SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४६ रागादिभिः सहात्यन्तिको वियोगोऽसंभवी प्रमाणवाधनात् । प्रमाणं चेदं, यदनादिमत् न तद्विनाशमाविशति यथाकाशम् , अनादिमन्तश्च रागादय इति । उच्यते । यद्यपि रागादयो दोषा जन्तोरनादिमन्तस्तथापि कस्यचिद्यथावस्थितस्त्रीशरीरादिवस्तुतत्वावगमेन तेषां रागादीनां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते ततः संभाव्यते विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षतो निमूलमपि क्षयः, निमूलक्षयानभ्युपगमेऽपचयस्याप्यसिद्धेः, यथाहि-शीतस्पर्शसंपाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वह्न मन्दतायां मन्दा उपलब्धा उत्कर्षे च निरन्वयविनाशिनः । एवमन्यत्रापि मन्दतासद्भावे निरन्वयविनाशोऽवश्यमेष्टव्यः। ____अथ यथा-ज्ञानावारणीयकर्मोदये ज्ञानस्य मन्दता भवति तत्प्रकर्षे च ज्ञानस्य न निरन्वयो विनाशः एवं प्रतिपक्षभावनोत्कर्षेऽपि न गगादीनामत्यन्तमुच्छेदो भविष्यतीति। तदयुक्तम् । द्विविधं हि बाध्यं सहभूस्वभावं सहकारिसंपाद्यस्वभावं च । तत्र यत्सहभूस्वभावं तन बाधकोत्कर्षे कदाचिदपि निरन्वयं विनाशमा विशति ज्ञानं चात्मनः सहभूस्वभावम् आत्मा च परिणामिनित्यस्ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकर्मोदये ज्ञानस्य न निरन्वयो विनाशः। रागादयस्तु लोभादिकर्मविपाकोदयसंपादितसत्ताकाः ततः कर्मणो निमूलभपगमे तेऽपि निमूलमपगच्छन्ति । प्रयोगश्चात्र । ये सह
SR No.022468
Book TitleSyadwad Bhasha
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Grnathmala
Publication Year1982
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy