SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सनातनजैन ग्रंथमालायांज्ञानार्थत्वात्सर्वे गत्यर्था ज्ञानार्थे वर्त्तते इति वचनात्सती विद्यमाना सा यस्मिन् तत्सत्सद्विद्यमानप्रमं प्रमेयमिति यावन कस्यचित्प्रमाणवादिनः प्रमेयमप्रसिद्धं । संवितमात्रप्रमाणवादिनः तदप्रसिद्धमिति न मंतव्यं तस्यापि संवित्स्वरूपे प्रमेयत्वप्रसिद्धेः स्वरूपस्य स्वतो गतिरिति स्वयमभिधानात्संदे॒त्या तदभिधाने परमार्थतः स्वरूपादिगतिविरोधात्संविदद्वैतसिद्धरयोगात् । यदि पुनरुत्पादादिस्वभावत्वं सत्वं तदा तत्सत्सत्साध्यमिति युक्तं विद्यमानोत्पादादिस्वभावत्वस्य सत्सत्त्वस्य केषांचिदप्रसिद्धत्वात् साध्यलक्षणसंप्रतिपत्तरित्येवं ये ब्रुवंते तेषां सत्सदित्युक्ते सत्सत्वस्य प्रसिद्धतया साध्यव्यवच्छेदसिद्धावपि साधनस्य धर्मिणो व्यवच्छेदः सिद्धयेत् तस्यापि प्रसिद्धत्वेन संमतत्वात् प्रसिद्धोधर्मीति वचनात् यदि पुनर्विदुषां साध्यसिद्ध्यर्थ धर्मिणो प्रयोज्यत्वात्तस्य साध्याविनाभावाभावादेव व्यवच्छेदसिद्धिरिति मतं तदा हेतुः केवलः कथं तेषां प्रयोज्यः स्यात् स्वेष्टसिड्यर्थ साध्यस्यानभिधाने तेन तस्याविनाभावाप्रसिद्धेः । प्रस्तावाद्गम्यमानेन साध्येनानुक्तेनापि हेतोरविनाभावस्तावद्विद्भिरवधार्यते इति चेत् न चैतत्परीक्षाक्षम प्रस्तावस्येष्टानिष्टयोरर्थयोरविशेषात्कतरस्मिन्नर्थे हेतुः प्रयुक्तोयमिति ज्ञातुमशक्तेः किमनित्यः शब्दो नित्यो वेत्युभयांशावलंविनि शंसये सति हेतुप्रयोगस्येष्टत्वात् “संदिग्धेऽर्थे हेतुवचनादिति" कैश्चित्स्वयमभिधानात् । अथ यदैकमुखएव प्रस्तावस्त्र्यात्मक जगत् कथमेतदिति कस्यचित्प्रश्ने तदा हेतुस्तत्रैवायमिति ज्ञातुं शक्यत्वात् प्रस्तावाद्गम्यमानेन साध्येन हेतोरविनाभावः सिद्ध्यत्येवेत्यपि न संगैतं पृष्टविपरीतार्थे हेतोर्वचनसद्भावदर्शनात् अत्र्यात्मकमिदं सर्वमिति स्वयमभीप्सतां तत्रैव हेतुप्रयोगोपपत्तेः यदि पुनस्तत्र प्रयुक्तस्य हेतोर्विरुद्धत्वनिश्चयात् तथा च त्र्यात्मकस्यैव सिद्धरत्र्यास्मैकत्वस्य साध्यत्वायोगात् न तेन हेतोरविनाभावसिद्धिरिति मतं तदा त्र्यात्मकत्वस्यापि कुतः साध्यत्वं, प्रसिद्धस्य साध्यत्वविरोधात्साधनवत् । कस्यचिद्धेतोरत्र्यात्मकत्वे साध्ये विरुद्धतामवबुद्ध्यमानस्य सामर्थ्यात् त्र्यात्मकत्वे साध्ये सम्यग्घेतुत्वनिर्णयघटनात् तत्त्र्यात्मकप्रसिद्धत्वोपपत्तेः यो ह्यनग्नौ साध्ये धूमवत्त्वस्य हेतोविरुद्धतामवबुध्यते स तस्याग्नौ साध्ये सम्यग्घेतुत्वमपि बुध्यत एव । न चैवं बुध्यमानस्य प्रतिपाद्यता घटते प्रतिपादकवत् ततो न तं प्रति हेतुः केवलः प्रयोक्तव्यः स्यात् । अथ यत्पृष्टं प्रतिपाद्येन तत्र हेतुयंदाचार्येण प्रयुज्यते तदा तस्य तेनाविनाभावावगतिर्भवत्येवेति मतं तदपि न समीचीनं साध्यनिर्देशस्यैव समागतेः प्रतिपाद्यकृतप्रश्नविशेषस्यान्यथा तत्रानुपपत्तेः उत्पादाद्यात्मकं सर्वं कुत एतदिति प्रश्ने प्रमेयत्वादिति हेतोर्वचनेऽपि संबंधात्साध्यनिर्देशप्रसिद्धेः एकनिर्देष्टुरिव भिन्ननिर्देष्टुरपि तस्य तेन संबंधाविशेषात् यथैव ह्येकस्य वक्तुः साध्यनिर्देशानंतरं साधनस्य निर्देशे तस्य तेनाविनाभावसंबंधसाध्यसिद्धेः साध्यव्याप्तसाधनोपदर्शनं स्फुटमवैसीयते तथा प्रतिपाद्येन' साध्यप्रश्नवचने कृते प्रतिपादकेन साधनाभिधानेऽपि भिन्नवक्तृनिर्दिष्टयोरपि साध्यसाधनयोरविनाभावाविरोधात् कथमन्यथैकवाक्यस्य नानावक्तृभिरुदीर्यमाणस्य संबधता सिद्धयेत् ततः सर्वेषां वादिनां अविगानेन सिद्धं संक्षेपतः साध्यसाधननिर्देशमात्रं न पुनः केवलं हेतुर्वचनं विदुषामपि तदयोगात् किंवत् सर्वेषां वादिनां अविगानेन संक्षेपतः साध्यसाधनदर्शनं प्रसिद्धमिति चेदुच्यते श्रीमदकलंकदेवस्य, प्रत्यक्षं विशदं ज्ञानं प्रमाणमित्यादिवत् । धर्मकीर्तेः प्रत्यक्ष कल्पनापोढमभ्रांतमित्यादिवत् । योगस्य सदकारणवन्नित्यमित्यादिवत्। सांख्यस्य चैतन्यं पुरुषस्य स्वरूपमित्यादिवत् सत्सत्सदिति पत्रवाक्यमनाकुलमेव संभावयामः स्वसाध्यार्थाविनाभाविसाधनस्याभिधानात् यथैव हि विशदज्ञानात्मकत्वमंतरेण प्रत्यक्षमनुपपन्नं ज्ञानात्मकत्वेन च विना प्रमाणत्वं केषांचित्परेषां कल्पनापोढाभ्रांताभ्यां विना प्रत्यक्षत्वं अन्येषां नित्यत्वादृते सदकारणवत्वमितरेषां पुरुषस्वरूपाभावे चैतन्यं तथोत्पादादित्रया १ पदार्थरूपे । २ अपरमार्थतः। ३ आदिशब्देन व्ययध्रौव्ययोग्रहणं । ४ क्षणिके प्रवर्त्तमान । ५ सौगताः। ६ व्यावृत्तिसिद्धौ सत्यां । ७ वादिप्रतिवादिनोः । ८ चेद्वौद्ध तवेति मतं वर्तते । ९ व्याप्तेरभावात् । १० अप्रतिपादने । ११ प्रतिपादन । १२ उत्पादव्ययध्रौव्यस्वरूपं । १३ वचो युक्तिमन्न । १४ चेद्बौद्ध तवेति मतं । १५ जगतः । १६ हेतोः १७ शिध्यता । १८ शिष्येण । १९ उक्तविपर्यये । २० प्रतिपादनानंतरं । २१ ज्ञायते निश्ची यते वा । २२ गामायनशुक्ला दंडेनेत्यादिकस्य । २३ सामर्थ्येन अविवादेन । २४ तद्भावहेतुभावौ हि दृष्टांते तदवेदिनः । ख्यान्त्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥ २५ बौद्धाचार्यस्य । २६ तदेव विवृणोति । २७ जनानां ।
SR No.022470
Book TitleAapt Pariksha Patra Pariksha Cha
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherSanatan Jain Granthmala
Publication Year1913
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy