इत्याकासायामाह-निश्चयमानात्मकास्थकस्येति- इदं प्रस्थ कमितं धान्यमित्याकारकनिश्चयस्वरूपं यन्मानं तदात्मकस्य प्रस्थकस्ये. त्यर्थः । जडवृत्तित्वायोगात् पौद्गलिकत्वेन जडात्मको यो बाह्यप्रस्थकावयवीभूतः काष्ठखण्डस्तद्वृत्तित्वासम्भवात् । ननु निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वासम्भवेऽपि बाह्यप्रस्थकस्य जडवृत्तित्वमस्त्येवेति स एव ज्ञकर्तृगताद् भावादतिरिक्तः प्रस्थकोऽस्त्वित्यत आह-बाह्यपस्थकस्यापीति-यो यदैवोपलभ्यते स तदैवास्ति यदा च नोपलभ्यते तदा नास्त्येवेति नियमेन प्रमाणाभावादनुपलम्भकाले बाह्यप्रस्थकस्यासत्त्वेन यो येन सहैवोपलभ्यते स तदात्मक इति व्याख्या स्वोपयोगेन सहैवोपलभ्यमानस्य बाह्यप्रस्थकस्योपयोगाभेदाभ्युपगमात् प्रस्थकोपयोगादतिरिक्तः प्रस्थको न भवतीत्येवं शब्दनया अभ्युपगच्छन्तीत्यर्थः। ननु यो येन सहवोपलभ्यते स तदात्मक एवेति व्याप्तेफररीकारे घटादयोऽपि पदार्था ज्ञानेन सहैवोपलभ्यमाना ज्ञानात्मका एव प्रसज्येरनिति सर्व ज्ञानात्मकमित्यभ्युपगन्तुर्योगाचारस्य मते प्रवेशः शन्दनयानां स्यादित्यत्रेष्टापादनमेव समाधानमित्याशयेनाह- अन्तत इति-प्रकारान्तरेण प्रस्थकस्योपयोगात्मकत्वसाधनासम्भवत इत्यर्थः । ननु सहादयो नयाः प्रस्थकस्य ज्ञानानात्मकत्वं पूत्कुर्वन्ति, शब्दनयाश्च तस्य ज्ञानात्मकत्वं स्वीकुर्वन्ति, न चैकस्य वस्तुनो ज्ञानाज्ञानात्मकत्वोभयसम्भव इति वस्तुगत्या प्रस्थकस्य ज्ञानात्मकत्वे अज्ञानात्मकत्वग्राहिनयस्यानयत्वमज्ञानात्मकत्वे ज्ञानात्मकत्वग्राहिनयस्यानयत्वं प्रसज्यत इत्याशय प्रतिक्षिपति-न चेति- अस्य 'आशङ्कनीयम्' इत्यनेनान्वयः । यद्यज्ञानरूपत्वं प्रस्थकस्य तदा विषयत्वलक्षणसम्बन्धेन ज्ञानरूपस्य तादात्म्यलक्षणसम्बन्धेनाज्ञानरूपस्य तत्र समावेशः, यदि च ज्ञानरूपत्वमेव तस्य तदाऽपि वस्यैव खविषयत्वमिति तद्वादे स्वीकारेण विषयत्वलक्षणसम्बन्धेन तादात्म्यलक्षण. सम्बन्धेन च ज्ञानरूपस्य तद्वादे अज्ञानरूपं सर्व ज्ञाने समारोपितमिति आरोप्यस्याधिष्ठाने आध्यासिकतादात्म्यमेव सम्बन्ध इति तादात्म्यलक्षणस बन्धेनाज्ञानरूपस्य समावेश इति न प्रत्येकमनयत्वप्रसा इति निषेधहेतुमुपदर्शयति-तादात्म्येनेतिअनाध्यासिकतादात्म्यमात्रेणेत्यर्थः । उभयरूपेति- ज्ञानाज्ञानोभयरूपेत्यर्थ। विषयत्व-तादात्म्याभ्यामिति-प्रस्थकस्य जडात्मकत्वे ज्ञानस्य विपयत्वसम्बन्धेनाज्ञानस्य तादात्म्येनेत्येवमुभयरूपसमावेशस्य, प्रस्थकस्य ज्ञानात्मकत्वे स्वसंवेदनं ज्ञानमिति ज्ञानस्य विषयत्व-तादात्म्याभ्यामज्ञानस्य विषयत्वसम्बन्धाभावेऽप्याध्यासिकतादात्म्यं ज्ञाने समस्तीति तद्रूपतादात्म्यसम्बन्धेनेत्येवमुभयरूपसमावेशस्य च सम्भवादित्यर्थः । ननु सर्वस्य वस्तुनो ज्ञानात्मकत्वमिति योगाचारमताश्रयणेन प्रस्थकस्य ज्ञानात्मकत्वोपपादने तादात्म्यसम्बन्ध एवं केवलोऽवतिष्ठत इति कथं तत्र विषयत्वस्य सम्बन्धता, येन विषयत्व-तादात्म्याभ्यामुभयरूपसमावेशवचनमित्यत आह - विषयत्वमपीति । यदाश्रयेण नयान्तराभिप्रायाश्रयेण । तल्यनामधेया एकसंज्ञाभिधेयाः, प्रतिपाद्यानामा- भिधान-प्रत्ययानां भेदे तत्प्रतिपादकस्य शब्दस्यापि भेदः स्यात् , यदा
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy