SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। १४३ गृहाण; नन्वेवं शुद्धद्रव्यार्थिकपर्यायार्थिकयोरितरेतरविषयप्रतिक्षेपकत्वेन समुदितद्रव्यलक्षणाग्राहित्वेन मिथ्यादृष्टित्वमवान्तरतद्भेदानां च वैपरीत्येन सम्यगृहष्ठित्वं स्यादिति यथाश्रुतशुद्धाशुद्धविवेकानुपपत्तिरिति चेत् ? इदमित्यमेव जात्या शुद्धाशुद्धत्वैकान्तस्य वादिनैव प्रतिक्षिप्तत्वात् , यो नयोपयोगः स्वार्थे इतरनयार्थसंयोजनायां व्यापिपति तस्य तावत्याऽपेक्षया सम्यग्दृष्टित्वस्य, यथाश्रुतार्थप्रवाहप्रवृत्तस्य तथोपयोगवैकल्येन मिथ्यादृष्टित्वस्य च सम्प्रदायसिद्धत्वात् , तदुक्तम् " दव्वं पज्जवविउअं दव्वविजुत्ता य पजवा णत्थि । उप्पाय-ठुिइ-भंगा हंदि दविअलक्खणं एयं ॥ एए पुण संगहओ पाडिक्कमलक्खणं दुविण्डं पि । तम्हा मिच्छट्ठिी पत्तेयं दो वि मूलनया । ण य तइओ अत्थि णओ न य सम्मत्तं न तेसु पडिपन्नं । जेण दुवे एगन्ते विभजमाणा अणेगन्ते ।। जह एए तह अन्ने पत्तेयं दुन्नया नया सव्वे । हंदि हु मूलनयाणं पन्नवणे वावडा ते वि ।। सब्वणयसमूहम्मि वि णत्थि णओ उभयवायपण्णवओ। मूलनयाण उ आणं पत्तेयविसेसिअंबिंति ॥" [ सम्मतिप्रथमकाण्डे गाथाः-१२, १३, १४, १५, १६ ] त्ति ॥ विशेष इति पर्यायनयविषयः, तथा च तद्विषयको नयः पर्यायार्थिनयावान्तरभेदो द्रव्यनयविषयविषयकत्वादशुद्धपर्यायास्तिक एव भवेदिति पश्चिमस्यान्त्यस्य विकल्पस्य विशेषस्य निर्वचनतया निरूपणप्रवणत्वेन माध्यमिकर्दशनप्रर्वतकः शून्यवादिमतप्रवर्तक एवम्भूतनय एव शुद्ध पर्यायार्थिको भवेत् । न तु ऋजुसूत्रादय इत्यर्थः । भवत्येवमेवेत्यत आह-इष्यते चेतिअभ्युपगम्यते चेत्यर्थः । इयं व्यवस्था ऋजुसूत्रादीनामशेषाणामपि शुद्धपर्यायास्तिकनयावान्तरभेदत्वेन प्ररूपणारूपा व्यवस्था। सा तु तदेवोपपद्येत यदि ऋजुसूत्रादीनामपि शुद्ध पर्यायास्तिकत्वं भवेत् , शुद्धस्यैव हि शुद्धावान्तरभेदत्वं न त्वशुद्धस्येत्याशयः । समाधत्ते-क्षणिकेति-शुद्धपर्यायार्थिकपदस्य सामान्यानात्मकविशेषावगाहिनये निरूढा वृत्ति त्राश्रिता येन ऋजु. सूत्रादौ तत्प्रवृत्तिनैव भवेत् , किन्तु क्षणिकनिष्ठविषयताव्यापकपर्यायनिष्ठविषयताशालिनि नये आधुनिकसङ्केतित एव शुद्धपर्यायार्थिक शब्दः, तथा च ऋजुसूत्रादयः सर्वेऽपि नयाः क्षणिकमेव पर्यायमभ्युपयन्तीति ते क्षणिकनिष्टविषयताव्यापकपर्यायनिष्टविषयताशालिन इति शुद्धपर्यायार्थिकपदव्यपदेश्या भवन्तीति परिभाषाश्रयणाच्छुद्ध पर्यायार्थिकतयाऽवान्तरभेदा भवन्ति ऋजुसूत्रादयस्तेन निरुकव्यवस्था सूपपादेवेति, नन्वेवं परिभाषाश्रयणादृजुसूत्रादयः शुद्धपर्यायार्थिका अपि वस्तुस्थित्याऽशुद्धपर्यायार्थिका एव, किन्त्वेवम्भूतनय एव शुद्धपर्यायार्थिकः, एवं महासामान्यसत्तामात्रग्राही परसङ्ग्रह एव शुद्धद्रव्यार्थिकः, अपरसङ्कहनेगमादयस्त्वशुद्धद्रव्यार्थिका एव, एवं च शुद्धद्रव्यार्थिकः, पर्यायं नाभ्युपगच्छतीति तस्य ध्रौव्यमात्रग्राहित्वं नोत्पादव्ययग्राहित्वम् , शुद्धपर्यायार्थिकस्य त्वेवम्भूतस्य न द्रव्याभ्युपगमः किन्तु स पर्यायमात्रग्रहित्वादुत्पादव्ययोभयग्राह्येव न ध्रौव्यमाहीति ' गुणपर्यायवद् द्रव्यम्” (तत्त्वार्थसूत्रम्- ५-३७] इति यत् समुदितद्रव्यलक्षण तदाहित्वं द्रव्यप्रतिक्षेपकस्य शुद्धपर्यायार्थिकस्य नास्ति पर्यायप्रतिक्षेपिणः शुद्धद्रव्यार्थिकस्य च नास्तिीति तयोमिथ्यादृष्टित्वं स्यात् , तदवान्तरभेदास्तु द्रव्यमप्युपयन्ति पर्यायमपीति समुदितद्रव्यलक्षणग्राहिण इति तेषां सम्यग्दृष्टित्वं प्रसज्येतेत्यतो यथाश्रतशुद्धा-ऽशद्धविवेकोऽनुपपन्न इत्याशङ्कते- नन्वेवमिति । अवान्तरतद्भेदानां शुद्धद्रव्यार्थिशुद्धपर्यायार्थिकावान्तरभेदानाम् । वैपरीत्येन इतरेतरविषयाप्रतिक्षेपकत्वेन समुदितद्रव्यलक्षप.प्राहित्वेन । यथाश्रुतेति- स सम्यग्दृष्टिः स शुद्धनयः, यो मिथ्यादृष्टिः सोऽशुद्धनय इत्येवं यथाश्रतो यः शुद्धविवेकस्तस्यानुपपत्तिः, प्रत्युत यो मिथ्यादृष्टिः स शुद्धः, यश्च सम्यग्दृष्टिः सोऽशद्ध इत्येवायातम् । समाधत्ते- इदमित्थमेवेति- भवता शुद्धाशुद्धविवेकानुपपत्तिप्रदर्शनं रत् कृतं तत् तथैवेत्यर्थः । न चैवं स्वकपोलकल्पितत्वं श्रीसिद्धसेनदिवाकर सूरिसम्मतोऽयमर्थ इत्यावेदनायाह-जात्येति- विषयविनिमोकेण तत्तन्नयजात्यपेक्षयैव । तस्य नयोपयोगस्य । तावत्याऽपेक्षया स्वार्थे इतरनयार्थसंयोजनापेक्षया । यथाश्रतेति- केवलस्वस्वार्थमात्रा. वगाहनप्रवृत्तस्येत्यर्थः । तथोपयोगवैकल्येन स्वार्थे इतरनयार्थसयोजनोपयोगवैकल्येन । ___ उक्तार्थे सम्मतिगाथा पञ्चकं संवादकतयोपदर्शयति- तदुक्तमिति । दव्यं० इति- " द्रव्यं पर्यववियुक्तं द्रव्यवियुक्ताश्च पर्यवा न सन्ति । उत्पाद स्थितिभङ्गा हन्दि द्रव्यलक्षणमेतत् ॥ १ ॥ एते पुनः सङ्ग्रहतः प्रत्येकमलक्षणं द्वयोरपि । तस्मान्मिथ्यादृष्टी द्वावपि मूलनयौ ॥२॥ न च तृतीयोऽस्ति नयो न च सम्यक्त्वं न तयोः प्रतिपन्नम् । येन द्वावेकान्तौ
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy