SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ૧૯૭ સિદ્ધાણં બુદ્ધાણં સૂત્ર प्रत्ययसापेक्षा करकण्ड्वादीनां प्रत्येकबुद्धानां बोधिः, नैवं स्वयंबुद्धानां जातिस्मरणादीनामिति, उपधिस्तु स्वयंबुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः, स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः स्वयंबुद्धानामाचार्यसनिधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण। (७) बुद्धबोधितसिद्धा बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते। (८) एते च सर्वेऽपि स्त्रीलिङ्गसिद्धाः केचित्, (९) केचित्पुंल्लिङ्गसिद्धाः, (१०) केचिन्नपुंसकलिङ्गसिद्धाः इति। आह, 'तीर्थकरा अपि स्त्रीलिङ्गसिद्धा भवन्ति?'। भवन्तीत्याह- यत उक्तं सिद्धप्राभृते 'सव्वत्योवा तित्ययरिसिद्धा, तित्ययरितित्थे णोतित्थयरसिद्धा असंखेज्जगुणा, तित्ययरितित्थे णोतित्थयरिसिद्धा असंखेज्जगुणा इति। (तीर्थकराः) न नपुंसकलिङ्गसिद्धाः। प्रत्येकबुद्धास्तु पुंल्लिङ्गा एव। (११) स्वलिङ्गसिद्धा द्रव्यलिङ्गं प्रति रजोहरणगोच्छगधारिणः, (१२) अन्यलिङ्गसिद्धाः परिव्राजकादिलिङ्गसिद्धाः, (१३) गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः। (१४) 'एगसिद्धा' इति एकस्मिन् समये एक एव सिद्धः, (१५) 'अणेगसिद्धा' इति एकस्मिन् समये यावदष्टशतं सिद्धम् यत उक्तम्'बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धव्वा। चुलसीई छण्णउई दुरहिय अद्भुत्तरसयं च।।१।।' अत्राह चोदक:- 'ननु सर्व एवैते भेदास्तीर्थसिद्ध-अतीर्थसिद्ध-भेदद्वयान्त विनः, तथाहि-तीर्थसिद्धा एव तीर्थकरसिद्धाः, अतीर्थकरसिद्धा अपि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वा, इत्येवं शेषेष्वपि भावनीयमित्यतः किमेभिरिति?'। अत्रोच्यते, -अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभेदाप्रतिपत्तेरज्ञातज्ञापनार्थं भेदाभिधानमित्यदोषः ।।१।। ललितविस्तरार्थ : સર્વ સિદ્ધોને નમસ્કાર કરું છું એમ કહ્યું, ત્યાં સર્વ સિદ્ધ શબ્દથી તીર્થસિદ્ધ આદિ પંદર Elनुं छे,तेने यथोक्तम्धी बतावे छे - तीसिद्ध, मतीसिद्ध, तासिद्ध, मतीर्थसिद्ध, સ્વયંબુદ્ધસિદ્ધ, પ્રત્યેકબુદ્ધસિદ્ધ, બુદ્ધબોધિતસિદ્ધ, સ્ત્રીલિંગસિદ્ધ, પુરૂષલિંગસિદ્ધ, નપુંસકલિંગસિદ્ધ, स्वसिद्धमन्यसिंगसिद्ध, हसिख, मेसिद्ध, मसिद्ध. त्यांना पंहरोमां, ૧. તીર્થ તે પૂર્વમાં વર્ણન કરાયેલા સ્વરૂપવાળું ચતુર્વિધ શ્રમણસંઘ છે, તે ઉત્પન્ન થયે છતે તીર્થકર દ્વારા ચતુર્વિધ સંઘની સ્થાપના કરાય છતે, જે સિદ્ધ થાય છે તે તીર્થસિદ્ધ છે. ૨. અતીર્થમાં સિદ્ધ અતીર્થસિદ્ધ છે=તીર્થની વચમાં સિદ્ધ થયેલા એ પ્રકારનો અર્થ છે અને સંભળાય છે –
SR No.022465
Book TitleLalit Vistara Part 03
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages292
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy