________________
पू. आ. श्रीहेमचन्द्रसूरीश्वरजीविरचिता
प्रमाणमीमांसाः
प्रथमस्याध्यायस्य प्रथममाह्निकम्
अथ प्रमाणमीमांसा ॥१॥ सम्यगर्थनिर्णयः प्रमाणम् ॥२॥ स्वनिर्णयः सन्नप्यलक्षणम्, अप्रमाणेऽपि भावात् ॥३॥ ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि नाप्रामाण्यम् ॥४॥ अनुभयत्रोभयकोटिस्पर्शी प्रत्ययः संशयः ॥५॥ विशेषानुल्लेख्यनध्यवसायः ॥६॥ अतस्मिंस्तदेवेति विपर्ययः ॥७॥ प्रामाण्यनिश्चयः स्वतः परतो वा ॥८॥ प्रमाणं द्विधा ॥९॥ प्रत्यक्षं परोक्षं च ॥१०॥ व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षतरप्रमाणसिद्धिः ॥११॥ भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः ॥१२॥ विशदः प्रत्यक्षम् ॥१३॥ प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा वैशद्यम् ॥१४॥ तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्यं केवलम् ॥१५॥