SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आप्तपरीक्षा। न मननीयं । घटायेकद्रव्यसमवायिनां रूपरसादीनामयुतसिद्धानामेव परस्परं समवायाभावादेकार्थनमवायन संबंधेन व्यभिचारात् । नायं युतसिद्धानामपि संभवति विषयविषयिभाववद्वाच्यवाचकभावबद्वा ततोऽयुतसिद्धानामेवेत्यवधारणऽपि व्यभिचारनिवृत्यर्थमाधार्याधारभूतानामिति वचनं । तथाऽऽधार्याधारभूतानामवेति बचनेऽप्याधाराधेयभावेन संयोगविशेषेण सर्वथाऽनाधार्याधारभूतानामसं. भवताव्याभचारः संभाव्यत एव तन्निवृत्यर्थमयुतसिद्धानामेवेति वचनमर्थवदेवेति निरवद्यमयुतसि. द्वत्वाधार्याधारभूतत्वलक्षणं संयोगादिभ्योव्यवच्छेदक संबंधस्येहेदं प्रत्ययलिंगेन व्यवस्थापितस्य समबायस्वभावत्वं साधयत्येव । अतः संबंधमात्रेऽपि साध्ये न सिद्धसाधनमिति वैशेषिका: संचक्षते तेषामयुतसिद्धानामिति बचनं तावाद्विचार्यते । किमिदमयुतसिद्धत्वं नामविशेषणं, वैशेषिकशामापेक्षया लोकापेक्षया वा स्यात् ॥ उभयथापि न साध्वित्याह ॥ सत्यामयुतसिद्धौ चेन्नेदं साधुविशेषणं । शास्त्रीयायुतसिद्धत्वविरहात्समवायिनोः ॥४२॥ द्रव्यं स्वावयवाधारं गुणो द्रव्यश्रयो यतः लौकिक्ययुतसिद्धिस्तु भवेद्दुग्धांभसोरपि ॥४३॥ इह तंतुषु पट इत्यादिरिहदं प्रत्ययः समवायसंबंधनिबंधन एव, निर्बाधत्वे सत्ययुतसिद्धेहेदप्रत्ययत्वात् । यस्तु न समवायसंबंधनिबंधनः स नैवं यथेहसमवायिषु समवाय इति वाध्यमानेहेदं प्रत्ययः। इह कुंडे दधीति युतसिद्धहदं प्रत्ययश्च । निर्बाधत्वेसत्ययुतसिद्धेहेदं प्रत्ययश्चायमिहतंतुषु पट इत्यादिः, तस्मा. स्समवायसंबंधनिबंधन इति केवलव्यतिरेकी हेतुरासिद्धत्वादिदोषरहितत्वात् स्वसाध्याविनाभावी समवायसबंधं साधयतीति परैरभिधीयते सत्यामयुतसिद्धाविति वचनसामर्थ्यात । तत्रेदमयुतसिद्धत्वं यदि शास्त्रीयं हेतोर्विशेषणं तदा न साधु प्रतिभासते समवायिनोरवयवावयविनोगुणगुणिनोः क्रिया क्रियावतोः सामान्यतद्वतोर्विशेषतद्वतोश्च शास्त्रीयस्यायुतसिद्धत्वस्य विरहात् वैशषिकशास्त्रं हि प्रसिद्धम्'अपृथगाश्रयवृत्तित्वमयुतसिद्धत्वं'। तञ्चह नास्त्येव यतःकारणाहव्यं तंतुलक्षणं स्वावयवांशषु वर्तते कार्यद्रव्य चपटलक्षणं स्वावयवेषु तंतुषु वर्तत इति स्वावयवाधारामित्यनेनावयवावयविनोः पृथगाश्रयवृत्तिवसिद्धर पृथगाश्रयवृत्तित्वमसदेवेति प्रतिपादितं यतश्च गुणः कार्यद्रव्याश्रयो रूपादि । कार्यद्रव्यं तु स्वावयवाधार प्रतीयते तेन गुणगुणिनोरपृथगाश्रयवृत्तित्वमसंभाव्यमानं निवेदितं । एतेन क्रियायाः कार्यद्रव्यवर्तनारकार्य द्रव्यस्य च स्वाववयवेषु, क्रियाक्रियावतोरपृथगाश्रयवृत्तित्वाभावः कथितः । तथा सामान्यस्य द्रव्यत्वादेद्रव्यादिषु वृत्तद्रव्यादीनां च स्वाश्रयेषु, सामान्यतद्वतोः पृथगाश्रयवृत्तित्त्वं ख्यापितं तथैवापरविशेषस्य कार्यद्रव्यषु प्रवृत्तः कार्यद्रव्याणां च स्वावयवेषु विशेषतद्वतोरपृथगाश्रयवृत्तित्वं निरस्त वेदितव्यं । ततो न शास्त्रीयायुतसिद्धिःसमवायिनोरस्ति या तु लौकिकी लोकप्रसिद्धैकभाजनवृत्तिः सा दुग्धांभसारपि युतसिद्धयोरस्तीति तयापि नायुतसिद्धस्वं सत्या समकायिनोः साधीय इति प्रतिपत्तव्यं । पृथगाश्रयवृत्तित्वं युतसिद्धिर्नचानयोः। सास्तीशस्य विभुत्वेन परद्रव्याश्रितिच्युतेः ॥४॥ ज्ञानस्यापीश्वरादन्यद्रव्यवृत्तित्वहानितः । इति येऽपि समादध्युस्तांश्च पर्यनुयुंज्महे ॥४५॥ विभुद्रव्यविशेषाणामन्याश्रयविवेकतः। युतसिद्धिः कथं तु स्यादेकद्रव्यगुणादिषु ॥४६॥
SR No.022470
Book TitleAapt Pariksha Patra Pariksha Cha
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherSanatan Jain Granthmala
Publication Year1913
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy