SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । विवेचितः प्रदेशदृष्टान्तः प्रस्थकदृष्टान्तं विवेचयति प्रस्थकार्थमित्यादिना - प्रस्थकार्थं व्रजामीति, वने गच्छन् ब्रवीति यत् । आदिमो ह्युपचारोऽसौ नैगम-व्यवहारयोः ॥ ६२ ॥ नयामृत०-! - प्रस्थ कार्थमित्यादि । प्रस्थक :- मगधदेशप्रसिद्धो धान्यमान हेतुर्द्रव्यविशेषः, तदर्थ व्रजामीति वने गच्छन् यद् ब्रवीति कश्चित् असौ नैगम-व्यवहारयोः, हि-निश्चितम् आदिम उपचारः ॥ ६२ ॥ नन्वत्र प्रस्थकार्थं वने गच्छतः प्रस्थकेच्छाया मुख्यार्थस्याबाधितत्वात् कथं प्रस्थकपदस्योपचार इत्यत आह- २२५ अत्र प्रस्थकशब्देन, क्रियाविष्टवनैकधीः । प्रस्थकेऽहं व्रजामीति, ह्युपचारोऽपि च स्फुटः ॥ ६३ ॥ नयामृत० - अत्रेति । अत्र - अधिकृतप्रयोगे, केत्यधिकारणाकाङ्क्षायाः प्रस्थकार्थमिति चतुर्थी - प्रकृत्यर्थेनैव निवृत्तेः, प्रस्थ[क] दलयोग्य वृक्षप्राप्तिरूपक्रियाविष्टवनस्य, एका अद्वितीया धीरिति तत्रोपचार आवश्यक इत्यर्थः । ननु तथापि सप्तम्यन्तप्रश्ने सप्तम्यन्तमेवोत्तरमुचितमित्यत आह 'क्व भवान् गच्छति' इति प्रश्ने प्रस्थकेऽहं व्रजामीति, सप्तम्यन्तप्रस्थकपदस्योपचारोऽपि वने स्फुट एव दृश्यत इत्यर्थः, तथा च वनगमने प्रस्थकशब्देन वनाभिधानं नैगम-व्यवहारयोः प्रथम उपचार इति सिद्धम् ॥ ६३ ॥ छिन प्रस्थकं तक्ष्णोम्युत्किराम्युल्लिखामि च । करोमि चेति तदनुपचाराः शुद्धताभृतः ॥ ६४ ॥ द्वाषष्टितमपद्यमवतारयति - विवेचित इति । प्रस्थकदृष्टान्ते नैगमव्यवहाराभ्युपगमविशेषप्रतिपादकं द्वाषष्टितमपर्यं विद्रुणोति- प्रस्थकार्थमित्यादीति । तदर्थे धान्यमानहेतुद्रव्यविशेषार्थम् । असौ प्रस्थकार्थ व्रजामीति वचनम् । अन्यत् स्पष्टम् ॥ ६२ ॥ त्रिषष्टितमपद्यमवतारयति - नन्विति । अत्र प्रस्थकार्थं व्रजामीत्युक्तौ । मुख्यार्थस्य प्रस्थकार्थमित्यनेन शक्तया प्रतिपाद्यस्यार्थस्य । विवृणोति - अत्रेतीति । अत्रेति मूलस्य विवरणम् - अधिकृतप्रयोग इति - प्रस्थकार्थं व्रजामीति प्रयोगे इति तदर्थः, अत्र घटकत्वं सप्तम्यर्थः, तस्य ' प्रस्थकार्थम् ' इत्यत्रान्वयः । क्केत्यधिकरणाकाङ्गायाः क्व व्रजति भवानिति पृच्छता परेण स्वगताधिकरणाका लाऽऽविष्कृता तस्याः अस्य ' निवृत्तेः' इत्यनेनान्वयः, किं व्रजति भवानित्येवं व्रजनविषयका काङ्क्षाया अभावेन तनिवर्तनस्यानुद्देश्यत्वाद् व्रजामीत्यनेन नाधिकरणाकाङ्क्षाया निवृत्तिरिति प्रस्थकार्थमिति चतुर्थीप्रकृत्यर्थेनैवोक्ताकाङ्क्षाया निवृत्तेः, आकाङ्क्षाया निवृत्तिश्च स्वविषयनिर्णयात्मकस्वविषयसिद्धयैव सम्भवति नान्यथेति गमनाधिकरणविशेषप्रतिपत्तिरेव प्रस्थकार्थमित्यनेन जन्याऽभिमता सा च प्रतिपत्तिर्धान्यमान हेतु द्रव्यविशेषात्मक. प्रस्थकदल योग्य वृक्षप्राप्तिरूप क्रियाविष्टवनगोचरेति तादृशवनरूपार्थाधिकरणे प्रस्थकपदस्योपचार आवश्यक इत्याह- प्रस्थ क दलेति । उत्तरार्द्ध व्याख्यातुमवतारयति - नन्विति । तथाऽपि उपचारस्यावश्यकत्वेऽपि । सप्तम्यन्तप्रने व भवान् व्रजतीति प्रश्न । सप्तम्यन्तमेवोत्तरं प्रस्थकार्थमित्यस्य स्थाने ' प्रस्थके' इति सप्तम्यन्तप्रस्थकपदघटितमेवोत्तरवाक्यम् । आह- प्रस्थ केऽहमित्याद्युत्तरार्द्धमाह । उत्तरार्द्धार्थ स्पष्टयति- क्व भवानित्यादि । फलितमाह तथा चेति ॥६३॥ २९
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy