________________
१३३
तत्वबोधविधायिनी व्याख्या। संबन्धान प्रतिपत्तनधिकृत्यैतदुच्यते, तदा धूमादिष्वपि तुल्यम् । अथ गृहीताविनाभावानामप्यतीन्द्रियपरलोकादिप्रतिभासानुत्पत्तेरेवमुच्यते । तदसत् । ये हि कार्यविशेषस्य तद्विशेषेण गृहीताविनाभावास्ते तस्मात्परलोकाद्यवगच्छन्त्येव । अतो न ज्ञायते केन विशेषेणातीन्द्रियार्थानुमानप्रतिक्षेपः। साहचर्याविशेषेऽपि व्याप्यगता नियतता प्रयोजिका, न व्यापकगता। अतः समव्याप्तिकानामपि व्याप्यमुखेनैव प्रतिपत्तिः। नियतताऽवगमे चार्थान्तरप्रतिपत्तौ न बाधा; न प्रतिबन्धः । एकस्य रूपभेदानुपपत्तेः; ततो न विशेषविरुद्धसंभवः, नापि विरुद्धाव्यभिचारिण इति । यदुक्तम् । विरुद्धानुमानविरोधयोः सर्वत्र संभवात्, क्वचिच्च विरुद्धाव्यभिचारिण इति। एतदप्यपास्तम्। अविनाभावसंबन्धस्य ग्रहीतुमशक्यत्वात् । अवस्थादेशकालादिभेदादित्यादेश्व पूर्वनीत्याऽनुमानप्रमाणत्वेऽनुपपत्तिः । परोक्षस्यार्थस्य सामान्याकारणान्यतः प्रतिपत्तौ लोकप्रतीतायां बौद्धैस्तु कार्यकारणभावादिलक्षणः प्रतिबन्धस्तन्निमित्तत्वेन कल्पितः ।
तदुक्तम्"कार्यकारणभावाहा स्वभावाहा नियामकात् ।
अविनाभावनियमो दर्शनान्न न दर्शनात्" ॥१॥ इत्यादि । तथा___“अवश्यंभावनियमः कः परस्यान्यथा परैः ।
अर्थान्तरनिमित्तो वा धर्मो वाससि रागवत्" ॥१॥ इति च । तथाहि । कचित्पर्वतादिदेशे धूम उपलभ्यमानो यद्यमिमन्तरेणैव स्यात् तदा पावकधर्मानुवृत्तितस्तस्य तत्कार्यत्वं यन्निश्चितं विशिष्टप्रत्यक्षानुपलम्भाभ्यां तदेव न स्यादित्यहेतोस्तस्यासत्त्वात् क्वचिदप्युपलम्भो न स्यात्; सर्वदा सर्वत्र सर्वाकारेण वोपलम्भः स्यात् । अहेतोः सर्वदा सत्त्वात् । स्वभावश्च यदि भावव्यतिरेकेण स्यात्, ततो भावस्य निःस्वभावत्वापत्तेः स्वभावस्याप्यभावापत्तिः। तत्प्रतिबन्धसाधकं च प्रमाणं कार्यहेतोर्विशिष्टप्रत्यक्षानुपलम्भशब्दवाच्यं प्रत्यक्षमेव, सर्वज्ञसाधकहेतुप्रतिबन्धनिश्चयप्रस्तावे प्रदर्शितम् । स्वभावहेतोस्तु कस्यचिद्विपर्यये बाधकं प्रमाणं व्यापकानुपलब्धिस्वरूपं, कस्यचित्तु विशिष्टं