SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ % 3D% 3D नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ८५ वैशिष्ट्यविषयतायां मानस्य दूरापास्तत्वात् , 'रक्तदण्डवान्' इत्यादिज्ञानेऽपि रक्तत्वादिप्रकारतानिरूपित. दण्डादिनिष्ठविशेष्यताया एवानुभावात् , रक्तादेर्दण्डादिविशेष्य इत्येव प्रतीतेः, तस्माद् विशिष्टवैशिष्ट्यविषयताकबुद्धित्वमेवानुमित्यादिजनकतावच्छेदकम् , ' विशेष्ये विशेषणम् ' इति बुद्धित्वं तु विशेषणतावच्छेदकसंशयकालीनज्ञानसाधारणमेवेत्यलं संशयप्रतिबन्धकत्वेन । विशिष्टपर्याप्तप्रकारकवाक्यबुद्धित्वं विशिष्टवैशिष्ट्यबुद्धित्वमित्यपि न युक्तम् , 'वहिव्याप्यन्धनवान्' इत्यादौ विशिष्टव्याप्तेरसिद्धत्वेन प्रकारत्वासंभवभिया परामर्शदीधितौ खण्डशो निरुक्तेरानर्थक्यापातात् । एतेन, वैशिष्ट्यं च वैज्ञानिकम् , तेन 'लोहितवह्निमान्' इत्यादौ न विशिष्टवैशिष्ट्य बोधानुपपत्तिरिति मथुरानाथायुक्तमपास्तम् , विशिष्टवैशिष्ट्यविषयता विशेषणतावच्छेदकसम्बन्धभेदेन भिन्नेति सर्वैः स्वीकारेण समवायादिघटिततदसम्भवस्य प्रमाणयति-रक्तादेरिति । 'दण्डादिविशेष्य' इति स्थाने 'दण्डादिर्विशेष्यः' इति पाठो युक्तः, रक्तत्वविशिष्टदण्डस्य पुरुषविशेषणत्वे दण्डद्वारा पुरुषोऽपि रक्तस्य विशेष्य इति पुरुषोऽपि रक्तादेविशेष्य इति सम्प्रत्ययः स्यात् , न चैवमित्यावे. दनायैवकारोपादानम् । तस्मादिति - यस्माद् विशेष्ये विशेषणमिति बुद्धिविषयताया अनुमितिप्रवृत्त्यादिजनकतावच्छेदकत्वाभ्युपगमे प्रमाणाभावाद् विशिष्टवैशिष्टयविषयताया असिद्धिप्रसङ्ग इत्येतस्माद् हेतोः । विशेष्ये विशेषणमिति रीत्या बोधश्च विशेषणतावच्छेदकप्रकारकसंशयकाले भवत्येवेति न तस्याः संशयप्रतिबध्यतावच्छेदकत्वमिति संशयकालीनज्ञानेऽपि विशेष्ये विशेषणमिति रीत्या विषयता समस्त्येवेत्याह-विशेष्ये विशेषणमिति बुद्धित्वं त्विति । विशिष्टवैशिष्टयबुद्धित्वस्य लक्षणान्तरं पराभिप्रेतमुत्प्रेक्ष्य दूषयति-विशिष्टपर्याप्तति-विशिष्टे पर्याप्ता या प्रकारता तन्निरूपिका या वाक्यजन्या बुद्धिस्तत्त्वं विशिष्टवैशिष्टयबुद्धित्वमित्यर्थः, अत्र वाक्यजन्यत्वं किमिति निवेशितमिति न विद्मः, प्रत्युत तन्निवेशे प्रमाणान्तरोपजातबुद्धेर्विशिष्टवैशिष्ट्यबुद्धित्वमेवापहस्तितं स्यादिति। अयुक्तत्वे हेतुमुपदर्शयति-वह्निव्याप्येन्धनेति । 'विशिष्टच्याप्तरसिद्धत्वेन' इत्युक्तिहेतुव्यापकसाध्यसामानाधिकरण्यलक्षणव्याप्तिमवलम्ब्य, अन्यथा साध्याभाववदवृत्तित्वलक्षणव्याप्तः प्रकृते वह्नयभाववदवृत्तित्वरूपतया तस्या अप्रसिद्ध्यभावात् , इन्धनसमानाधिकरणस्य वयभावस्य प्रतियोगित्वेन वह्वेस्तादृशाभावाप्रतियोगिवह्निसामानाधिकरण्यव्याप्तेरप्रसिद्धियुज्यत इति । खण्डशो निरुक्तेरिति- हेतुविषयतानिरूपिताधिकरणविषयतानिरूपितवृत्तित्वविषयतानिरूपितामावविषयतानिरूपितप्रतियोगित्वविषयतानिरूपिताभावविषयतानिरूपितसाध्यविषयतानिरूपिताधिकरणविषयतानिरूपितवृत्तित्वविषयतेत्येवं दिशा निर्वचनस्येत्यर्थः । आनर्थक्यापत्तेरिति-'वहिव्याप्यन्धनवान्' इतिवाक्यजबुद्धेविशिष्टवैशिष्टयबुद्धित्वस्योपपत्त्यर्थमेव तथा निर्वचनम्, परं तथा निर्वचनेऽपि विशिष्ट पर्याप्तप्रकारताकबुद्धित्वस्य विशिष्टाप्रसिद्धथा तत्र सङ्कटनं न स्यादेवेत्याशयः । 'एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः । एतेन खण्डशो निरुक्केरानर्थक्या. पातेन, इन्धनसमानाधिकरणाभावप्रतियोगिनि वह्नौ तादृशप्रायोगित्वाभावस्य स्वरूपसम्बन्धेन वैशिष्टयासम्भवेऽपि वैज्ञानिकसम्बन्धेन तद्वैशिष्टयस्य तत्र सम्भवेन विशिष्टव्याप्तेरसिद्धत्वाभावेन निरूप्यनिरूपकभावापन्नविषयताकज्ञानत्वेन व्याप्तिज्ञाननिर्वचनस्थानर्थक्यादित्याशयः । तेन वैशिष्टयस्य वैज्ञानिकस्याभ्युपगमेन । लोहिते ति- वह्नस्तेजस्स्वरूपस्य भास्वरशुक्लरूपवत्त्वेन लोहितत्वस्य रक्तरूपलक्षणस्य समवायरूपवैशिष्टस्याभावेऽपि स्वप्रकारकज्ञानविषयत्वलक्षणस्य लोहितत्वप्रतियोगिकवैज्ञानिक सम्बन्धस्य तत्र सत्त्वेन तेन सम्बन्धन लोहितत्वविशिष्ट ववैशिष्टयविषयता 'लोहितवह्निमान्' इत्यादौ सम्भवेन तादृशविषयलाको 'लोहितवह्निमान्' इत्याकारको विशिष्ट वैशिष्ट्यबोध उ पद्यत इति मथुरानाथोक्त्यर्थः। मथुरानाथोक्तापासने हेत्वन्तरमप्युपदर्शयति-विशिष्टेति-'लोहितवह्निमान्' इत्यादौ स्वरसतो लोहितत्वस्य रक्तरूपस्य वह्नौ समवायेन वैशिष्टयस्यैव भासमानत्वेन तस्यासम्भवादेव लोहितत्वविशिष्टवर्वैशिष्ट्य विषयता न संभवतीति तथाविधबोधस्य न विशिष्टवैशिष्ट्यबोधत्व. मित्याक्षेपस्य वैज्ञानिकसम्बन्धेन लोहितत्ववैशिष्ट्यस्य वहावुपदर्शनमात्रेग प्रतिविधानस्य कर्तुमशक्यत्वादित्यभिसन्धिः। तदसम्भवस्य विशिष्टवैशिष्टयविषयताऽसम्भवस्य । येन येन सम्बन्धेन विशेषणे यस्य यस्य विशेषणत्वेन विशेषणताव. च्छेदकत्वमभिमतं तत्तत्सम्बन्धनिरूपितो यो वैज्ञानिकसम्बन्धस्तत्तत्सम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावत्त्वलक्षणस्तेन सम्बन्धेन विशिष्टविशिष्टबुद्धित्वावच्छिन्नं प्रति तत्तत्सम्बन्धेन विशेष्यतावच्छेदकप्रकारकनिश्च यस्य कारणत्वमिति धर्मिणि मतुर्थे विशेषण वह्नौ समवायेन विशेषणतया विशेषगतावच्छेदकं यलोहितत्वं समवायन तत्प्रकारकनिश्चयेन निरुक्तवैज्ञानिकसम्बन्धेन लोहितत्वविशिष्टवह्निवैशिष्टयबोधस्य 'लोहितवह्निमान्' इत्याकारकस्योपपत्तिरित्येवं समाधानं कर्त
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy