SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ रम् । अन्तेषु भवा अन्त्याः, स्वाश्रयविशेषकत्वाद् विशेषाः । गवादिषु अश्वादिभ्यः तुल्याकृतिक्रियावयवोपचयसंयोगविलक्षणोऽयं प्रत्ययव्यावृत्तिविशेषः ॥६५॥ समवायपदार्थव्यक्तिलक्षणमाह य इहायुतसिद्धानामाधाराधेयभूतभावानाम् । सम्बन्ध इह प्रत्ययहेतुः प्रोक्तः स समवायः ॥६६॥ (सो०) इह प्रस्तुतमते, अयुतसिद्धानामाधाराधेयभूतभावानामिह प्रत्ययहेतुर्यः सम्बन्धः स समवायः । यथेह तन्तुषु पट इत्यादेः प्रत्ययस्यासाधारणं कारणं समवायः । यद्वशात् स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्य तन्त्वाद्याधारे सम्बध्यते, यथा छिदिः क्रिया छेद्येनेति । अयुतसिद्धानामिति । परस्परपरिहारेण पृथगाश्रयानाश्रितानामाश्रयाश्रयिभाव इति । परस्परवैधयं तु विविक्तैरभ्यूह्यम्, षण्णामपि पदार्थानां स्वरूपकथनमात्राधिकृतत्वाद् ग्रन्थस्य नेह प्रतन्यत इति ॥६६॥ (अव०) इह प्रस्तुतमते अयुतसिद्धानां परस्परपरिहारेण पृथगाश्रयानाश्रितानाम् आधार्याधारभूतानामिह प्रत्ययहेतुः सम्बन्धो यः य समवायः । इह तन्तुषु पट इत्यादौ समवायः । स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्यं तन्वाद्याधारे सम्बध्यते यथा छिदिक्रिया छेद्येनेति । षण्णामपि पदार्थानां स्वरूपकथनमात्राधिकृतत्वात् ग्रन्थस्य नेह प्रतन्यते विस्तरः ॥६६॥ प्रमाणव्यक्तिमाह प्रमाणं च द्विधामीषां प्रत्यक्षं लैङ्गिकं तथा । वैशेषिकमतस्यैवं सक्षेपः परिकीर्तितः ॥६७॥ (सो०) यद्यप्यौलूक्यशासने व्योमशिवाचार्योक्तानि त्रीणि प्रमाणानि, तथापि श्रीधरमतापेक्षयात्रोभे एव निगदिते । अमीषां वैशेषिकाणां प्रमाणं द्विधा द्विप्रकारम् । चः पुनरर्थे । कथमित्याह प्रत्यक्षमेकं प्रमाणं, तथेति द्वितीयभेदपरामर्श, लैङ्गिकमनुमानम् । उपसंहरन्नाह—एवमिति । एवमिति • ६७ .
SR No.022471
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2002
Total Pages146
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy