________________
सम्मतितर्काख्यप्रकरणस्य
न्तरभावी सुरभि मलयजमिति प्रत्ययः समनुभूयत इति परिमलस्यापि चक्षुर्जप्रत्ययविषयत्वं स्यात् । अथ परिमलस्य लोचनाविषयत्वात् नायं प्रत्ययस्तज्जः, किन्तु गन्धसहचरितरूपदर्शनप्रभवानुमानस्वभावः । तदेतत्प्रकृतेऽपि कार्यकारणभावे लोचनाविषयत्वं समानम् । प्रत्ययस्य तु तदध्यवसायिनोऽपरं निमित्तं कल्पनीयम् । तन्न प्रत्यक्षतः सविकल्पकादपि धूमपावकयोः कार्यकारणत्वावगमः । मानसप्रत्यक्षं तु तदवगमनिमित्तं भवता नाभ्युपगम्यते । अपिच । कार्यकारणभावः सर्वदेशकालावस्थिताखिलधूमपावकव्यक्तिकोडीकरणेनावगतोऽनुमाननिमित्ततामुपगच्छति । नच प्रत्यक्षस्येयति वस्तुनि सविकल्पकस्य, निर्विकल्पकस्य वा व्यापारः संभवतीत्यसकृत्प्रतिपादितम् । किंच । न कारणस्य प्राग्भावित्वमात्रमेव बौद्धानामिव कारणत्वम् ; येन तस्य कारणखरूपाभेदात्तत्स्वरूपग्राहिणा प्रत्यक्षेण तदभिन्नस्वभावस्य कारणत्वस्यावगमः; केवलं कार्यदर्शनादुत्तरकालं तन्निश्चीयते, किन्तु कारणस्य कार्यजननशक्तिः कारणत्वम् । सा च शक्तिर्न प्रत्यक्षावसेया; अपि तु कार्यदर्शनसमवगम्या भवता परिकल्पिता ।
तदुक्तम्:
९४
“शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः” ।
ततः कथं प्रत्यक्षात्कारणस्य कारणत्वावगमः । अथ कार्यादेव कारणस्य कारणत्वावगमो भवतु, किं नश्छिन्नम् । ननु कार्यात्कारणत्वावगमेऽनुमानाच्छक्त्यवगमः, तत्र च तदपि कार्य लिङ्गभूतं यदि कारणशक्तिमवगमयति, तदा शक्तिकार्ययोः प्रतिबन्धग्रहणमभ्युपगन्तव्यम् । सच प्रतिबन्धावगमो न प्रत्यक्षादिति प्रतिपादितम् । अनुमानात्तदवगमे इतरेतराश्रयानवस्थादोषावतारोऽत्रापि समानः । अर्थापत्तेस्त्वनुमानेऽन्तर्भावः प्रतिपादित इति न प्रसिद्धानुमानस्यापि प्रवृत्तिर्भवदभिप्रायेण । अथ वह्निगतधर्मानुविधानात् धूमस्य तत्पूर्वकत्वं कुतश्चित्प्रमाणात्प्रसिद्धमिति धूमत्वस्य तत्पूर्वकत्वव्याप्तिसिद्धिः । अन्यथा धूमादग्न्यसिद्धेः सकललोकप्रसिद्धव्यवहाराभावः । अनुमानाभावे प्रत्यक्षतोऽपि व्यवहारासम्भवात्। तर्हि वचनविशेषस्यापि यदि विशिष्टकारणपूर्वकत्वं तत एव प्रमाणात्प्रसिद्धम् : विवादाध्यासिते वचने वचनविशेषत्वात्साध्येत, तदा कोऽपराधः ।