________________
. मातपरीक्षा। तस्यानंत्यात्प्रपतॄणामाकाक्षाक्षयतोऽपि वा। न दोष इति चेदेवं समवायादिनापि किं ॥ ५६ ॥ गुणादिद्रव्ययोभिन्नद्रव्ययोश्च परस्परं । . विशेषणविशेष्यत्वसंबंधोऽस्तु निरंकुशः ॥ ५७ ॥ संयोगः समवायो वा तहिशेषोऽस्त्वनेकधा ।
स्वातंत्र्ये समवायस्य सर्वथैक्ये च दोषतः ॥ ५८ ॥ तस्य विशेषणविशेष्यभावस्यानंत्यात्समवायवदेकत्वानभ्युपगमात् नानवस्था दोषो यदि परैः कथ्यते प्रपतृणामाकांक्षाक्षयतोऽपि वा यत्र यस्य पतिपत्तुर्व्यवहारपरिसमाप्राकांक्षाक्षयः स्यात् तत्रापरविशेषणविशेष्यभावानन्वेषणादनवस्थानुपपत्तेः तदा समवायादिनापि परिकल्पितेन न किंचित्फलमुपलभामहे समवायिनारपि विशेषणविशेष्यभावस्यवाभ्युपगमनीयत्वात् संयोगिनोरपि विशेषणविशेष्यभावानतिक्रमात् । गुणद्रव्ययोः क्रियाद्रव्ययोः द्रव्यत्वद्रव्ययोः गुणत्वगुणयोः कर्मस्वकर्मणोः गुणत्वद्रव्ययोः कर्मत्वद्रव्ययोः विशेषद्रव्ययोश्च द्रव्ययोरिव विशेषणविशेष्यवस्य साक्षात्परंपरया वा प्रतीयमानस्य वाधकाभावात् । यथैव हि गुणिद्रव्यं क्रियावद्रव्यं द्रव्यववरव्यं विशेषवद्रव्यं गुणत्ववानगुणः कर्मत्ववत्कर्मेत्यत्र साक्षाद्विशेषणविशेष्यभावः प्रतिभासते दंडिकुंडलिवत् तथा परंपरया गुणत्ववद्रव्यमित्यत्र गुणस्य द्रव्यविशेषणत्वात् गुणत्वस्य च गुणविशेषणस्वान् विशेषणविशेष्यभावोऽपि तथा कर्मत्ववद्रव्यमित्यत्रापि कर्मत्वस्य कर्मविशेषणत्वात् कर्मणो द्रव्यविशेषणत्वात् विशेषणविशष्यभाव एव निरंकुशोऽस्तु:॥ ननु च दंडपुरुषादीनामवयवा वयव्यादीनां च संयोगः समवायश्च विशेषणविशेष्यभावहेतुः संप्रतीयत तस्य तद्भाव एवभावादिति न मंतव्यं । तदभावेऽपि विशेषणविशेष्यभावस्य सद्भावात् धर्मधर्मवत् भावाभाववद्वा । नहि धर्म धर्मिणोः संयोगः तस्य द्रव्यनिष्ठत्वात् । नापि समवायः परैरिष्यते । समवायतदस्तित्वयोः समवायांतरप्रसंगात् ॥ तथा न भावाभावयोः संयोगः समवाया वा परैष्टिः सिद्धांतविरोधात् तयो विशेषणंविशेष्यभावस्तु तैरिष्टो दुष्टश्चति न संयोगसमवायाभ्यां विशेषणविशेष्यभावा व्यतः, तेन तयो व्याप्तत्वसिद्धिः न हि विशेषणविशेष्यभावस्य भावे कयाश्चित्मयांगः समवायो वा व्यवतिष्ठसे ॥ कचिद्विशेषणविशेष्यभावाविवक्षायां तु संयोगममवायव्यवहारो न विशषणविशध्यभावस्या ध्यापकत्वं व्यवस्थापयितुमलं । सतोऽप्यनार्थत्वादेर्विवक्ष नुपपत्तापकत्वप्रसिद्धः । ततःसयोगः समवायोवा अन्योवाऽविनाभावादिः संवंधस्तस्यैव विशेषणविशेष्यभावस्य विशेषास्तु ॥ ननु च समवायस्य स्वतंत्रत्वादेकत्वाच्च कथमसौ तद्विशष: स्थाप्यत इतिचन्न समवायस्य स्वतंत्रत्वे सर्वथैकत्त्रे च दोष सद्भावात् ।। तथाहि--
- स्वतंत्रस्य कथं तावदाश्रितत्वं स्वयं मतं ।
तस्याश्रितत्वे वचने स्वातंत्र्यं प्रतिहन्यते ॥ ५९॥ समवायिषु सत्स्वेव समवायस्य वेदनात् । आश्रितत्वे दिगादीनां मूर्तद्रव्याश्रितिनं किं ॥ ६॥ कथं चानाश्रितः सिध्येत्संबंधः सर्वथा कचित् । खसंबधिषु येनातः संभवेनियतस्थितिः॥६॥