SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । नयामृत ० - आत्मत्वमिति । आत्मत्वमेव जीवपदप्रवृत्तिनिमित्तम्, पारिणामिकभावस्य कालत्रयानुगत्वेन सत्यत्वात्, औदयिकभावस्य चौपाधिकत्वेन कालत्रयाननुगतत्वेन च तुच्छत्वात्, इति अयं सर्वसङ्ग्रहनयः सिद्धसाधारण्यं भवस्थतौल्यं निरस्य जीवत्वसाघमे न प्रतिभूः, सर्वत्र तुल्यजीवत्वात् एवम् 'एको व्यवहारतो जीवोऽन्यश्च निश्चय [तः] ' इति विभागकरणमसमीक्षिताभिधानमेवापद्येत, सर्वसङ्ग्रह एव हि कर्मोपाधिनिरपेक्षशुद्धद्रव्यार्थिकः, तेन च संसारिचैतन्यमपि निरुपरागं शुद्धमिति परेणेष्यत एव तदुक्तं द्रव्यसङ्ग्रहे " मग्गण-गुणठाणे हि य चउदस य हवंति तह असुद्धगया । विष्णेया संसारी सब्वे सुद्धा उ सुद्धणया ॥ १३ ॥” इति न च संसारिचैतन्यस्य सङ्ग्रहनयेन शक्त्या शुद्धचैतन्यनिश्चयेऽपि व्यक्त्या शुद्धचैतन्यस्य सिद्ध. एव निश्चयान्न साधारण्यमिति शङ्कनीयम्, सङ्ग्रहस्य शक्तिग्राहकत्वेन व्यक्तिमाहकताया व्यवहार एव विश्रान्तेः, निश्चयतो द्विचेतनाशाली सिद्ध एव जीव इत्यस्य व्याघातात् ॥ ४९ ॥ २०९ एकोनपञ्चाशत्तमपद्यमवतारयति नन्विति । तेन पर्यायार्थिकनयेषु शुद्धनिश्चयात्मकेनैवम्भूतनयेन । अस्मदुक्तानुपपतावपि सिद्धो निश्चयतो जीवः' इति दिगम्बरोक्तस्यानुपपत्तावपि । तदुपपादयिष्यामः ' सिद्धो निश्चयतो जीवः' इति दिगम्बरोक्तमुपपादयिष्यामः, द्रव्यार्थिकेषु शुद्ध निश्चयात्मकेन सङ्ग्रहेण सिद्धो जीव इत्युपपद्यत एवेत्यर्थः । " आत्मत्वमेव " इत्ये कोनपञ्चाशत्तमपद्यं विवृणोति - आत्मत्वमितीति । 'जीवत्वम्' इति मूलस्य 'जीवपदप्रवृत्तिनिमित्तम्' इति विवरणम् । कथमात्मत्वमेव जीवपदप्रवृत्तिनिमित्तं न तु प्राणधारणलक्षणं जीवनं यज्जीवपदव्युत्पत्तिनिमित्तमित्यपेक्षायामाह - पारिणामिकभावस्येति - आत्मश्वं जीवस्य पारिणामिको भावस्तस्य कालत्रयेऽप्यात्मनि सत्वेन सत्यत्वात् प्रागधारणलक्षणं जीवनं च जीवस्यौदयिको भावस्तस्यायुष्कर्म लक्षणोपाधिप्रभवस्योपाधिकत्वेन यदेवायुकर्मात्मनि सम्बद्धं तदैव तस्यात्मनि सत्त्वमिति कालत्रयाननुगतत्वेन तुच्छत्वादित्यस्मात् कारणादात्मत्वमेव सत्यतया जीवपदप्रवृत्तिनिमित्तं तुच्छत्वाच्च न जीवनं जीवपद प्रवृत्तिनिमित्तमित्यभ्युपगन्ता सर्वसङ्ग्रहनयः सिद्धसाधारण्यं निरस्य जीवत्वे न प्रतिभूः । 'सिद्धसाधारण्यम्' इत्यस्य विवरणम् - भवस्थतौल्यमिति । 'जीवत्वे' इत्यस्य विवरणम्- 'जीवत्वसाधने' इति । प्रतिभूरित्यस्य साक्षीत्यर्थः । कथं न प्रतिभूरित्यपेक्षायामाह - सर्वत्रेति जीवपदप्रवृत्तिनिमित्तमात्मत्वं यथा सिद्धे वर्तते तथा भावस्थेऽपि तेन सिद्धे जीवत्वसाधने भवस्थेऽपि जीवत्वं सिद्धयत्येव, तथा च सिद्ध एव निश्चयतो जीव इति न स्यात्, आत्मत्वं यदि सिद्धं एव वर्तेत न तु भवस्थे तदा स्यात् तेन सिद्धमात्रवर्तिना सिद्धस्यैव जोवत्वसाधनं सर्वसम्प्रहतः, न चैवमित्यर्थः । आत्मस्वस्य जीवपदप्रवृत्तिनिमित्ततया सर्वसङ्ग्रहनयाभिमतस्य सिद्धे संसारिणि च सत्त्वेन ततो जीवपदव्यपदेश्यत्वमात्ममात्र एवेति निश्चयत एव सर्वे आत्मानो जीवा इति व्यवहारनिश्चयाभ्यां जीवविभागकरणनपि दिगम्बरस्यासमीक्षिताभिधानमेव स्यादित्याह - एवमिति । निश्चयनये यदि संसारिणां जीवपदव्यपदेश्यत्वं नोपपद्येत तदा व्यवहारतस्तेषां जीवपदव्यपदेश्यत्वोपपत्तये विभागकरणमुपपद्येत, न चैवम् दिगम्बराभिमतेन सर्वसङ्ग्रहलक्षणनिश्चयनयेनैव सर्वेषां जीवपदव्यपदेश्य त्वोपपत्तेरित्याह- सर्वसङ्ग्रह एव हीति । तेन च सर्वसङ्ग्रहेण च । निरुपरागं कर्मोपाधिरूपोपरागमुक्तम्, यद्यपि संसारी कर्म - मलदिग्व एव व्यवहारतः, तथापि शुद्धद्रव्यग्राहिसर्वसप्रहृतः सोऽपि वस्तुगत्या कर्मनलविमुक्त एवेत्याशयः । उक्तार्थे द्रव्यसङ्ग्रहवचनसंवादमाद्-तदुकमिति । मग्गण० इति - " मार्गणा-गुणस्थानैश्च चतुर्दशभिश्च भवन्ति तथा अशुद्धन यात् । विज्ञेयाः संसारिणः सर्वे शुद्धास्तु शुद्धनयात्" ।। इति संस्कृतम् । 'न च' इत्यस्य 'शङ्कनीयम्' इत्यनेनान्वयः, संसारिचैतन्यमपि संसारदशायां कर्मावृततयोपलभ्यत इति व्यक्तयाऽशुद्धं कर्ममलापगमे शुद्धं तद्भविष्यतीति शक्त्या सङ्ग्रहस्वरूपनिश्चयनयेन शुद्धचैतन्यत्वं निश्चीयते, सिद्धे तु व्यक्तया शुद्धचैतन्यस्य निश्चयाद् व्यक्तया शुद्धचैतन्यरूपत्वस्यात्मत्वस्य जीवपद प्रवृत्तिनिमित्तस्य न सिद्धसंसारिसाधारण्यमिति शङ्कितुर्दिगम्बरानुयायिनोऽभिसन्धिः । निषेध हेतुमुपदर्शयति-संग्रहस्येतिशक्तिरूपेण शुद्धं चैतन्यं सर्वदाऽवतिष्ठत इति शक्तिर्दव्यम्, व्यक्तिस्तु न त्रिकालानुगामिनीति पर्यायरूपाऽशुद्धद्रव्यरूपा वा २७
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy