SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रयं च वैधा, स्वात्मनि परत्र च ॥ १ . ० ॥ अयमिति तत्त्वनिर्णिनीषुः कश्चित्खलु संदेहाद्युपहतचेतोवृत्तिः स्वात्मनि तत्वं निर्णेतुमिच्छत्यपरस्तु परानुग्रहिकतया परत्र तथेति द्वेधाऽसौ तत्वनिर्णिनीषुः, सर्वोऽपि च धात्वर्थः करोत्यर्थेन व्याप्त इति स्वात्मनि परत्र च तत्वनिर्णयं चिकीर्षरित्यर्थः । तदिदमिह रहस्यम् । परोपकारैकपरायणस्य कस्यचिद्वादिवृन्दारकस्य परत्र तत्त्वनिर्णिनीपोरानुषङ्गिक फलं जयो, मुख्यं तु परतत्त्वावबोधनम् । जिगीषोस्तु विपर्यय इति । प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ॥१०१॥ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म ॥ १०२॥ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभातान्तिमाध्यस्थ्यैरुभयाभिमताः सभ्याः ॥ १०३ ।। वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाग्रवादोत्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथावसरं तत्त्वप्रकाशनेन कथाविवरणं यथासंभवं समायां कथाफलकथनं चैषां कर्माणि ।
SR No.022468
Book TitleSyadwad Bhasha
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Grnathmala
Publication Year1982
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy