________________
तत्त्वबोधविधायिनी व्याख्या ।
३१
ज्ञानत्रितयाधिकज्ञानानपेक्षयाऽनवस्था च । एतद्वितयमपि परपक्षे प्रदर्शितं प्राक्तनन्यायेन । यश्चान्यत् पूर्वपक्षे परतः प्रामाण्ये दूषणमभिहितम् ; तश्चानभ्युपगमेन निरस्तमिति न प्रतिपदमुच्चार्य दूष्यते ॥ प्रेरणाबुद्धेस्तु प्रामाण्यं न साधन निर्भासि; प्रत्यक्षस्येव संवादात्तस्य तस्यामभावात् । नाप्यव्यभिचारलिङ्गनिश्चयबलात्खसाध्यादुपजायमानत्वादनुमानस्येव । किंच प्रेरणाप्रभवस्य चेतसः प्रामाण्यसिध्यर्थ स्वतः प्रामाण्यप्रसाधनप्रयासोऽयं भवताम् । चोदनाप्रभवस्य च ज्ञानस्य न केवलं प्रामाण्यं न सिद्ध्यति, किंत्वप्रामाण्यनिश्चयोऽपि तव न्यायेन सम्पद्यते । तथाहि । यद् दुष्टकारणजनितं ज्ञानं, न तत्प्रमाणम्; यथा तिमिराद्युपद्रवोपहतचक्षुरादिप्रभवं ज्ञानम् । दोषवत्प्रेरणावाक्यजनितं च 'अग्निहोत्रं जुहुयात्' इत्यादिवाक्यप्रभवं ज्ञानमिति कारणविरुद्धोपलब्धिः । न चासिद्धो हेतुः । भवदभिप्रायेण प्रेरणायां गुणवतो वक्तुरभावे, तद्गुणैरनिराकृते दोषैर्जन्यमानत्वस्य प्रेरणाप्रभवे ज्ञाने सिद्धत्वात् । अथ स्यादयं दोषो यदि वक्तृगुणैरेव प्रामाण्यापवादकदोषाणां निराकरणमभ्युपगम्यते, यावता वक्तुरभावेनापि निराश्रयाणां दोषाणामसद्भावोऽभ्युपगम्यत एव । तदुक्तम्
" शब्दे दोषोवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः क्वचित्तावद् गुणवक्तृत्वतः ॥ १ ॥ तद्गुणैरपकृष्टानां शब्दे संकान्त्यसम्भवात् । या वक्तुरभावेन न स्युर्दोषा निराश्रयाः ॥ २ ॥ इति । भवेदप्येवं यद्यपौरुषेयत्वं कुतश्चित्प्रामाण्यात्सिद्धं स्यात् । तच्च न सिद्धम् । तत्प्रतिपादक प्रमाणस्य निषेत्स्यमानत्वात् ।
अतएव चेदमप्यनुद्घोष्यम्
"तत्रापवादनिर्मुक्तिर्वक्त्रभावाल्लघीयसी ।
वेदे तेनाप्रमाणत्वं नाशङ्कामपि गच्छति” ॥ १ ॥
तेन गुणवतो वक्तुरनभ्युपगमाद्भवद्भिः, अपौरुषेयत्वस्य चासम्भवात्, अनि राकृतैर्दोषैर्जन्यमानत्वं हेतुः प्रेरणाप्रभवस्य चेतसः सिद्धः । दोषजन्यत्वाप्रामाण्य