SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ૩ લોગરમાણ તેના ઉપનિપાતના આક્ષેપનું પણ સહકારીની પ્રાપ્તિના આક્ષેપ પણ, ત નિબંધનપણું છેઃ યોગ્યતાનું હેતુપણું છે, આ=પૂર્વમાં કહ્યું એ, અતિ સૂક્ષ્મ બુદ્ધિગમ્ય નિશ્ચયનયનો મત છે, એથી casोतम छेलगवान टोsोत्तम छ. ||१०|| लि: 'भव्यत्व 'मित्यादि, भविष्यति विवक्षितपर्यायेणेति भव्यः, तद्भावो भव्यत्वम्, 'नामेति संज्ञायाम्, ततो भव्यत्वनामको जीवपर्यायः, सिध्यन्ति निष्ठितार्था भवन्ति, जीवा अस्यामिति सिद्धिः सकलकर्मक्षयलक्षणा जीवावस्थैव, तत्र गमनं तद्भावपरिणमनलक्षणं, सिद्धिगमनं, तस्य योग्यत्वं नाम योक्ष्यते सामग्रीसम्भवे स्वसाध्येनेति योग्यं, तद्भावो योग्यत्वम्, 'अनादिः' आदिरहितः, स चासौ परि' इति सर्वात्मना 'नामः'= प्रवीभावः 'परिणामः', स एव पारिणामिकश्चानादिपारिणामिको 'भावः'जीवस्वभाव एव। एवं सामान्यतो भव्यत्वमभिधायाथ तदेव प्रतिविशिष्टं सत् तथाभव्यत्वम् इत्याह'तथाभव्यत्वमिति च' तथा तेनानियतप्रकारेण, भव्यत्वमुक्तरूपम्, 'इति' शब्दः स्वरूपोपदर्शनार्थः, 'च'कारोऽवधारणार्थो भिन्नक्रमः ततश्च यदेतत् तथाभव्यत्वं तत् किम्? इत्याह-विचित्रं नानारूपं सद् एतद् एव भव्यत्वं तथाभव्यत्वमुच्यते, कुत इत्याह- कालादिभेदेन-सहकारिकालक्षेत्रगुर्वादिद्रव्यवैचित्र्येण, आत्मनां जीवानां, 'बीजादिसिद्धिभावात्', बीजं-धर्मप्रशंसादि, 'आदि' शब्दात् 'धर्मचिन्ताश्रवणादिग्रहस्तेषां, सिद्धिभावात् सत्त्वात्, व्यतिरेकमाह- सर्वथा योग्यताऽभेदे सङ्घः प्रकारैरेकाकारायां योग्यतायां, तदभावात्= कालादिभेदेन बीजादिसिद्ध्यभावात्, कारणभेदपूर्वकः कार्यभेद इति भावः। पारिणामिकहेतोभव्यत्वस्याभेदेऽपि सहकारिभेदात् कार्यभेद इत्याशङ्कानिरासायाह- 'तत्सहकारिणामपि' तस्य-भव्यत्वस्य, सहकारिणः-अतिशयाधायकाः प्रतिविशिष्टद्रव्यक्षेत्रादयः तेषां, न केवलं भव्यत्वस्येति 'अपि' शब्दार्थः, किमित्याह- तुल्यत्वप्राप्तेः=सादृश्यप्रसङ्गात्। अत्रापि व्यतिरेकमाह- अन्यथा सहकारिसादृश्याभावे, योग्यतायाः भव्यत्वस्य, अभेदायोगा-एकरूपत्वाघटनात्, एतदपि कुत इत्याह- 'तदुपनिपाताक्षेपस्यापि', तेषां सहकारिणाम, उपनिपातो भव्यत्वस्य समीपवृत्तिः, तस्य आक्षेपोनिश्चितं स्वकालभवनं, तस्य। न केवलं प्रकृतबीजादिसिद्धिभावस्येति 'अपि'शब्दार्थः, तनिबन्धनत्वाद्-योग्यताहेतुत्वात्, ततो योग्यताया अभेदे तत्सहकारिणामपि निश्चितमभेद इति युगपत्तदुपनिपातः प्राप्नोतीति, निश्चयनयमतं-परमार्थनयाभिप्रायः, एतद् यदुत भव्यत्वं चित्रमिति। व्यवहारनयाभिप्रायेण तु स्यादपि तुल्यत्वं तस्य सादृश्यमात्राश्रयेणैव प्रवृत्तत्वात्।।१०।। निवार्थ: 'भव्यत्व'मित्यादि ..... प्रवृत्तत्वात् ।। 'भव्यत्व' मित्यादि, ललितविस्तरातुं प्रती छ, विवक्षित पर्यायथी થશે=સર્વ કર્મ રહિત એવા શુદ્ધ પર્યાયરૂપ વિવણિત પર્યાયથી થશે એ ભવ્ય, તેનો ભાવ=ભવ્યજીવોમાં
SR No.022463
Book TitleLalit Vistara Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy