SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । व्यवहारस्यापि ततो विशेषिततरार्थत्वप्रसङ्गदूषणानुद्धारः, सम्प्रदायाविरुद्धभङ्गविषयीभूतेनार्थेन विशेषिततरत्वस्यामिधित्सितत्वात्, सम्प्रदायश्चोत्तरोत्तरभङ्गप्रवृत्तावुत्तरोत्तरनयावलम्बनेनैव दृष्टो नान्यथेति न कश्चिद् दोष इति । वा अथवा लिङ्गभेदादेरर्थभेदाश्रयणादस्य शब्दनयस्य ऋजुसूत्राद् विशेष:, तथाहि( ' तटः, तटं, तटी' इत्यादी ) अन्यलिङ्गवृत्तेः शब्दस्यान्यलिङ्गभेदलक्षणेन, 'गुरुः, गुरवः' इत्यादौ च वचनभेदलक्षणेन वैधर्म्येणार्थभेदस्य स्पष्टमनुभवात् एवमन्यकारकयुक्तं यत् तदेवास्य मते अपरकारकसम्बन्धं नानुभवतीति अधिकरणवद् प्रामोऽधिकरणाभिधानविभक्तिवाच्य एव न कर्माभिधान विभक्त्यभिधेय, इति ' ग्राममधिशेते ' इति प्रयोगोऽनुपपन्नः, तथा पुरुषभेदेऽपि नैकं वस्त्विति ' एहि ! मन्ये रथेन यास्यसि, नहि यास्यसि, यातस्ते पिता ' इति च प्रयोगो न युक्तः, अपि तुहि । मन्यसे विषयप्रतिपादकः, चतुर्थभङ्गस्तु प्रथम- द्वितीयभङ्गसंयोजनत इति न तत्र शब्दनयप्रतिपादकतेति तं परित्यज्य तृतीया - दीनां भङ्गानां विशेषकत्वमिति विशेष कभङ्गनिर्धारक व वनोपपत्तिरिति । ननु ऋजुसूत्राभ्युपगत प्रथम भङ्ग प्रतिपाद्य सत्त्वविरुद्धासत्त्वप्रतिपादकद्वितीयभङ्गाभ्युपगन्तृत्वेन यथा शब्दस्य ऋजुसूत्राद् विशेषिततरत्वं तथोकंदिशा व्यवहारस्यापि ऋजुसूत्राद् विशेषिततरत्वं स्यादिति पूर्वमुपदर्शितं दूषणं तदवस्थमेवेत्याशङ्कय प्रतिक्षिपति न चैवमिति । 'पेक्षयाऽसत्ताग्राहिणः ' इत्यकार प्रश्लेषः । ततः ऋजुसूत्रात्। निषेधे हेतुमाह- सम्प्रदायेति यदा प्रथमभङ्ग ऋजुसूत्रनयावलम्बनेन तदा द्वितीयभङ्गस्तदुत्तरशब्दनयावलम्बनेनैव भवितुमईतीति सम्प्रदायः तेन यस्यां सप्तभक्त्यां प्रथमभङ्गः सङ्ग्रहनयावलम्बनेन तस्यामेव द्वितीयभङ्गो व्यवहारनयावलम्बनेन, न तु यस्यां सप्तभङ्गयां प्रथमभङ्ग ऋजुसूत्रनयावलम्बनेन, तस्यां द्वितीयभङ्गो व्यवहारनयावलम्बनेन, तथा च ऋजुसूत्रनयप्रवृत्त प्रथमभङ्गानन्तरं व्यवहारनयप्रवृत्तो द्वितीयभङ्गः सम्प्रदायविरुद्ध एव न तु सम्प्रदायाविरुद्ध इति न तद्विषयीभूतेनार्थेन विशेषिततरत्वम् सम्प्रदायश्चेदृश एव न त्वन्यादृश इति तु तथादर्शनादेव निर्णीयत इत्याह- सम्प्रदायश्चेति । पद्ये 'लिङ्गभेदादेवार्थभेदतः ' इति स्थाने ' लिङ्गभेदादेवऽर्थभेदतः ' इति पाठो युक्तः, तमवलम्ब्य प्रकारान्तरमृजुसूत्राच्छब्दस्य विशेषिततरत्वे उपदर्शयति- वेति- अस्यार्थः अथवेति । 'लिङ्गभेदादेः ' इत्यत्रादिपदाद् वचनभेद-कारक भेद-पुरुष भेदोपग्रहण मेदानां ग्रहणम् । 'अर्थभेदतः' इत्यस्य विवरणम् - अर्थभेदाश्रयणादिति, यदि वस्तुस्थित्या लिङ्गभेदादितोऽर्थभेदः स्यात् सर्वमतेऽविशेषेण स भवेत् एवं च सर्वाभ्युपगतेन तेन न कस्यचिदेव विशेषिततरत्वमतोऽर्थभेदाश्रयणादिति व्याख्यातम्, तथा च न वस्तुस्थित्य' लिङ्गभेदादितोऽर्थभेदः समस्ति, एवमपि शब्दनयस्ततस्तमाश्रयतीत्यतस्तेन तस्य विशेषिततरत्वमित्याशयः । क्रमेण लिङ्गभेदादितोऽर्थभेदं सोदाहरणं भावयति तथाही - त्यादिना । अन्येति अन्यलिङ्गवृत्तेः शब्दस्यान्यलिङ्गभेदलक्षणेन वैधर्म्येणार्थभेदस्य स्पष्टमनुभवादित्यन्वयः, अन्यलिङ्गवृत्तेः शब्दस्य - ' तट:' इत्यत्र पुंलिङ्गे वर्तमानस्य तटशब्दस्य, अन्यलिङ्गभेदलक्षणेन - खस्माद् भिन्नलिङ्गो यः ' तटम्' इत्यत्र तटशब्दस्तस्माद् यो भेदस्तद्रूपेण वैधर्म्येण, अर्थभेदस्य - ' तटम्' इति नपुंसकलिङ्गतटशब्दार्थात् ' तटः ' इति पुंलिङ्गशब्दार्थस्य यो भेदस्तस्य स्पष्टमनुभवादनुभूयमानत्वादित्यर्थः, 'गुरुः' इत्येकवचनान्त गुरुशब्दस्य गुरवः' इति बहुवचनान्त गुरुशब्दस्य यो वचनभेदस्तदात्मकन वैधम्र्येण ' गुरुः' इत्येकवचनान्तगुरुशब्दार्थाद् 'गुरवः' इति बहुवचनान्तगुरुशब्दार्थस्य यो भेदस्तस्य स्पष्टमनुभूयमानत्वादित्यर्थः इत्थं लिङ्गभेदाद् वचनभेदाचार्थभेदमुपदर्थ कारकभेदादर्थभेदं सोदाहरणमुपदर्शयति- एवमिति । अस्य मते शब्दनयस्य मते । 'अधिकरणवद् ग्राम' इत्यस्य स्थाने 'अधिकरणीभवग्राम' इति पाठो युक्तः । अधिकरणाभिधानविभक्तिवाच्य एव अधिकरणस्याभिधानं कथनं यत एतादृशी या सप्तम्याख्या विभक्तिस्तद्वाच्य एव तदभिधेय एव तथा च ग्रामस्याधिकरणत्वविवक्षायां 'प्रामे अधिशेते इति प्रयोग एव युक्तः । पुरुषभेदादर्थभेदमुपदर्शयति तथा पुरुषभेदेऽपीति । 'पछि मन्ये ' इत्यादेर्विस्तरतोऽर्थोपवर्णनं नयप्रदीपव्याख्याने कृतमस्माभिरिति विशेषजिज्ञासुभिरवलोकनीयं तत् । उपग्रहण भेदादर्थभेदमुपवर्णयति - एवमिति । अत्र ' उपग्रहणभेदोsपि अस्य स्थाने ' उपग्रहणभेदादर्थभेदेऽपि इति पाठो युक्तः, उप धातोः समीपे ग्रहण - मादानं यस्येति व्युत्पत्त्योपग्रहणमुपसर्ग एवेति । ननु 'तटः, तटी, तटम्' इत्यादौ ' गुरुः, गुरव:' इत्य दौ तथा कारकादिभेदेऽप्यर्थाभेद एव लोक-शास्त्रयोः प्रसिद्धः शब्दनये त्वित्थमुपगमे तद्विरोधः स्यादित्याशङ्कां प्रतिक्षिपति न चैवमिति । 1 १८०
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy