________________
प्रमाणमीमांसाः कर्तृस्था प्रमाणम् ॥३६॥ तस्यां सत्यामर्थप्रकाशसिद्धेः ॥३७॥ अज्ञाननिवृत्तिर्वा ॥३८॥ अवग्रहादीनां वा क्रमोपजनधर्माणां पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं फलम् ॥३९॥ हानादिबुद्धयो वा ॥४०॥ प्रमाणाद्भिनाभिन्नम् ॥४१॥ स्वपराभासी परिणाम्यात्मा प्रमाता ॥४२॥
प्रथमस्याध्यायस्य द्वितीयमाह्निकम् अविशदः परोक्षम् ॥१॥ स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः ॥२॥ वासनोद्बोधहेतुका तदित्याकारा स्मृतिः ॥३॥ दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥४॥ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानम् ऊहः ॥५॥ व्याप्तिापकस्य व्याप्ये सति भाव एव व्याप्यस्य वा तत्रैव भावः ॥६॥ साधनात् साध्यविज्ञानम् अनुमानम् ॥७॥ तत् द्विधा स्वार्थं परार्थं च ॥८॥ स्वार्थं स्वनिश्चितसाध्याविनाभावैकलक्षणात् साधनात् साध्यज्ञानम् ॥९॥ सहक्रमभाविनोः सहक्रमभावनियमोऽविनाभावः ॥१०॥ ऊहात् तन्निश्चयः ॥११॥