________________
तत्त्वबोधविधायिनी व्याख्या ।
1
इति पुनरपि कल्पनाद्वयम् । धर्मिखरूपत्वे, ज्ञातृवन्न प्रमाणान्तरगम्यत्वमित्युक्तम्। धर्मस्वभावत्वेऽपि धर्मिणो ज्ञातुर्व्यतिरिक्तो व्यापारः, अव्यतिरिक्तः, उभयम्, अनुभयं चेति चत्वारो विकल्पाः । न तावद्व्यतिरिक्तः । तत्त्वे, संबन्धाभावेन ज्ञातुर्व्यापार इति व्यपदेशायोगात् । अव्यतिरिक्ते, ज्ञातैव; तत्खरूपवत् नापरो व्यापारः । उभयपक्षस्तु, विरोधमपरिहृत्य नाभ्युपगमनीयः । अनुभयपक्षस्तु, अन्योऽन्यव्यवच्छेदरूपाणामेकविधानेनापरनिषेधादयुक्त इति प्रतिपादितम् ॥ किंच । व्यापारस्य कारकजन्यत्वाभ्युपगमे, तज्जनने प्रवर्तमानानि कारकाणि किम् अपरव्यापारभाञ्जि प्रवर्त्तन्ते, उत तन्निरपेक्षाणीति विकल्पद्वयम् । यद्याद्यो विकल्पः; तदा तद्व्यापारजननेऽपि, तैरपरव्यापारभाग्भिः प्रवर्त्तितव्यम् ; तज्जननेऽप्यपरव्यापारयुग्भिः प्रवर्त्तितव्यमित्यनवस्थितेः न फलजननव्यापारोद्भूतिरिति तत्फलस्याप्यनुत्पत्तिप्रसङ्गात् न व्यापारपरिकल्पनं श्रेयः ॥ अथ अपरव्यापारमन्तरेणापि फलजनकव्यापारजनने प्रवर्त्तन्ते, नायं दोषः तर्हि प्रकृतव्यापारमन्तरेणापि फलजनने प्रवर्त्तिष्यन्त इति किमनुपलभ्यमानव्यापारकल्पनप्रयासेन ॥ किंच । असौ व्यापारः फलजनने प्रवर्त्तमानः किमपरव्यापारसव्यपेक्षः, अथ निरपेक्ष इत्यत्रापि कल्पनाद्वयम्। तत्र यद्याद्या कल्पना । सा न युक्ता । अपरापरव्यापारजननक्षीणशक्तित्वेन व्यापारस्यापि फलजनकत्वायोगात् ॥ अथ व्यापारान्तरानपेक्ष एव फलजनने प्रवर्त्तते तर्हि कारकाणामपि व्यापारजनननिरपेक्षाणां फलजनने प्रवृत्तौ, न कश्चिच्छक्तिव्याघातः सम्भाव्यते ॥ अथ व्यापारस्य व्यापारस्वरूपत्वान्नापरव्यापारापेक्षा; कारकाणां त्वव्यापाररूपत्वात्तदपेक्षा । का पुनरियं व्यापारस्य व्यापारस्वभावता ? । यदि फलजनकत्वम् ; तद्विहितप्रतिक्रियम् । अथ कारकाश्रितत्वम् । तदपि भिन्नस्य, तज्जन्यत्वं विहाय, न सम्भवतीत्युक्तम् । अथ कारकपरतन्त्रत्वम् । तदपि न। अनुत्पन्नस्यासत्त्वात् । नाप्युत्पन्नस्य । अन्यानपेक्षत्वात्। तथापि तत्परतन्त्रत्वे, कारकाणामपि व्यापारपरतन्त्रता स्यात् । अथ एवं पर्यनुयोगः सर्वभावप्रतिनियतस्वभावव्यावर्तक इत्ययुक्तः । तथाहि । एवमपि पर्यनुयोगः सम्भवति; वह्नेर्दाहकस्वभावत्वे आकाशस्यापि स स्यात्; इतरथा वह्नेरपि स न स्यादिति । स्यादेतद् यदि प्रत्यक्षसिद्धो व्यापारस्वभावो भवेत्; स च न तथेति प्रतिपादि
४३