SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीवादिदेवसूरिकृतः प्रमाणनयतत्त्वालोकः प्रथमः परिच्छेदः प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥१॥ स्वपरव्यवसायि ज्ञानं प्रमाणम् ॥२॥ अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमं हि प्रमाणम्, अतो ज्ञानमेवेदम् ॥३॥ न वै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम्, तस्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः ॥४॥ न खल्वस्य स्वनिर्णीतौ करणत्वम् स्तम्भादेरिवाचेतनत्वात् ॥५॥ नाप्यर्थनिश्चितौ, स्वनिश्चितावकरणस्य कुम्भादेवि तत्राप्यकरणत्वात् ॥६॥ तद् व्यवसायस्वभावम्, समारोपपरिपन्थित्वात् प्रमाणत्वाद् वा ॥७॥ अतस्मिंस्तदध्यवसायः समारोपः ॥८॥ स विपर्ययसंशयानध्यवसायभेदात् त्रेधा ॥९॥ विपरीतैककोटिनिष्टङ्कन विपर्ययः ॥१०॥ यथा शुक्तिकायामिदं रजतमिति ॥११॥ साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्श ज्ञानं संशयः ॥१२॥
SR No.022469
Book TitleJain Darshan Praveshak
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2009
Total Pages80
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy