SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ मलधारिश्रीराजशेखरसूरिविरचितः षड्दर्शनसमुच्चयः नत्वा निजगुरून् भक्त्या स्मृत्वा वाङ्मयदेवताम् । सर्वदर्शनवक्तव्यं वक्ति श्रीराजशेखरः ॥१॥ धर्मः प्रियः सर्वलोके तं ब्रूयुर्दर्शनानि षट् । तेषां लिङ्गे च वेषे च आचारे दैवते गुरौ ॥२॥ प्रमाणतत्त्वयोर्मुक्तौ तर्के भेदो निरीक्ष्यते । मुक्तिरष्टाङ्गयोगेनेत्येतत् साधारणं वचः ॥३॥ जैनं साङ्ख्यं जैमिनीयं यौगं वैशेषिकं तथा । सौगतं दर्शनान्येवं नास्तिकं तु न दर्शनम् ॥४॥ तत्र जैनमते लिङ्गं रजोहरणमादिमम् । मुखवस्त्रं च वेषश्च चोलपट्टादिकः स्मृतः ॥५॥ विस्तरस्त्वोघनिर्युक्ते यो वेषादिगोचरः । आचारः पञ्चसमितिगुप्तित्रितयलक्षणः ॥६॥ ईर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गसङ्घकाः । पञ्चाहुः समितीस्तिस्रो गुप्तिस्त्रियोगनिग्रहात् ॥७॥ तीर्थङ्कराश्चतुर्युक्ता विंशतिवृषभादयः । क्लिष्टाष्टकर्मनिर्मुक्ताः केवलज्ञानभास्कराः ॥८॥ महाव्रतधरो धीरः सर्वागमरहस्यवित् । क्रोधमानादिविजयी निर्ग्रन्थो गुरुरुच्यते ॥९॥ • ८५ .
SR No.022471
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2002
Total Pages146
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy