________________
३८
सनातनजैनग्रंथमालायांथंप्रकाशकानां सर्वेषां निरवशेषाणां कार्यस्य सिद्धिनिष्पत्तिः व्यवहारसिद्धिर्भवेदित्यर्थः । कस्मात्प्रमाणाभासनिवात् प्रमाणस्याभासो मिथ्यात्वं तस्य निहवो निराकरणं तस्मात् । एतदपि कुतः? अंतस्तत्त्वे सति वहिरर्थस्य सिद्धिरसिद्धिश्च नान्यथा ॥ ८१ ॥
उभयेकांतप्रतिक्षेपायाह--
अष्टशती-यत्किंचिच्चेतस्तत्सर्वं साक्षात्परंपरया वा बहिरर्थप्रतिबद्धं यथाग्निप्रत्यक्षेतरसंवेदनं । तथा स्वप्नदर्शनमपि, चेतस्तथाविषयाकारनिर्भासात् । साध्यदृष्टांती पूर्ववदित्यत्रापि लोकसमयप्रतिबद्धानां परस्परविरुद्धशब्दबुद्धीनां स्वार्थसंबंधः परमार्थतः प्रसज्येत ।। ८१ ॥
विरोधात्रोभयकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकांतेऽप्युक्तिनाच्यमिति युज्यते ।। ८१ ॥ वृत्तिः -पूर्ववत् ॥ भाव एव तत्त्वं नाभाव इति यस्य मतं तन्निराकरणायाह-- अष्टशती-अंतर्वहिङ्गेयकांतयोः सहाभ्युपगमो विरुद्धः तद्वाच्यतायां युक्तिविरोधः पूर्ववत् ॥ २ ॥
भावप्रमेयापेक्षायां प्रमाणाभासनिहवः ।
बहिःप्रमेयापेक्षायां प्रमाणं तनिभं च ते ॥८३॥ वृत्तिः-भावो ज्ञानं तदेव प्रमेयं तस्य तस्मिन्वाऽपेक्षाऽभ्युपगमस्तस्यामभ्युपगम्यमानायां । प्रमाणाभासस्य निवो लोपः । कुतः ? ज्ञानस्य तदेतत्प्रामाण्यमप्रामाण्यं च बाह्यार्थापेक्षायां भवति नान्यथा इति । - एतच्च मतं सर्वे वचो विवक्षामात्रसूचकमित्यस्य निराकरणायाह
अष्टशती-सर्वसांवत्तेः स्वसंवेदनस्य कथंचित्प्रमाणत्वोपपत्तेः तदपेक्षायां सर्व प्रत्यक्षं न कश्चित्प्रमाणाभासः । तथानभ्युपगमेऽन्यतम एव बुद्धेनुमानं स्यात् । तत्रार्थज्ञानमलिंगं तदविशेषणासिद्धेविशेषे वा तदन्यतरेणार्थपरिसमाप्तेः किं द्वितीयेन । यच्चेदमर्थज्ञानं तच्चेदर्थस्वलक्षणं स्याद् व्यभिचारात् अहेतुः, एतेनेंद्रियादि प्रत्युक्तं । प्रत्यक्षतरबुद्ध्यवभासस्य स्वसंवेदनात्प्रत्यक्षविरुद्धं । सुखदुःखादिबुद्धरप्रत्यक्षत्वे हर्षविषादादयोऽपि न स्युरात्मांतरवत् । एतेन प्रतिक्षणं निरंशं संवेदनं प्रत्यक्षं प्रत्युक्तं. यथाप्रतिज्ञमनुभवाभावात्। यथानुभवमनभ्युपगमात् सर्वत्र सर्वदा भांतेरप्रत्यक्षत्वाविशेषात् कथंचिद्भांती एकांतहानेर्बिकल्पसंवंदनेऽपि विकल्पानतिवृत्तेः । तस्मात्स्वसंवेदनापेक्षया न किंचिद् ज्ञानं सर्वथा प्रमाणं । बहिरर्थापेक्षया तु प्रमाण तदाभासव्यवस्था तत्संवादकविसंवादकत्वात् क्वचित्स्वरूपे केशमशकादिज्ञानवत् ॥ ८३ ॥
जीवशब्दः सबाह्यार्थः संज्ञात्वाद्धेतुशब्दवत ।
मायादिभ्रांतिसंज्ञाश्च मायायैः स्वैः प्रमेक्तिवत् ॥ ८४॥ वतिः-जविस्य शब्दः संज्ञा देशामर्शकत्वाद्धटादिसंज्ञाः परिगृह्यते । सह बाहनोर्थन वर्तत इति सबाह्यार्थः । कुतः ? संज्ञात्वात्सनामत्वाद्धेतुशब्दवत् । शन्दस्यार्थ स्त्रधा बहिरर्थो घटाद्याकारः स्वार्थो वा । तथा चक्तिम्-स्वार्थमभिधाय काऽप्यन्यत्र वर्तत इति । यद्येवं भ्रांतिसंज्ञा यास्ताः कथं ? ता अपि स्वैरात्मस्वरूपैरथैर्मायाद्यैर्माया स्वप्नेन्द्रजालादिः । भ्रांतिसंज्ञाः स्वार्थवत्यः प्रमाया उक्तियथा, प्रमाणशब्दः प्रमाणाभास शब्दश्च यथा स्वार्थप्रतिपादकः । अथवा सम्यक् ज्ञायतेऽनयेति संज्ञा तस्या भावः संज्ञात्वम् । तस्माहे शामर्शकत्वादन्येषामपि ग्रहणं प्रमाणतनिबन्धनविचाराभ्यासदानफलादीनाम् । एतेषामन्यथाऽनुपपत्ते कादि शब्दः सबाह्यार्थः । अन्यथा एतेषामभावः स्यात् ॥ ८४ ॥