SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ जैनदर्शनप्रवेशकः यन्निवृत्तावेव कार्यस्य समुत्पत्तिः, सोऽस्य प्रागभावः ॥५९।। यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः ॥६०॥ यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः, सोऽस्य प्रध्वंसाभावः ॥६॥ यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् ॥६२॥ स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः ॥६३॥ यथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः ॥६४॥ कालत्रयाऽपेक्षिणी हि तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः ॥६५॥ यथा चेतनाचेतनयोः ॥६६॥ उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिविरुद्धोपलब्धिश्च ॥६॥ तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥६८॥ साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणामुपलब्धिः ॥६९॥ तमस्विन्यामास्वाद्यमानादाम्रादिफलरसादेकसामग्र्यनुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यं च ॥७०॥ पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ, तयोः कालव्यवहितावनुपलम्भात् ॥७१॥ न चातिक्रान्तानागतयोर्जाग्रदशासंवेदनमरणयोः प्रबोधोत्पतौ प्रति कारणत्वं, व्यवहितत्वेन निर्व्यापारत्वात् ॥७२॥ स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था, कुलालस्येव कलशं प्रति ॥७३॥
SR No.022469
Book TitleJain Darshan Praveshak
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2009
Total Pages80
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy