________________
सम्माततका
सम्मतिताख्यप्रकरणस्यनुपलब्धेः । तदयुक्तमुक्तं खड्गादौ दीर्घमुखादिप्रतिभासवदल्पमहत्त्वादियुक्तशब्दप्रतिभास इति । दृष्टान्तदाान्तिकयोवैषम्यात् । अतोऽबाधितमहत्त्वादिभेदभिन्नगादिप्रतिभासाद् गादिभेदसिद्धेः, तन्निबन्धनस्य सामान्यस्य गादौ सद्भावात् ; तन्निबन्धना प्रत्यभिज्ञा दलितोदितनखशिखरादिष्विव गादावभ्युपगमनीया । अत एव धूमादीनामिवानित्यत्वेऽपि गादीनां, सामान्यसद्भावतः सङ्गत्यवगमस्य संभवात् ; न परार्थशब्दोच्चारणान्यथाऽनुपपत्त्या तन्नित्यत्वकल्पना युक्ता । तद् गत्वादिविशिष्टस्य गादेरविवक्षितविशेषस्य स्वार्थेन सङ्गत्यवगमेन, न किञ्चिनित्यत्वेन । यथा गोलादिविशिष्टस्य गोव्यक्तिमात्रस्य वाच्यत्वे न कश्चिदोषः; तद्वद् वाचकवेऽपि तदर्थप्रतिपादकत्वस्य अन्यथापि सम्भवात् 'दर्शनस्य परार्थत्वात् नित्यः शब्दः' इत्ययुक्तमभिहितम् ॥ यत्पुनरुक्तम् । सदृशत्वेनाग्रहणात् न सादृश्यादर्थप्रतिपत्तिरिति । तत्र यदि सदृशपरिणामलक्षणं सामान्यं, व्यक्तेः सादृश्यमभिप्रेतम् ; तदा तस्य यथा शक्तिविशेषणस्य वाचकत्वं तथा प्रतिपादितम् । अथान्यथाभूतं सादृश्यमत्र विविक्षितं, तदा तस्य वाचकत्वानभ्युपगमात् स एव परिहारः । यत्तूक्तम् । वर्णानां निरवयवत्वात् न भूयोऽवयवसामान्ययोगलक्षणस्य सादृश्यस्य सम्भवः । तदत्यन्तासङ्गतम् । वर्णानां भाषावर्गणारूपपरिणतपुद्गलपरिणामस्यैव सावयवत्वात् ॥अथ पौद्गलिकले वर्णानां, महत्यदृष्टकल्पना प्रसज्यते । तथाहि । शब्दस्य श्रवणदेशागमनं, मूर्तिस्पर्शादिमत्त्वं च अनुपलभ्यमानं परिकल्पनीयम् । तेषां च मूर्तिस्पर्शानां सतामप्यनुद्भूतता कल्पनीया, त्वगग्राह्यत्वं च परिकल्पनीयम् । ये चान्ये सूक्ष्मा भागास्तस्य कल्प्यन्ते, तेषां च शब्दकरणवेलायां सर्वथाऽनुपलभ्यमानानां कथं रचनाक्रमः क्रियताम् । उपलभ्यमानत्वेऽपि कीदृशाद्रचनाभेदात् गकारादिवर्णभेदः, द्रवत्वेन च विना कथं वर्णावयवानां परस्परतः संश्लेषो वर्णनिष्पादकः । यद्यपि च कथञ्चित् का निष्पादिता वर्णाः, तथापि आगच्छतां कथं न वायुना विश्लेषः । लघूनां तदवयवानामुदकादिनिबन्धनाभावात् । निबद्धानामप्यागच्छतां वृक्षाद्यभिहतानां विश्लेषो लोष्टवत् । नचैकशब्दस्यैकश्रोत्रप्रवेशे मूर्त्तत्वेन प्रतिबद्धत्वादन्येषां श्रोतृणां तदेशव्यवस्थितानामपि श्रवणमुपपद्यते । प्रयत्ना