________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
र्थमपि परकीयमतीतमनागतं च, अभिधानमपि तथाविधार्थवाचकम् , ज्ञानमपि च तथाविधार्थविषयम्, अविचार्य सहेत ? इत्यस्याभिमानः, न चायं वृथाभिमानः, स्वदेश कालयोरेव सत्ताविश्रामात्, यथाकथश्चित्सम्बन्धस्य सत्ताव्यवहाराङ्गत्वेऽतिप्रसङ्गात्, न च देश-कालयोः सत्त्वं विहायान्यदतिरिक्तं सत्त्वमस्ति, ततो योग्यता प्रकृते स्यादसत्ताबोधोऽपि चात्र, तत्र खरशृङ्गादाविव सत्ताप्रतिक्षेऽपि विकल्पसिद्धेऽपि धर्मिणि निषेधप्रवृत्तेस्तत्र तत्र व्यवस्थापितत्वादिति दिक् ।। २९ ॥ अन्यमत्र विशेषमाह
इष्यतेऽनेन नैकत्रावस्थान्तरसमागमः ।
क्रियानिष्ठाभिदाधारद्रव्याभावाद्यथोच्यते ॥ ३० ॥ नयामृत-इष्यत इति । अनेन- ऋजुसूत्रनयेन, एकत्र- धर्मिणि, अवस्थान्तरसमागमःभिन्नावस्थावाचकपदार्थान्वयः, नेष्यते- न स्वीक्रियते, कुतः ? क्रिया- साध्यावस्था, निष्ठा च सिद्धावस्था, तयोर्या भिदा- भिन्नकालसम्बन्धः, तदाधारस्यैकद्रव्यस्याभावात् , अत्रार्थेऽभियुक्तसम्मतिमाह-यथोच्यते, अभियुक्तैः ॥३०॥
पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् ।
नासंयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति ॥ ३१ ॥ भिधानमपि कथमविचार्य सहेतेत्यन्वयः । तथाविधार्थविषयं परकीयातीतानागतार्थविषयकम् । इत्यस्याभिमानः एवंरूपोऽभिमान ऋजुसूत्रस्य । न चेति- अनन्तरदर्शितर्जुसूत्राभिमानो न च निरर्थक इत्यर्थः,। अत्र हेतुः- स्वदेशेतिपरकीयं धनं नान्यपुंसो देशे वर्तते, अतीता-ऽनागते च न व्यवहर्तृवर्तमानकाले वर्तेते, अतस्तेषां सत्त्वाभावाद् व्यवहारानङ्गत्वेन न तदभिधानज्ञानादिसम्भव इत्यभिसन्धिः। परकीयधना-जीता-ऽनागतादिभिः सममप्यभिधान-ज्ञानादीनां कश्चित् सम्बन्धो भविष्यति, तं सम्बन्धं समाश्रित्य तेषामपि व्ययहाराङ्गत्वं भविष्यतीति नासत्त्वं तेषामिति यद्युच्येत तर्हि सर्वस्यापि वस्तुनः परस्परं कश्चित् सम्बन्धः कल्पनोपरचितः स्यादेवेति शशादीनां शृङ्गादिभिः सममपि सम्बन्धस्य काल्पनिकस्य सम्भव दसतोऽपि सामान्यस्यार्थक्रियया समं सम्बन्धस्य कल्पयितुं शक्यत्वात् तेषामपि व्यवहाराङ्गत्वतः सत्त्वमनुषज्यतेत्याह- यथाकथश्चित्सम्बन्धस्येति । यदा च परकीयादीनां न खदेश-कालयोः सत्त्वं तदा तदतिरिक्तसत्त्वाभावादसत्त्वमेव तेषामित्याह-न चेति- अस्य 'अस्ति' इत्यनेनान्वयः, अन्यत् सत्त्वमस्तीत्येतावताऽपि वक्तव्यार्थपरिनिष्पत्तौ यदतिरिक्तमित्यधिकमुपन्यस्तं तेनेदं ज्ञापितं भवति- यदुत, देश-कालनिरूपितवृत्तित्वलक्षणसत्त्वतो भिन्नं खरूपसत्त्वं माऽस्तु, महासामान्यसत्त्वलक्षणं सत्त्वं तु भविष्यतीति कैश्चिदुच्येत तदपि नास्तीति, योग्यता' इत्यस्य स्थाने 'योग्यतया' इति पाठो युक्तः, ततः परकीयादीनामसत्त्वात् , योग्यतया असावस्य सम्भवेन । प्रकृते परकीयादौ । अत्र ऋजुसूत्रनये । ननु परकीयादीनामेतन्नयेऽभावाद् धर्मिभूतानां तेषामसिद्धौ कथं तत्र सत्त्वप्रतिषेध इत्यत आह-तत्रेति-परकीया ऽतीता-ऽनागतेष्पित्यर्थः। 'सत्ताप्रतिक्षेऽपि' इत्यस्य स्थाने 'सत्ताप्रतिक्षेपोऽपि' इति पाठो युक्तः, 'शशशृङ्गे सत्त्वं नास्ति' इत्येवं यथा शशशृङ्गे सत्त्वप्रतिक्षेपस्तथा 'परकीयादी सत्त्वं नास्ति' इत्येवं परकीयादावपि सत्त्वप्रतिक्षेपः सम्भवतीत्यर्थः। घामणः प्रमाणाद् विकल्पात् प्रमाण-विकल्पाभ्यां च सिद्धिरभिमता, तत्र शशशृझे विकल्पसिद्ध धर्मिणि यथा सत्त्वनिषेधप्रवृत्तिस्तथा परकीयादावपि विकल्पसिद्ध धर्मिणि सत्त्वनिषेधप्रवृत्तेस्तत्र सत्ताप्रतिक्षपो युक्ताभ्युपगम इत्याह-विकल्पसिदेऽपीति । 'तत्र तत्र' इति वीप्पया नैकस्मिन् ग्रन्थे एकेनैव ग्रन्थका विकल्पसिद्धे धर्मिणि निषेधप्रवृत्तिरुपवर्णिता येन क्वाचिकत्वान्न सर्वैरादरणीयत्वं किन्तु केनचिदेव तत्पक्षपातिना तस्य तत्त्वं स्यात् , अपि तु बहुभिः सूरिप्रवरैः श्रीदेवसरिप्रमुखै रत्नाकरादिग्रन्येऽस्यार्थस्य व्यवस्थापितत्वात् सबैरेवादरणीयत्वमित्यर्थः ॥ २९॥ त्रिंशत्तमपद्यमवतारयति- अन्यमिति । अत्र ऋजुसूत्रे । विवृणोति- इष्यते इतीति । तयोः साध्वावस्था-सिद्धावस्था.