________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
परित्यज्योभयपर्याप्तप्रकारतानिवेशेन हेतुत्वस्वीकारे तु 'पर्वतो लौहित्याभाववान्' इति ज्ञानकाले 'लोहितवह्निमान्' इति विशिष्टवैशिष्ट्य बुद्ध्यनापत्तिः, 'पर्वतो न लोहितः' इति ज्ञानस्य लौहित्यप्रकारकपर्वतविशेष्यकज्ञान एव प्रतिबन्धकत्वात् न च रक्तत्वावच्छिन्न विशेष्यताकरक्तप्रकारकस्य 'रक्तो रक्तः' इति स्मरणस्य प्रसङ्गस्तत्र तथा निर्णयस्य हेतुत्वादिति वाच्यम्, रक्तत्वावच्छिन्न विशेष्यतायास्तत्र रक्तत्व प्रका रतानिरूपितत्वेऽपि रक्तत्वावच्छिन्न विशेष्यतात्वेन तस्यास्तादृशप्रकारतानिरूपितत्वानभ्युपगमात् तेन रूपेण रक्तत्वप्रकारतानिरूपितरक्तत्वावच्छिन्न विशेष्यताशालिज्ञानस्यैव 'रक्तो रक्तः' इत्याकारकस्मृतिजनकत्वस्याभावेन 'दण्डो रक्त:' इति निर्णयजन्तावच्छेदको घर्मानाक! न्तत्वेनोक्तनिर्णयाभावे जायमाने तस्मिन् व्यभिचाराभावादिति समाधत्ते-नेति । तादृश निर्णयेति-स्वत्वनिष्ठ प्रकारता कदण्डत्वावच्छिन्नविशेष्यताकनिर्णयेत्यर्थः । उक्तस्थले 'दण्डरक्तवान्, इति बोधे । एवकारेण रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताया व्यवच्छेदः । ननु रक्तत्वदण्डत्वोभयपर्याप्तावच्छेदकताकप्रकारताकज्ञानत्वस्य रक्तत्वविशिष्टदण्डवैशिष्ट्या वग हिबुद्धित्वस्वरूपत्वं यदुपेयते तत्र रक्तत्व- दण्डत्वोभयवत्पर्याप्त प्रकारताक बुद्धित्वस्वरूपत्वमेव तस्य किमिति नोपेयत इत्यपेक्षायामाह - उभयधर्मावच्छिन्नप्रकारतामिति'उभयपर्याप्तप्रकारताम्' इति स्थाने 'उभयधर्मवत्पर्याप्तप्रकारताम्' इति पाठो युक्तः, तथा च स्तत्व - दण्डत्वो भयवत्पर्याप्तप्रकारताकबुद्धित्वावच्छिन्नं प्रति रक्तलप्रकारकनिश्चयः कारणमित्येवं कार्यकारणभावोऽभ्युपगतः स्यात्, तथा च सति वह वह्नित्वस्य सत्त्वेऽपि लौहित्याभावेन लौहित्या-वहित्वोभयवान् वह्निर्न भवतीति 'लोहितवहिमान्' इति ज्ञानं व्यधिकरणीभूतलौहित्यनिष्ठ|बच्छेदकतानिरूपितवहित्वावच्छिन्न वह्निनिष्ठप्रकारतानिरूपकमपि लौहित्य - वहित्वोभयवत्पर्याप्त प्रकारतानिरूपकं न भवतीति न 'लोहितो वह्निः' इत्याकारक लौहित्यलक्षणविशेषणतावच्छेदक प्रकार कवह्निविशेष्यकज्ञान कार्यमिति 'लोहितो वहिः' इति ज्ञानासत्त्वेऽपि 'लोहितवह्निमान्' इति ज्ञानमापद्येत, तदपि ज्ञानं लौहित्यस्य विशिष्टबुद्धयात्मकमिति तत्र विशेषणज्ञानविधया लौहित्यज्ञानमपेक्षितमिति तत् पर्वते लौहित्याभावज्ञानार्थं प्रतियोगिज्ञानतयाऽपेक्षितं समस्त्येवेत्याह- पर्वतो लौहित्याभाववान्' इति ज्ञानकाल इति - पर्वते यदि लौहित्यं स्यात् तर्हि सामानाधिकरण्यसम्बन्धेन तदेव वह विशेषणीभूय भासेतेत्यौपाधिकस्य लौहित्यस्य तत्र सम्भवे लौहित्य - वह्नित्वोभयवत्वमपि तत्र स्यादित्युभयधर्मवत्पर्याप्तप्रकारता सम्भाव्येतापि, न चैवमित्यावेदनायेत्थमुपन्यासः, 'विशिष्टवैशिष्ट्यबुद्धयनापत्तिः' इति स्थाने विशिष्टवैशिष्ट्य - बुद्धयापत्तिः' इति पाठो युक्तः, उभयधर्मावच्छिन्न प्रकाताक बुद्धित्वलक्षणविशिष्टवैशिष्ट्यबुद्धित्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वे तु व्यधिकरणधर्मस्यापि प्रकारतावच्छेदकत्वस्य स्वीकृतत्वेन 'लोहितवह्निनान्' इति ज्ञानस्य लौहित्यवहित्वोभयपर्याप्तावच्छेदकता कप्रकारत । कज्ञानत्ववत्तया कार्यतावच्छेदकधर्माक्रान्तत्वेन 'लोहितो वह्निः' इति ज्ञानलक्षणविशेषणतावच्छेदकप्रकारकनिर्णयरूपकारणाभावे नापत्तिसम्भव इत्याशयः । ननु 'लोहितवह्निमान्' इति ज्ञानस्य विशेषणतावच्छेदकप्रकारकनिश्चयकार्यत्वाभावेऽपि 'पर्वतो लौहित्याभाववान्' इति ज्ञानप्रतिबध्यतया न तज्ज्ञानरूपप्रतिबन्धककाले तदुत्पत्त्यापत्तिसम्भव इत्याह- 'पर्वतो न लोहितः' इति ज्ञानस्येति । 'ज्ञान एव' इत्येवकारेण 'लोहितवह्निमान्' इति ज्ञानस्य व्यवच्छेदः । ननु 'रक्तो दण्डः' इति ज्ञानं यथा रक्तत्वनिष्ठप्रकारतानिरूपकं तथा रक्तत्वावच्छिन्न विशेष्यतानिरूपकमपि, विशेष्यतायां प्रकारावच्छिन्नत्वस्य स्वीकारेण दण्डत्वावच्छिन्नविशेष्यताया अपि रक्तत्वावच्छिन्नत्वात् तथा च 'रक्तो दण्डः' इति ज्ञानं रक्तत्वनिष्ठप्रकारता निरूपितरक्तत्वावच्छिन्न विशेष्यताका नुभवरूपमिति तेन 'रक्तो रक्तः' इत्याकारकस्य रक्तत्वनिष्ठप्रकारतानिरूपितरक्तत्वावच्छिन्नविशेष्यता कस्मरणस्यापत्तिः स्यादित्याशङ्कय प्रतिक्षिपति - न चेति - अस्य 'वाच्यम्' इत्यनेनान्वयः । तत्र 'रक्तो रक्तः' इति स्मरणे । तथा निर्णयस्य रक्कत्वनिष्टप्रकार तानिरूपित र तत्वावच्छिन्नविशेष्यताक निर्णयरूपानुभवस्य कामं दण्डत्वावच्छिन्नविशेष्यता रक्तत्वरूपप्रकारावच्छिन्ना भवति, परन्तु दण्डत्वावच्छिन्नविशेष्यतात्वेन रक्तत्वनिष्टप्रकारतात्वेनैव निरूपयनिरूपकभावस्तत्रोपेयते, न तु रक्तत्वनिष्ठ प्रकारतात्वेन रक्तस्वावच्छिन्नविशेष्यतात्वेन निरूप्य - निरूपकभाव इति रक्तत्वनिष्ठप्रकारतानिरूपित रक्तत्वावच्छिन्न विशेष्यताकस्मरणं प्रति रक्तत्वनिष्ठ प्रकारतात्वावच्छिन्ननिरूपकतानिरूपितरक्कत्वावच्छिन्न विशेष्य तात्वावच्छिन्ननिरूप्य तावद्विशेष्यता कनिर्णयत्वेनैवोक्तनिर्णय रूपानुभवस्य कारणत्वमिति न 'रको दण्ड: ' इत्यनुभवाद् ‘रक्तो रक्त: ' इति स्मरणस्यापत्तिरिति निषेधहेतुमुपदर्शयति- रक्तत्वावच्छिन्नविशेष्यताया इतिरक्तत्वरूपप्रकारावच्छिन्नत्वेन रक्तत्वाच्छिन्नविशेष्यतात्मिकाया दण्डत्वावच्छिन्नविशेष्यताया इत्यर्थः । तत्र 'रक्तो दण्डः' इति
१२